संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८४ Translation - भाषांतर कुन्ददन्त उवाच ।इत्युक्तवानसौ पृष्टः कदम्बतलतापसः ।सप्तद्वीपा भुवोऽष्टौ ताः कथं भाता गृहेष्विति ॥१॥कदम्बतापस उवाच ।चिद्धातुरीदृगेवायं यदेष व्योमरूप्यपि ।सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥२॥आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् ।परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥३॥कुन्ददन्त उवाच ।एकस्मिन्विमले शान्ते शिवे परमकारणे ।कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥४॥कदम्बतापस उवाच ।सर्वं शान्तं चिदाकाशे नानास्तीह न किंचन ।दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥५॥असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् ।चित्वं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥६॥सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः ।यथा स्वप्नेषु चिद्भावः स्वभावोऽर्थगतस्तथा ॥७॥न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते ।सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥८॥न च नाम परं रूपं कचनाकचनात्मकम् ।द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥९॥एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् ।गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥१०॥यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते ।तत्तेनैव तदाकारं जगदित्यनुभूयते ॥११॥असत्यपि यथा वह्नावुष्णसंविद्धि भासते ।संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥१२॥असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः ।तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥१३॥आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च ।चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥१४॥पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः ।सर्वं सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥१५॥परमार्थाम्बराम्भोधावापः सर्गपरंपरा ।परमार्थमहाकाशे शून्यता सर्गसंविदः ॥१६॥परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् ।बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥१७॥परमार्थो जगच्चेदमेकमित्येव निश्चयः ।अध्यात्मशास्त्रबोधेन भवेप्सैषा हि मुक्तता ॥१८॥संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः ।तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥१९॥यतो वाचो निवर्तन्ते न निवर्तन्त एव वा ।विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥२०॥अमौनमौनं जीवात्म यत्पाषाणवदासनम् ।यत्सदेवासदाभासं तद्ब्रह्माभिधमुच्यते ॥२१॥सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये ।का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥२२॥एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः ।यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥२३॥एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः ।बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥२४॥द्रव्ये द्रव्यान्तरं श्लिष्टं यत्कार्यान्तरमाक्षिपेत् ।तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥२५॥सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा ।यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥२६॥चिन्मात्रैकात्मसारत्वाद्यथा संवेदनं स्थिताः ।निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥२७॥अविद्यमानमेवेदं दृश्यतेऽथानुभूयते ।जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥२८॥विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः ।हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥२९॥स्वभाववाताधूतस्य जगज्जालचमत्कृतेः ।हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥३०॥यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः ।तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥३१॥यावत्संकल्पितं तावद्यथा संकल्पितं तथा ।यथा संकल्पनगरं कचतीदं जगत्तथा ॥३२॥संकल्पनगरे यावत्संकल्पसकला स्थितिः ।भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥३३॥प्रवहत्येव नियतिर्नियतार्थप्रदायिनी ।स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥३४॥जायते जङ्गमं जीवात्स्थावरं स्थावरादपि ।नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥३५॥वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च ।वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥३६॥ज्योतिर्मयं विवृत्तं तु धारासाराम्बरीकृतम् ।युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥३७॥भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते ।भावाभावग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥३८॥कुन्ददन्त उवाच ।प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः ।भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥३९॥तापस उवाच ।अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा ।प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥४०॥चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् ।न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥४१॥चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते ।शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥४२॥हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च ।प्रकृतेनैव मार्गेण ज्ञैश्चक्रैरिव गम्यते ॥४३॥निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ ।चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥४४॥संविदाभासमात्रं यज्जगदित्यभिशब्दितम् ।तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥४५॥यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥४६॥यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति ।यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥४७॥उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मंभृङ्गाविवाभिमतमाशु विधीयतां स्वम् ।तिष्ठामि दुःखमलमस्तसमाधिसंस्थंभूयः समाधिमहमङ्ग चिरं विशामि ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि ० उ० ब्रह्म० ता० कुन्ददन्तोपदेशो नाम चतुरशीत्यधिकशततमः सर्गः ॥१८४॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP