संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः २०७

निर्वाणप्रकरणं - सर्गः २०७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ

श्रीवसिष्ठ उवाच ।
श्रृणु राजन्यथा स्पष्टमेतत्ते कथयाम्यहम् ।
येन ते सर्वसंदेहा यास्यन्त्यलममूलताम् ॥१॥
सर्वे तावज्जगद्भावा असद्रूपाः सदैव हि ।
सद्रूपाश्च सदैवेमे यथासवेदनं स्थितेः ॥२॥
इदमित्थमिति प्रोता यत्र संवित्तदेव तत् ।
भवत्यवश्यं तत्त्वङ्ग सदेवास्त्वसदेव वा ॥३॥
ईदृक्स्वभावा संवित्तिस्तया देहो विभाव्यते ।
एक एव स्वरूपेण तस्यास्ते न च तद्विदा ॥४॥
विदमेव विदुर्देहं स्वप्नादावितरेतरा ।
संवित्काचित्संभवति न चान्यास्ति शरीरता ॥५॥
आश्रितस्वप्नसंदर्शस्तथेदं भासते जगत् ।
समस्तकारणाभावात्सर्गादावन्यतात्र का ॥६॥
एवं यदेव विमलं वेदनं ब्रह्मसंज्ञितम् ।
तदेवेदं जगद्भाति तत्केव जगतोऽन्यता ॥७॥
एवं पूर्वापरं शुद्धमविकार्यजगत्स्थितेः ।
लोकवेदमहाशास्त्रैरनुभूतमुदाहृतम् ॥८॥
अपलाप्यैव ये मूढा अन्धकूपकमेकवत् ।
समस्तभूतसंवित्तौ रूढपूर्णं महात्मभिः ॥९॥
वर्तमानानुभवनमात्रमोहप्रमाणकाः ।
शरीरकारणा संविदिति मोहमुपागताः ॥१०॥
उन्मत्ता एव तेऽज्ञास्ते योग्या नास्मत्कथासु ते ।
अक्षीबक्षीबयोर्मूढबुद्धयोः कैव संकथा ॥११॥
यया विपश्चित्कथया सर्वसंशयसंक्षयः ।
न भवेत्र्त्रिषु लोकेषु ज्ञेया मूर्खकथैव सा ॥१२॥
प्रत्यक्षमात्रनिष्ठोऽसौ मूढास्थ इति वक्ति यत् ।
तेन निर्युक्तिनोक्तेन शिलासदृशवृत्तिना ॥१३॥
प्रोक्तः सर्वविरुद्धेन सोऽज्ञः कूपान्धदर्दुरः ।
पूर्वापरधियं त्यक्त्वा वर्तमाने मतिस्थितः ॥१४॥
वेदा लोकादयश्चैते पृष्टाः स्वानुभवान्विताम् ।
वदन्तीमां दृशं सर्वे यथा नश्यन्ति संशयाः ॥१५॥
संविदेव शरीरं चेच्छवं कस्मान्न चेतति ।
इति यस्य मतिस्तस्मै मूढायेदमिहोच्यते ॥१६॥
ब्रह्मणो ब्रह्मरूपस्य संकल्पनगरं ततम् ।
इदं तावज्जगद्भानं तव स्वप्नपुरं यथा ॥१७॥
तत्समस्तं सदैवेदं चिन्मात्रात्म निरन्तरम् ।
भवत्यत्र न ते भ्रान्तिः स्वे स्वप्ननगरे यथा ॥१८॥
तत्र तावद्दिशः शैलाः पृथ्व्यादि नगरादि च ।
सर्वं चिन्मयमाकाशमिति ते स्वानुभूतिमत् ॥१९॥
संविद्व्योम घनं ब्रह्म तत्सकल्पपुरं विराट् ।
शुद्धसंविन्मयो ब्रह्मा तदिदं जगदुच्यते ॥२०॥
ब्राह्मे संकल्पनगरे यद्यत्संकल्पितं यथा ।
तथानुभूयते तत्तत्त्वत्संकल्पपुरे यथा ॥२१॥
संकल्पनगरे यद्यद्यथा संकल्प्यते तथा ।
तत्तथास्त्येव च तदा त्वत्संकल्पपुरे यथा ॥२२॥
तस्माद्देहस्य नियतौ यथेतौ ब्रह्मणा चिता ।
स्पन्दास्पन्दौ कल्पितौ द्वौ स तथैवानुभूतवान्॥२३॥
महाप्रलयपर्यन्ते पुनः सर्गः प्रवर्तते ।
समस्तकारणाभावाद्द्रव्यं तावन्न विद्यते ॥२४॥
विमुक्तत्वात्प्रजेशस्यन च संभवति स्मृतिः ।
ब्रह्मैवेयमतो दीप्तिर्जगदित्येव भासते ॥२५॥
तस्मादाद्यात्मना भातं स्वमेव ब्रह्मणा स्वतः ।
जगत्संकल्पनगरमिति बुद्धं च खेन खम् ॥२६॥
यथा संकल्पनगरं चिन्मात्रं भाति केवलम् ।
तथैवाकारणं भाति चिन्मात्रोन्मेषणं जगत् ॥२७॥
शरीरमस्तु वा मास्तु यत्र यत्रास्ति चिन्नभः ।
वेत्त्यात्मानं तत्र तत्र द्वैताद्वैतमयं जगत् ॥२८॥
तस्माद्यथा स्वप्नपुरं यथा संकल्पपत्तनम् ।
तथा पश्यति चिद्व्योम मरणानन्तरं जगत् ॥२९॥
अपृथ्व्यादिमयं भाति पृथ्व्यादिमयवज्जगत् ।
यथेदमाऽऽप्रथमतो मृतस्याप्यखिलं तथा ॥३०॥
देशकालौ न सर्गेण प्रबुद्धस्येव तौ यथा ।
अणुमात्रमपि व्याप्तौ तथैव परलोकिनः ॥३१॥
इदं प्रबुद्धविषये स्वानुभूतमपि स्फुटम् ।
जगन्न विद्यते किंचित्कारणं गगने यथा ॥३२॥
अप्रबुद्धस्यासदेव यथेदं भाति भासुरम् ।
तथैव सर्गवद्भाति व्योमैव परलोकिनः ॥३३॥
शुधराद्रियमाद्याढ्यं खमेव परलोकिनः ।
अभूतपूर्वमाभाति भूतपूर्ववदाततम् ॥३४॥
मृतोऽयं पुनरुत्पन्नो यमलोके शुभाशुभम् ।
भुञ्जेऽहमित्यतिघनं मृतो भ्रान्तिं प्रपश्यति ॥३५॥
मोक्षोपायानादरिणामेष मोहो न शाम्यति ।
बोधादवासनत्वेन मोह एष प्रशाम्यति ॥३६॥
अप्रबुद्धस्य या संवित्सा धर्माधर्मवासना ।
ख एव खात्मिका भाति यत्तदेव जगत्स्थितम् ॥३७॥
न शून्यरूपं न च सत्स्वरूपं
ब्रह्माभिधं भाति जगत्स्वरूपम् ।
तच्चापरिज्ञानवशादनर्थ-
भूतं परिज्ञातवतः शिवात्म ॥३८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नोत्तरं नाम सप्ताधिकद्विशततमः सर्गः ॥२०७॥

N/A

References : N/A
Last Updated : October 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP