संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ७३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ७३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७३ Translation - भाषांतर श्रीराम उवाच ।बन्धमोक्षजगद्बुद्धिर्न शून्या नापि सन्मयी ।नास्तमेति न चोदेति किमप्याद्यमसौ किल ॥१॥उपदिष्टमिदं ब्रह्मंस्त्वया बुद्धमलं मया ।भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम् ॥२॥सर्गादिसंभ्रमदृशः श्स्वयतादिदृशस्तथा ।न काश्चन विभो सत्या असत्याश्च न काश्चन ॥३॥एवंस्थिते तु यत्सत्यं तत्सर्वं बुद्धवानहम् ।तथापि भूयोबोधाय सर्गानुभव उच्यताम् ॥४॥श्रीवसिष्ठ उवाच ।यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत् ॥५॥तस्य नाशे महानाशे महाप्रलयनामनि ।ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि ॥६॥शिष्यते शान्तमत्यच्छं किमप्यजमनादि सत् ।यतो वाचो निवर्तन्ते किमन्यदवगम्यते ॥७॥सर्षपापेक्षया मेरुर्यथातिवितताकृतिः ।तथाकाशमपि स्थूलं शून्यं सद्यदपेक्षया ॥८॥शैलेन्द्रापेक्षया सूक्ष्मा यथेमे त्रसरेणवः ।तथा सूक्ष्मतरं स्थूलं ब्रह्माण्डं यदपेक्षया ॥९॥अमानकलिते सौम्ये काले परिणते चिरम् ।शान्ते तस्मिन्परे व्योमन्याद्ये ह्यनुभवात्मनि ॥१०॥असंकल्पो महाशान्तो दिक्कालैरमिताकृतिः ।अन्तर्महांश्चिदाकाशो वेत्तीव परमाणुताम् ॥११॥असत्यामेव तामन्तर्भावयन्स्वप्नवत्स्वतः ।ततः स ब्रह्मशब्दार्थं वेत्ति चिद्रूपतां तताम् ॥१२॥चिद्भावोऽनुभवत्यन्तश्चित्त्वाच्चिदणुतां निजाम् ।तामेव पश्यतीवाथ ततो द्रष्टेव तिष्ठति ॥१३॥यथा स्वप्ने मृतं पश्यत्येक एवात्मनात्मनि ।मृत एव मृतेर्द्रष्टा तथा चिदणुरात्मनि ॥१४॥ततश्चिद्भाव एषोऽन्तरेक एव द्वितामिव ।पश्यन्स्वरूप एवास्ते द्रष्टृदृश्यमिव स्थितः ॥१५॥चिद्भावशून्य एवातिनिराकारोऽप्यणुं तनुम् ।पश्यन्दृश्यमिवोदेति द्रष्टेव च तदा द्विताम् ॥१६॥प्रकाशमणुमात्मानं पश्यंस्तदनुभावतः ।उच्छूनतां चेतयते बीजमङ्कुरतामिव ॥१७॥देशकालक्रियाद्रव्यद्रष्टृदर्शनदृग्दृशः ।अर्थान्तरस्वभावेन तिष्ठन्त्यनुदिताभिधाः ॥१८॥चिदणुर्यत्र भातोऽसौ देशो मितिमुपागतः ।यदा भातस्तदा कालो यद्भानं तत्क्रिया स्मृता ॥१९॥उपलब्धं विदुर्द्रव्यं द्रष्टृताप्युपलब्धता ।आलोकनं दर्शनता दृगालोकनकारणम् ॥२०॥एवमुच्छूनता भाति मितानन्ताथ वा क्रमात् ।असत्यैव नभस्येव नभोरूपैव निष्क्रमा ॥२१॥चिदणोर्भासनं भातं तत्प्रदेशेन देहगम् ।येन पश्यति तच्चक्षुः संग्रहोऽक्षदृशामिति ॥२२॥चिदणुप्रतिभासेऽन्तः प्रथमं नामवर्जितम् ।तन्मात्रशब्दमेतेषामेतदाकाशरूपि तत् ॥२३॥चिदणुप्रतिभाकाशपिण्ड एव घनस्थितिः ।अनुसंधानविवशश्चेततीन्द्रियपञ्चकम् ॥२४॥एवं चिदणुसंधानं दृश्यपोषमुपैत्यलम् ।तदेव ज्ञानमित्युक्तं बुद्धिरित्यभिधीयते ॥२५॥ततो मनस्तदारूढमहंकारपदं गतम् ।देशकालपरिच्छेद इत्यङ्गीकृत आत्मना ॥२६॥चिदणोरस्य भावस्य प्रत्यग्रं यत्र वेदनम् ।स तत्रोत्तरकालेन पूर्वाभिख्यां करिष्यति ॥२७॥अन्यस्मिन्नेकदेशे सा ऊर्ध्वाभिख्यां करिष्यति ।एवं दिगभिधानादि कल्पयिष्यति स क्रमात् ॥२८॥देशकालक्रियाद्रव्यशब्दानामर्थवेदनम् ।भविष्यति स्वयमसावाकाशविशदोऽपि सन् ॥२९॥इत्थं स्वानुभवेनैष व्योम्नैव व्योमरूपभृत् ।आतिवाहिकनामान्तर्देहः संपद्यते चितेः ॥३०॥एष एव चिरं कालं तत्र भावनया तया ।गृह्णाति निश्चयं पूर्णमाधिभौतिकमात्मनः ॥३१॥व्योम्ना व्योम्न्येव रचितो निर्मलेनेति विभ्रमः ।असता सत्समास्तीर्णस्तापनद्या जलं यथा ॥३२॥संकल्पनामुपादत्ते स्वदेहे गगनाकृतिः ।शिरःशब्दार्थदां कांचित्पादशब्दार्थदां क्वचित् ॥३३॥उरःपार्श्वादिशब्दार्थमयीं क्वचिदनाविलाम् ।भावाभावग्रहोत्सर्गशब्दाद्यर्थमयीमपि ॥३४॥नियताकारकलनां देशकालादियन्त्रिताम् ।विषयोन्मुखतां यातामिन्द्रियव्रातवेधिताम् ॥३५॥सोणुः पश्यत्यथाकारमात्मनः स्वात्मकल्पितम् ।हस्तपादादिकलितं चित्तादिकलनान्वितम् ॥३६॥एवं संपद्यते ब्रह्मा तथा संपद्यते हरिः ।एवं संपद्यते रुद्र एवं संपद्यते कृमिः ॥३७॥न च किंचन संपन्नं यथास्थितमवस्थितम् ।शून्यं शून्ये विलसितं ज्ञप्तिर्ज्ञप्तौ विजृम्भिता ॥३८॥प्रतिकन्दः शरीराणां बीजं त्रैलोक्यवीरुधाम् ।सर्गार्गलप्रदो मुक्तेः संसारासारवारिदः ॥३९॥कारणं सर्वकार्याणां नेता कालक्रियादिषु ।सर्वाद्यः पुरुषः स्वैरमित्यनुत्थित उत्थितः ॥४०॥नास्य भूतमयो देहो नास्यास्थीनि शरीरके ।अवष्टब्धुमसौ मुष्ट्या शक्यते न तु केनचित् ॥४१॥तेनाब्धिमेघसंग्रामसिंहगर्जोर्जितात्मना ।अपि सुप्तनरेणेव नूनं मौनवता स्थितम् ॥४२॥जाग्रतः स्वप्नसंदृष्टयोद्धारभटिवेदनम् ।यथा स्मृतिगतं नासन्न सत्तद्वदसौ स्थितः ॥४३॥बहुयोजनलक्षौघप्रमाणोऽपि बृहद्वपुः ।परमाण्वन्तरे भाति लोमान्तस्थजगत्र्त्रयः ॥४४॥कुलशैलगुणौघात्मा जगद्धन्दात्मकोऽपि सन् ।कुलायं धानकामात्रमपि नो पूरयत्यजः ॥४५॥जगत्कोटिशताभोगविस्तीर्णोऽप्यणुमात्रकम् ।वस्तुतो व्याप्तवानेष न देशं स्वप्नशैलवत् ॥४६॥स्वयंभूरेष कथितो विराडेष स उच्यते ।ब्रह्माण्डात्मा जगद्देहो वस्तुतस्तु नभोमयः ॥४७॥सनातन इति प्रोक्तो रुद्र इत्यपि संज्ञितः ।इन्द्रोपेन्द्रमरुन्मेघशैलजालादिदेहकः ॥४८॥तेजोणुमात्रं प्रथितं चेतित्वात्प्रथमं वपुः ।क्रमेण स्फारसंवित्तिर्महानहमिति स्थितः ॥४९॥स्पन्दसंवेदनात्तेन स्पन्द इत्यनुभूयते ।यः स एवानिलाभिख्यो वातस्कन्धात्मना स्थितः ॥५०॥प्राणापानपरिस्पन्दो वेदनादनुभूयते ।तेन यः सोऽयमाकाशे वातस्कन्ध उदाहृतः ॥५१॥चित्ताद्ये कल्पितास्तेन बालेनेव पिशाचिकाः ।तेजःकणा असन्तोऽपि त एते धिष्ण्यतां गताः॥५२॥प्राणापानपरावर्तदोला तदुदरोदिता ।वातस्कन्धाभिधां धत्ते जगत्तद्धृदयं महत् ॥५३॥प्रतिच्छन्दशरीराणां प्रथमं बीजमेष सः ।जगद्गतानां सर्वेषामाकल्पव्यवहारिणाम् ॥५४॥प्रतिच्छन्द्याद्यदेतस्मादुत्थिता जगदात्मना ।देहास्तदा यथा बाह्यमन्तरेषां तथा स्थितम् ॥५५॥चितिस्तस्याद्यबीजस्य पूर्वमेव यथोदिता ।तथैवाद्यापि जीवेऽन्तस्तथोदेति तदीहिता ॥५६॥श्लेष्मपित्तानिलास्तस्य चन्द्रार्कपवनास्त्रयः ।ग्रहा ऋक्षगणास्तस्य प्राणाष्ठीवनसीकराः ॥५७॥तस्यास्थीन्यद्रिजालानि मेदसो जातिका घनाः ।शिरः पादौ त्वचं देहान्पश्यामस्तस्य नो वयम् ॥५८॥वपुर्विराजो जगदङ्ग विद्धिसंकल्परूपस्य हि कल्पनात्म ।आकाशशैलावनिसागरादिसर्वं चिदाकाशमतः प्रशान्तम् ॥५९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पाषाणो० विराडात्मवर्णनं नाम त्रिसप्ततितमः सर्गः ॥७३॥ N/A References : N/A Last Updated : September 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP