संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७७ Translation - भाषांतर श्रीराम उवाच ।अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ॥१॥तदकारणतः सिद्धेः संभवेऽन्यदकारणम् ।कथं न जायते वस्तु क्वचित्किंचित्कदाचन ॥२॥श्रीवसिष्ठ उवाच ।यद्यथा कल्पितं येन स संपश्यति तत्तथा ।कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥३॥यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥४॥कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥५॥अकारणपदार्थत्वं सकारणपदार्थता ।ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥६॥यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन ।तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥७॥यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥८॥नेह प्रवर्तते किंचिन्न च नाम निवर्तते ।स्थितमेकमनाद्यन्तं ब्रह्मेव ब्रह्म खात्मकम् ॥९॥किं कस्य कारणं केन किमर्थं भवतु क्व वा ।किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥१०॥नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।विद्यते न महाशून्ये न नेति न न नेति च ॥११॥इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा ।सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥१२॥श्रीराम उवाच ।अतज्ज्ञविषये ब्रह्मन्कार्ये कारणसंभवे ।किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥१३॥श्रीवसिष्ठ उवाच ।अतज्ज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥१४॥एकबोधमयाः शान्तविज्ञानघनरूपिणः ।तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥१५॥अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदङ्गता ।गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥१६॥तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।मयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥१७॥सन्त्यकारणका एव सन्ति कारणजास्तथा ।भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥१८॥सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥१९॥हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।यदत्र किंचिद्दुःस्वादु व्यर्थं वाग्जालमेव तत् ॥२०॥अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥२१॥स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥२२॥स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥२३॥शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥२४॥अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥२५॥किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।किं च गन्धर्वनगरे पुरे भित्तिषु कारणम् ॥२६॥धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥२७॥भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥२८॥स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पना ॥२९॥तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥३०॥यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥३१॥सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥३२॥अन्या न काचित्कलना दृश्यते सोपपत्तिका ।अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥३३॥ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥३४॥स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥३५॥यथानन्तत्वसौषिर्यशून्यत्वादि महाम्बरे ।स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥३६॥एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥३७॥सर्गप्रलयसंस्थानान्येवमात्मनि चिद्धने ।सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥३८॥स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।सर्गात्सर्गान्तरान्मास्ते स्वसत्तायामजस्तथा ॥३९॥पृथ्व्यादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥४०॥स्थिता यथास्यां पश्यन्त्यां शब्दा घटपटादयः ।जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥४१॥पश्यन्त्यामेव पश्यन्ती यथा भाति तथैव च ।यथा शब्दास्तथा सर्गाश्चितैव चिति चिन्मयाः ॥४२॥किं शास्त्रकं तत्रकथाविचारै-र्निर्वासनं जीवितमेव मोक्षः ।सर्गे त्वसत्येवमकारणत्वा-त्सत्येव नास्त्येव न नाम काचित् ॥४३॥एषा च सिद्धेह हि वासनेतिसा बोधसत्तैव निरन्तरैका ।नानात्वनानारहितैव भातिस्वप्ने चिदेवेह पुरादिरूपा ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ॥१७७॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP