संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चित्तमेव जगत्कर्तृ संकल्पयति यद्यथा ।असत्सत्सदसच्चैव तत्तथा तस्य तिष्ठति ॥१॥तेन संकल्पितः प्राणः प्राणो मे गतिरित्यपि ।न भवामि विनानेन तेन तत्तत्परायणम् ॥२॥अहं कतिपयं कालं ननु प्राणविनाकृतः ।न भवामि पुनर्नूनं भवाम्येवेति कल्पितम् ॥३॥यत्र तेनाङ्गं तत्रैतत्प्राणेनाशु क्षणाद्वपुः ।उदितं पश्यति मनो मायापुरमिवाततम् ॥४॥न भवाम्येव भूयोऽहं प्राणदेहविनाकृतः ।दृढनिश्चयभागित्थं चितो भवति नो पुनः ॥५॥दोलायितं तु संदेहाद्दुःखमास्ते कुनिश्चयम् ।विकल्पेनैवमस्यैतज्ज्ञानान्नाल्पेन यास्यति ॥६॥यस्यायमहमित्यस्ति तस्य तन्नोपशाम्यति ।वर्जयित्वात्मविज्ञानं केनचिन्नाम हेतुना ॥७॥नान्यत्र प्रथते ज्ञानं मोक्षोपायविचारणात् ।ऋते तस्मात्प्रयत्नेन मोक्षोपायो विचार्यताम् ॥८॥किलाहमिदमित्येव नाविद्या विद्यते क्वचित् ।मोक्षोपायादृते नैतत्कुतश्चिदयतेऽन्यतः ॥९॥एवं यन्मनसाभ्यस्तमुपलब्धं तथैव तत् ।तेन मे जीवितं प्राणा इति प्राणे मनः स्थितम् ॥१०॥देहे सौम्ये स्थिते प्राणे मनो मननवद्भवेत् ।क्षुब्धे प्राणगतं क्षोभं पश्यन्नान्यत्प्रपश्यति ॥१४॥यदा स्वकर्मणि स्पन्दे व्यग्रः प्राणो भृशं भवेत् ।तदा तदीहितव्यग्रः प्राणो नात्मोद्यमी भवेत् ॥१२॥एते हि प्राणमनसी त्वन्योन्यं रथसारथी ।के नाम नानुवर्तन्ते रथसारथिनौ मिथः ॥१३॥इत्यादिसर्गे स्वात्मैव चेतितः परमात्मना ।तेनैषाद्यापि नियतिर्नाबुधानां निवर्तते ॥१४॥देशकालक्रियाद्रव्यैर्मनःप्राणशरीरिणाम् ।प्रयान्त्यधिगता देहेष्वरूढानां परे पदे ॥१५॥स्वं प्राणमनसी साम्यात्कुर्वती कर्म तिष्ठतः ।वैषम्याद्विषमं चैकं शान्ते शान्ता सुषुप्तता ॥१६॥यदाहारादिरुद्धासु नाडीषु क्वापि पिण्डितः ।शान्तमास्ते जडः प्राणस्तदोदेति सुषुप्तता ॥१७॥नाडीष्वन्नावपूर्णासु तथा क्षीणासु वा क्लमात् ।निःस्पन्दस्तिष्ठति प्राणस्तदोदेति सुषुप्तता ॥१८॥नाडीनां मृदुरूपत्वात्पूर्णत्वाद्वा व्रणोदरे ।क्वापि प्राणे स्थिते लीने निःस्पन्दास्ते सुषुप्तता ॥१९॥तापस उवाच ।अथ यस्य प्रविष्टोऽहं हृदये सोऽभवन्निशि ।सुषुप्तघननिद्रालुराहारपरितृप्तिमान् ॥२०तेन सार्धमहं तत्र तच्चित्तेनैकतां गतः ।सुषुप्तनिद्रां सुघनां गुणीभूतोऽनुभूतवान् ॥२१॥ततोऽन्धस्यस्य जीर्णेऽन्तर्नाडीमार्गे स्फुटे स्थिते ।प्राकृते स्पन्दिते प्राणे सुषुप्तं तनुतां ययौ ॥२२॥सुषुप्ते तनुतां याते हृदयादिव निर्गतम् ।अपश्यमहमत्रैव भुवनं भास्करादिमत् ॥२३॥तच्च क्षुब्धार्णवोत्थेन पूर्यमाणं महाम्भसा ।विमुक्तेनेव कल्पाभ्रैरभ्रंकषतरंगिणा ॥२४॥प्रोह्यत्पर्वतपूरेण महावर्तविराविणा ।वहद्वनालीतृण्याढ्यैर्व्याप्तेनोन्मूलितागया ॥२५॥पूर्वमेवावदग्धायास्त्रिलोक्याः खण्डखण्डकैः ।पूर्णेन परितः प्रौढैः खपुराद्रिमहीमयैः ॥२६॥अहं तत्रैव पश्यामि यावत्कस्मिंश्चिदास्पदे ।कस्यांचित्पुरि कस्मिंश्चिद्गुहे वध्वा पुरे स्थितः ॥२७॥सदारः सहभृत्योऽहं सपुत्रः सहबान्धवः ।सहभाण्डोपस्करणः सगृहोऽपहृतोऽम्भसा ॥२८॥उह्यमानं क्षयाम्भोभिस्तद्गृहं तच्च पत्तनम् ।लङ्घ्यमानं द्रुमाकारैः पूर्यमाणं च वारिभिः ॥२९॥बृहत्कलकलारावं जेतुमब्धिमिवोद्यतम् ।अतिक्षुभितवास्तव्यमनपेक्षितपुत्रकम् ॥३०आवर्ततरलाढ्याभिर्वृत्तिभिर्व्यूढमाकुलम् ।साक्रन्दोरस्ताडनोत्कजनजम्बालभीषणम् ॥३१॥स्फुटत्कुड्यत्रुटत्काष्ठरटच्छङ्कुकृतोद्रटम् ।प्रपतच्छादनच्छत्रगवाक्षस्थाङ्गनामुखम् ॥३२॥इति यावत्क्षणं पश्यन्नहं तद्भावमागतः ।परिरोदिमि दीनात्मा तावत्तत्सकलं गृहम् ॥३३॥चतुर्धा भित्तिभेदेन वृद्धबालाङ्गनान्वितम् ।जगाम शतधा वीच्यां शिलायामिव निर्झरः ॥३४॥उह्यमानोऽहमभवं ततः प्रलयवारिणि ।त्यक्तसर्वकलत्रादिचित्तः प्राणपरायणः ॥३५॥क्षिप्तस्तरङ्गजालेन योजनाद्योजनव्रजे ।उह्यमानद्रुमशिखाज्वालान्तरितजर्जरः ॥३६॥काष्ठकुड्यतटीपीठकटुसंघट्टघट्टितः ।आवर्तनृत्यपातालतले गत्वोत्थितश्चिरात् ॥३७॥चलाचलागमापायवलद्गुलुगुलारवे ।जले बहुलकल्लोले मग्नोन्मग्नः पुनः पुनः ॥३८॥संघट्टभग्नशैलेन्द्रपङ्किले सलिले क्षणम् ।पल्वले वारण इव मग्नः सत्पयसोद्धृतः ॥३९॥यावदाश्वसिमि क्षिप्रं डिण्डीरे चाद्रिखण्डके ।तावदेत्य हतो वेगाद्वैरिणेवातिवारिणा ॥४०नानावलनकल्लोलजलजालजुषा तदा ।न तदस्ति न यद्दृष्टं दुःखं दुःखात्मना मया ॥४१॥एतस्मिन्नन्तरे तत्र तदा तत्तामसेक्षण ।यावज्जीवचिराभ्यासाद्विषादित्वात्सचेतसः ॥४२॥प्राक्तनं संस्मृते रूपं स्वं समाधिमयं मया ।आ अहो नु जगत्यन्यरूपेऽहं तापसः स्थितः ॥४३॥अहं कस्यचिदन्यस्य स्वप्नदृष्टिदिदृक्षया ।प्रविष्टोऽहमयं स्वप्ने पश्यामीमं भ्रमं त्विति ॥४४॥वर्तमानदृढाभ्यासमिथ्याज्ञानमयात्मनि ।कल्लोलैरुह्यमानोऽपि ततोऽहं सुखितः स्थितः ॥४५॥इदं वारितयापश्यं प्रलयाब्धिविवर्तनाः ।उह्यमानाद्रिनगरग्रामोर्वीखण्डपादपाः ॥४६॥उह्यमानामराहीन्द्रनारीनरनभश्चराः ।उह्यमानमहारम्भलोकपालपुरालयाः ॥४७॥अथाहमद्रिमिश्राम्बुकल्लोलाद्रिविघट्टनाः ।मुहुः पश्यञ्जगन्नाशमनन्तरमचिन्तयम् ॥४८॥चित्रमेष त्रिनेत्रोऽपि जीर्णं तृणमिवार्णवे ।उह्यते हा हतविधेर्नाऽकार्यं नाम विद्यते ॥४९॥चतुर्धा भित्तिभेदेन प्रकटाशयतामहम् ।पद्मानीव गृहाण्यप्सु दर्शयन्ति रवेः प्रभाः ॥५०चित्रं तरङ्गवलनासु समुल्लसन्तिगन्धर्वकिंनरनरामरनागनार्यः ।भूरिभ्रमैर्भ्रमरहारमिव ह्रदिन्यःपद्मिन्य एव सकलामलजङ्गमाख्याः ॥५१॥विद्याधरीभुजलतावलितेन्दुकान्त-कक्ष्याविभागमणिजालगवाक्षलक्ष्म्यः ।देवासुरोरगमहागृहभित्तिभागाःसौवर्णनौगणवदम्बुभरे भ्रमन्ति ॥५२॥मत्तेभकुम्भपरिणाहिनि कुङ्कुमाङ्केशच्याः पयोधरभरे रतिखेदखिन्नः ।लग्नः सुखादिव करोति तरङ्गदोलाःसंशीर्यमाणमणिगेहगतोऽत्र शक्रः ॥५३॥हा वान्ति वारिवलनावलितान्तरिक्ष-मृक्षावधूतकुसुमप्रकरान्किरन्तः ।वाताः पतद्विबुधमन्दिररत्नसाना-बुद्यानकोटरगता इव साक्षतेन ॥५४॥यन्त्रोत्थहेमदृषदा सदृशाम्बुरूपंक्षुब्धाद्रिभीमजलवीचिशिखेरितं खे ।व्यावर्तते दिवि दलावृतकर्णिकास्थ-ध्यानैकनिष्ठपरमेष्ठिसरोजमेतत् ॥५५॥मेघा इवातिघनघुंघुमघोषभीमावीचीचयाः कनकपत्तनविद्युतोऽमी ।व्योम्नि भ्रमन्ति गजवाजिमृगेन्द्रनाग-वृक्षाद्रिकाननमहीतलतुल्यदेहाः ॥५६॥उह्यमानोदभूवीच्यामतसीकुसुमश्रियाम् ।यमोऽप्ययं यमेनेव वारिपूरेण नीयते ॥५७॥एते बुद्ध्यन्ति सलिलेऽखिललोकपालानागा नगैश्च नगरैः सह लक्षसंख्याः ।लक्ष्म्याकरोदरगुहागतवारिपूर-व्यावर्तनागुडगुडैरभिलक्ष्यपूराः ॥५८॥दुर्वारवारिवलनापरिपूरितेषुपातालभूतलनभस्तलदिक्तटेषु ।मत्स्या इवेन्द्रयमयक्षसुरासुरौघाःसग्रामपत्तनविमाननगा भ्रमन्ति ॥५९॥उह्यमानस्य कृष्णस्य तनुरेवाम्बुरूपिणी ।मातृजङ्घेव वत्सस्य कष्टं बन्धनतां गता ॥६०अन्योन्यमावलयतामहो बुडबुडारवः ।श्रूयते देवदैत्यानां स्वस्त्रीहलहलाकुलः ॥६१॥कोलाहलाकुलपुरोत्तमवेगपात-विक्षुब्धवारिपटलीवलिताम्बरासु ।दिक्षु भ्रमज्जलदजालघनास्विवैषसंलक्ष्यते जलमयः स्फुटकुड्यबन्धः ॥६२॥हा कष्टमेष तरसा पयसापनीतआवर्तवृत्तिपरिवर्तनया स्वधस्तात् ।एते कुबेरयमनारदवासवाद्याःप्राणान्पयोभ्रपटलैर्विधुरास्त्यजन्ति ॥६३॥प्राज्ञाः प्रशान्तजडदेहमिहोह्यमानंमानोज्झिताः शवतयैव च तद्वहन्ति ।ब्रह्मेन्द्रविष्णुपुरखण्डकसंकटाम्बुसंघट्टनेन कटुकुट्टनदृक्षु तेन ॥६४॥स्त्रीणां गणोऽर्धपरिपिष्ट इहैति कष्टंकस्त्रातुमेनमपरः कुजडं समर्थः ।न ह्यन्तकस्य दशनैरभिचर्व्यमाणात्रातुं परस्परमियं जनता समर्था ॥६५॥पर्वतप्रतिघसर्पसर्पणाःसंसरन्ति विपुला जलोच्चयाः ।तेषु नाव इव देवपत्तना-न्युन्नमय्य वपुराशु यान्त्यधः ॥६६॥द्वीपाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणै-व्याप्तं वारिविलोलितैः सरसिजैरालूनमूलैरिव ।एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितंकष्टं ते क्व गता महर्द्धिविभवा देवा जगन्नायकाः ॥६७॥इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि- वि० श० जगन्नाशवर्णनं नामैकोनचत्वारिंशदधिकशततमः सर्गः ॥१३९॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP