संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५९ Translation - भाषांतर श्रीराम उवाच ।अनन्तरं नभःकोशकुंटीकोटरतो मुने ।तव ध्यानात्प्रबुद्धस्य वृत्तं वर्षशतेन किम् ॥१॥श्रीवसिष्ठ उवाच ।ततो ध्यानात्प्रबुद्धोऽहं श्रुतवांस्तत्र निःस्वनम् ।मृदु व्यक्तपदं हृद्यं न च वाच्यनुगो यतः ॥२॥स्त्रीस्वभावादिव मृदु मधुरं वा निनादि वा ।स्वल्पाङ्गत्वादनिर्ह्रादि मया तद्वाक्यमूहितम् ॥३॥इन्दिन्दिररुताकारं तन्त्रीरणितरञ्जनम् ।न रोदनं च पठनं बिसकोशसमस्वनम् ॥४॥तदाकर्ण्याशु तत्रेदमहं चिन्तितवानथ ।शाब्दिकान्वीक्षणात्पश्यन्दिशो दश सविस्मयः ॥५॥व्योम्नोऽयं सिद्धसंचारमार्गशून्यान्यनन्तरम् ।भागो योजनलक्षाणि समतिक्रम्य संस्थितः ॥६॥तदिहेदृग्विधस्य स्यात्कुतः शब्दस्य संभवः ।शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन् ॥७॥अनन्तमिदमाशून्यं पुरो मे निर्मलं नभः ।इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते ॥८॥यदेति चिन्तयित्वाहं भूयोभूयो विलोकयन् ।शब्देश्वरं न पश्यामि तदा चिन्तितवानिदम् ॥९॥आकाश एव भूत्वाहमाकाशेनैकतां गतः ।आकाशगुणशब्दार्थान्करोम्याकाशकोशके ॥१०॥देहाकाशमिह स्थाप्य ध्यानेनेह यथास्थितम् ।चिदाकाशवपुर्व्योम्ना याम्यैक्यं वारिवाम्बुना ॥११॥चिन्तयित्वेत्यहं त्यक्तुं देहं पद्मासनस्थितः ।आसं समाधिमाधातुं पुनरामीलितेक्षणः ॥१२॥त्यक्त्वा बाह्यार्थसंस्पर्शानैन्द्रियानान्तरानपि ।चित्ताकाशोऽहमभवं संवित्स्पन्दमयात्मकः ॥१३॥क्रमात्तदपि संत्यज्य बुद्धितत्त्वपदं गतः ।संपन्नोऽहं चिदाकाशे जगज्जालैकदर्पणः ॥१४॥ततस्तेन स्वभावेन भूतव्योमैकतामहम् ।संप्रयातोऽम्बुनैवाम्बु सौरभं सौरभेण वा ओ ॥१५॥संपन्नोऽथ महाकाशं व्याप्यानन्तोऽथ सर्वगः ।अनाकारोऽप्यनाधारः सर्वार्थाधारतां गतः ॥१६॥अहं त्रैलोक्यवृन्दानि संसाराणां शतानि च ।तत्र ब्रह्माण्डलक्षाणि पश्याम्यगणितान्यपि ॥१७॥परस्परमदृष्टानि मिथः खान्यमलानि च ।नानाचारविचाराणि शून्यान्येव परस्परम् ॥१८॥स्वप्नरूपाणि सुप्तानां तुल्यकालं नृणामिव ।महारम्भानुमृष्टानि शून्यानि च परस्परम् ॥१९॥जायमानानि नश्यन्ति वर्धमानानि भूरिशः ।वर्तमानान्यतीतानि भविष्यन्ति च सर्वशः ॥२०॥अनेकचित्रजालानि महाभित्तीनि खानि च ।मनसेवोग्रराज्यानि कृतानि विविधैर्जनैः ॥२१॥निरावरणरूपाणि तथैकावरणानि च ।पञ्चावरणयुक्तानि षडेकावरणानि च ॥२२॥दशावरणचित्राणि षोडशावरणानि च ।चतुर्विशत्यावृतीनि षट्त्रिंशत्खावृतानि च ॥२३॥शून्यानि भूतपूर्णानि पञ्चभूतमयान्यपि ।एकपृथ्व्यादिभूतानि चतुःपृथ्व्यादिकानि च ॥२४॥त्रिःपृथ्व्यादीनि चान्यानि द्विःपृथ्व्यादीन्यथापि च ।तथा सप्तमहाभूतान्येकजातिमयानि च ॥२५॥त्वादृशानुभवाभोगविरुद्धातिदशानि तु ।तथा नित्यान्धकाराणि सूर्यादिरहितानि च ॥२६॥तथा मीलितसर्गाणि एकनाथावृतानि च ।विलक्षणप्रजेशांशविचित्राचारवन्ति च ॥२७॥तथा निर्वेदशास्त्राणि निःशास्त्राणि तथैव च ।कृमिक्रमसमारम्भदेवादिप्राणिमन्ति च ॥२८॥जात्या तु पारम्पर्येण संकेताचारवन्ति च ।तथा नित्यप्रकाशानि ज्वलिताग्निमयानि च ॥२९॥तथा जलैकपूर्णानि पवनैकमयानि च ।स्तब्धानि परमाकाशे वहन्ति च तथानिशम् ॥३०॥जायमानानि पुष्यन्ति परिपुष्टानि चाभितः ।तिर्यग्गच्छन्ति चान्यानि पूर्णसर्वमयान्यपि ॥३१॥देवमात्रैकसर्गाणि नरमात्रमयानि च ।दैत्यवृन्दमयान्येव कृमिनिर्विवराणि च ॥३२॥अन्तरन्तस्तदन्तश्च स्वकोशेऽप्यणुकं प्रति ।जातानि जायमानानि कदलीदलपीठवत् ॥३३॥परस्परमदृष्टानि नानुभूतानि वै मिथः ।सैनिकस्वप्नजालानि जातानीव महान्त्यपि ॥३४॥विविधान्यप्यनन्तानि स्वच्छाकाशात्मकान्यलम् ।अन्योन्यमन्यवृत्तीनि न मिथोऽन्यस्थितीनि च ॥३५॥मिथश्चान्यान्यशास्त्राणि मिथोऽनन्तानि यानि च ।अन्योन्यसन्निवेशानि मिथोऽन्योन्यानि यानि च ॥३६॥अन्योन्यं परलोकानि मिथः सिद्धपुराणि च ।अन्यादृशमहाभूतान्यन्यादृग्दिग्गिरीणि च ॥३७॥त्वादृशानुभवेहानामगम्याभ्यागतानि च ।असमञ्जसरूपाणि कथ्यमानानि मादृशैः ओ ॥३८॥अणुवत्सेष्यमाणानि चिदादित्यांशुमण्डले ।परमार्थश्रियो व्योम्नि रश्मिजालानि कुण्डले ॥३९॥कानिचित्तानि तान्येव भूत्वा भूत्वा भवत्यलम् ।कानिचित्तादृशान्येव जातानि वनपर्णवत् ॥४०॥अन्योन्यत्वाच्च सदृशान्यन्यानि सदृशान्यपि ।कंचित्कालं सुसदृशान्यन्यान्येव च कानिचित् ॥४१॥फलानि तान्यनन्तानि परमार्थमहातरोः ।अनन्यान्येव चान्यानि तन्मयान्येव वै ततः ॥४२॥कानिचित्स्वल्पकल्पानि दीर्घकल्पानि कानिचित् ।अन्यान्यनियतं भूरि नियतं भूरि कानिचित् ॥४३॥अन्यान्यज्ञातकालानि यदृच्छावशतः स्वयम् ।जायमानानि पुष्टानि सुस्थिराणि स्थितानि च ॥४४॥तानि शून्यत्वजालानि परमाकाशकोशके ।अपरिज्ञातकालानि रूढान्यज्ञातदोषके ॥४५॥अब्ध्यर्काकाशमेर्वादि शतैरावलितान्यलम् ।चिच्चमत्कारखे स्वप्नजालान्याभान्ति चाविलम् ॥४६॥अनुभूतेर्भ्रमात्मत्वात्कारणानामभावतः ।पृथ्व्यादीनामहेतूनामत्यन्तं सन्त्यसन्ति च ॥४७॥मृगतृष्णाम्बुभरवद्द्विचन्द्रव्योमवर्णवत् ।संपन्नानि न सत्यानि सत्यान्यप्यनुभूतितः ॥४८॥चित्संकल्पनभस्येव भासमानानि भूरिशः ।वासनावातनुन्नानि विलुठन्त्यात्मचेष्टितैः ॥४९॥सुरासुरादिमशका बहुशोदुम्बरद्रुमे ।फलानि रसपूर्णानि घूर्णमानानि मारुतैः ॥५०॥अभिजातस्वभावस्य सर्गारम्भकरस्य च ।शुद्धचित्तत्त्वबालस्य संकल्पनगराणि खे ॥५१॥त्वमहं स इदं चेति धिया बलदृढान्यलम् ।संपन्नान्यर्कदीप्त्येव पङ्कक्रीडनकानि च ॥५२॥वृत्तानि रसशालिन्या नियत्या नित्यतृप्तया ।वनान्युग्रफलानीव वसन्तरसलेरवया ॥५३॥महाकर्तृण्यकर्तॄणि न कृतान्येव खानि वा ।स्वयं संपन्नरूपाणि चिद्व्योन्येव कृतानि वा ॥५४॥परमार्थमयान्येव तदन्यद्वोदितान्यपि ।अलब्धान्येव लब्धानि सदाऽसन्त्येव सन्ति च ॥५५॥चतुर्दशदशैकादिविधभूतगणानि च ।पुनस्तान्येव तान्यन्तरन्यान्यन्यान्यथो बहिः ॥५६॥नरकस्वर्गपातालबन्धुमित्रमयान्यपि ।महारम्भमयान्येव शून्यानि परमार्थतः ॥५७॥क्षीराम्बुधेर्जलानीव स्नेहसाराणि सर्वतः ।तरङ्गभङ्गुराण्यन्तर्बहिश्चावृत्तिमन्ति च ॥५८॥आभासमात्ररूपाणि तेजस्यात्मविवस्वतः ।जातानीव स्वतस्तानि स्पन्दनानि नभस्वतः ॥५९॥वृक्षरूपाणि पत्राणां बुद्ध्यहंकारचेतसाम् ।असतामप्यसन्त्येव स्वप्ने न्यस्तनृणामिव ॥६०॥पुराणवेदसिद्धान्तकल्पनातल्पपालिषु ।घननिद्राणि सुप्तानि बिभ्रन्ति शवतामिव ॥६१॥परमार्थमहारण्ये चिद्गन्धर्वकृतानि वै ।सूर्यदीपकदीप्तानि गृहाणि गहनात्मनि ॥६२॥प्रजायमानानि नभस्यनन्तेविशीर्यमाणानि च निर्निमित्तम् ।तदा त्वहं वै तिमिराक्षदृष्ट-केशोण्ड्रकानीव जगन्त्यपश्यम् ॥६३॥इत्यार्षे श्रीवासिष्ठमहारामोयणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पा० जगर्ज्जालवर्णनं नामैकोनषष्टितमः सर्गः ॥५९॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP