संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८७ Translation - भाषांतर श्रीराम उवाच ।विचित्राणामसंख्यानां भावानां नियतिः कुतः ।कथं स्वभावो भावानामेकरूपः स्थितोऽचलः ॥१॥सत्स्वसंख्येषु देवेषु सूर्य एवोग्रभाः कथम् ।दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किंकृतम् ॥२॥श्रीवसिष्ठ उवाच ।काकतालीयवद्भानं यत्परे नियतं स्वतः ।यथास्थितं यथारूपं स्थिते तज्जगदुच्यते ॥३॥सर्वशक्तेर्यथा यद्यद्भाति तत्तत्तथैव सत् ।संविन्सारतया यायात्कथं भातमभातताम् ॥४॥यथा स्थितं यथा भाति चित्त्वाद्ब्रह्म चिराय यत् ।तस्य भानमभानाभं नियत्यभिधमेव तत् ॥५॥इदमित्थमिदं चेत्थं स्वयं ब्रह्मेति भाति यत् ।तन्नियत्यभिधं प्रोक्तं सर्गसंहाररूपधृक् ॥६॥जाग्रत्स्वप्नसुषुप्ताख्यं यत्स्वतः कचनं चिति ।तत्ततोऽनन्यदेकाच्छं द्रवत्वमिव वारिणि ॥७॥यथा शून्यत्वमाकाशे कर्पूरे सौरभं यथा ।यथौष्ण्यमातपे नान्यज्जाग्रदादि तथा चिति ॥८॥सर्गप्रलयनाम्न्येकप्रवाहानन्यसत्तया ।चिन्मात्रगगनात्मैकब्रह्मात्मन्येव संस्थितम् ॥९॥सर्गोऽयमिति तद्बुद्धं क्षणं यत्कचनं चितः ।कल्पोऽयमिति तद्बुद्धं क्षणं तत्कचनं चितः ॥१०॥तत्कालस्तत्क्रिया तत्त्वं देशद्रव्योदयादि तत् ।यत्स्वप्न इव चिन्मात्रकचनं स्वस्वभावतः ॥११॥रूपालोकमनस्कारदेशकालक्रियादि तत्॥चित्त्वं कचति चिद्व्योम्नि यन्नामानाकृति स्वतः ॥१२॥यद्यथा कचितं कालं यत्किंचित्कल्पितं तथा ।तेनैवेयं हि नियतिरित्यप्याकाशरूपकम् ॥१३॥आकल्पाख्यं निमेषं यत्कचनं चैकरूपकम् ।स्वाभाविकाः स्वभावं तं प्राहुः प्रसृतबुद्धयः ॥१४॥एकस्य संविन्मात्रस्य पदार्थशतता तथा ।यथेदं संविदंशस्य रूपं स्वं स्वमनुज्झतः ॥१५॥संविन्मये संविदो याः कचन्तीव परे तथा ।ताभिस्तेषां स्वदेहानां यासां सा कलना कृता ॥१६॥चिदुर्वी सलिलं तेजः स्पन्दः शून्यत्वमेव च ।प्रत्येकमाकरस्त्वेषां तानि स्वप्न इवाम्बरम् ॥१७॥तत्र सप्रतिघस्यास्य कठिनस्याकरो महान् ।भूपीठं जनताधारो राजव्राजेव राजते ॥१८॥अपामब्धिः प्रधानानां तेजसामेष भास्करः ।स्पन्दस्य पवनो व्योम शून्यताया जगद्गतम् ॥१९॥पञ्चानामिति भूतानामाकरत्वेन संविदः ।पञ्च तान्युचिता ब्राह्म्यः प्रश्नः किं भास्करं प्रति ॥२०॥बुधा संविच्चिदित्युक्ता सर्वगा सर्वरूपिणी ।सर्वत्र स्वमहिम्नैषा सर्वेणैवानुभूयते ॥२१॥ब्रह्मात्मा ब्रह्मबालोऽयं स्वसंवित्स्फुरणामिमाम् ।व्योमात्मक्षौमभूनाम्नीं स्फारयत्यम्बराकृतिः ॥२२॥सा यदैतत्तथैतच्च चिरमत्त्यजसंविदा ।तदा तदङ्गस्यार्कादेर्नाऽतो नोत्पादि चञ्चलम् ॥२३॥संकल्पपूर्वमशकजालवद्धिष्ण्यचक्रकम् ।आवर्तवर्तिना भाति चिद्व्योमेदं च दृश्यवत् ॥२४॥तत्र प्रभास्वराः केचित्केचिदप्यल्पभास्वराः ।केचिच्चाभास्वरा भाताः पदार्थाश्चित्ररूपिणः ॥२५॥पदार्थजातं त्वेतावन्न जातं न च दृश्यते ।ज्ञस्याजातमिदं भाति खमात्मा स्वप्नदृश्यवत् ॥२६॥चिन्मात्रमात्मा सर्वेशः सर्व एवातिदृश्यवत् ।नश्यतीव विदेहे स्वे न च भाति न नश्यति ॥२७॥स्वप्नदर्शनवद्भाति यच्चिद्व्योम चिदम्बरे ।चिद्व्योमत्वादृते रूपं तदस्य जगतः कुतः ॥२८॥यद्यथा स्फुरितं तस्य यावत्सत्तं स्फुरद्वपुः ।तत्स्वभावनियत्याख्यैः शब्दैरिह निगद्यते ॥२९॥गगनाङ्गस्य सत्तान्तः शब्दतन्मात्रकल्पया ।कुसूलबीजाङ्कुरवत्तिष्ठत्याशान्तरूपिणी ॥३०॥संपद्यते तत इदमितीयं रचनेहया ।कृता सा मुग्धबोधाय मूर्खैर्विरचिता मुधा ॥३१॥नास्तमेतीह नोदेति तत्कदाचन किंचन ।शिलाजठरवच्छान्तमिदं नित्यं सदप्यसत् ॥३२॥यथावयविनो नान्तः सदैवावयवाणवः ।नास्तं यान्ति न चोद्यन्ति जगन्त्यात्मपदे तथा ॥३३॥ब्रह्म व्योम्नि जगद्व्योम व्योम व्योम्नीव विद्यते ।तत्कथं किल संशुद्धमस्तमायात्युदेति वा ॥३४॥तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।सत्तामात्रात्मकचनं यदजस्रं स्वभावतः ॥३५॥तदात्मना स्वयं किंचिच्चेत्यतामिव गच्छति ।अगृहीतात्मकं संविदूहामर्शनसूचकम् ॥३६॥भाविनामार्थकलनैः किंचिदूहितरूपकम् ।आकाशादणु शुद्धं च सर्वस्मिन्भाविबोधनम् ॥३७॥ततः सा परमा सत्ता सती तच्चेतनोन्मुखी ।चिन्नामयोग्या भवति किंचिल्लभ्यतया तया ॥३८॥घनसंवेदनात्पश्चाद्भाविजीवादिनामिका ।सा भवत्यात्मकलना यद्भवन्ती परं पदम् ॥३९॥गर्भीकृत्य स्थिताऽनाख्या चिदाकाशापिधानताम् ।संप्रति त्वतिशुद्धस्य पदस्यानन्यरूपिणी ॥४०॥स्वतैकभावनामात्रसारसंसरणोन्मुखी ।तदा विनाभावकृता अनुतिष्ठन्ति तामिमाः ॥४१॥शून्यरूपा स्वसत्तैका शब्दादिगुणगर्भिणी ।चिद्भावनाभिसंपन्ना भविष्यदभिधार्थता ॥४२॥अहंतोदेति तदनु सह वै कालसत्तया ।भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः ॥४३॥चितिशक्तेः परायास्तु स्वसंवेदनमात्रकम् ।जगज्जालमसद्रूपं चेतनात्सदिव स्थितम् ॥४४॥एवंप्रायात्मिका सा चिद्बीजं संकल्पशाखिनः ।अहंतां भावयत्यन्तः सैवेह भवति क्षणात् ॥४५॥जीवाभिधाना सैषाद्य भावाभावप्लवभ्रमैः ।भ्रमत्यात्मपदे वीचिरूपैर्वारीव वारिणि ॥४६॥चिदेवंभावनवती व्योमतन्मात्रभावनाम् ।स्वतो घनीभूय शनैः खतन्मात्रं प्रचेतति ॥४७॥भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।पदवाक्यप्रमाणाढ्यवेदार्थादिविकारि च ॥४८॥तस्मादुदेष्यत्यखिला जगच्छ्रीः शब्दतत्त्वतः ।शब्दौघनिर्मितार्थौघपरिणामविसारिणी ॥४९॥चिदेवंव्यवसाया सा जीवशब्देन कथ्यते ।भाविशब्दार्थजालेन बीजं भूतौघशाखिनः ॥५०॥चतुर्दशविधं भूतजातमावलिताम्बरम् ।जगज्जठरकर्णौघं तस्मात्संप्रसरिष्यति ॥५१॥असंप्राप्ताभिधाचारा जीवत्वाच्चेतनेन चित् ।काकतालीयवत्स्पन्दचिन्मात्रं चेतति स्वयम् ॥५२॥पवनस्कन्धरूपस्य बीजं त्वक्स्पर्शशाखिनः ।सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति ॥५३॥तत्र यच्चिद्विलासस्य प्रकाशानुभवो भवेत् ।रूपतन्मात्रकं तद्वद्भविष्यदभिधार्थदम् ॥५४॥प्रकाशचेतनं तेजो न तेजोऽन्यकृतं भवेत् ।स्पर्शसंवेदनं स्पर्शो नेतरस्पर्शसंभवः ॥५५॥शब्दसंवेदनं शब्दः स्वत एवानुभूयते ।खं खेनेव स्वयं कोशे नान्यच्छब्दकृदस्ति हि ॥५६॥किल तस्यामवस्थायां कोऽपरः शब्दकृद्भवेत् ।यथा तथा तदाद्यापि द्वैतैक्यस्यात्यसंभवात् ॥५७॥एवं हि रसतन्मात्रं गन्धतन्मात्रमेव च ।असत्यमेव सदिव स्वप्नाभमिव चेत्यते ॥५८॥तेजः सूर्यादिजृम्भाभिर्बीजमालोकशाखिनः ।तस्माद्रूपविभेदेन संसारः प्रसरिप्यति ॥५९॥भविष्यदभिधस्याथ खतः स्वत इवासतः ।स्वदनं तस्य संघस्य रसतन्मात्रमुच्यते ॥६०॥भविष्यद्रूपसंकल्पनामासौ सकलो गणः ।संकल्पात्माथ तन्मात्रं गन्धाद्यमनुचेतति ॥६१॥भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ॥६२॥अजात एव संजातस्तन्मात्राणां गणस्त्विति ।अनाकारोऽपि साकारः संपन्नः कल्पनावशात् ॥६३॥एष तन्मात्रकगणः काकतालीयवत्स्वयम् ।रूपं येन प्रदेशेन वेत्त्यक्षीति तदुच्यते ॥६४॥शब्दं येन प्रदेशेन वेत्ति श्रोत्रं तदुच्यते ।स्पर्शं येन प्रदेशेन वेत्ति तत्तु त्वगिन्द्रियम् ॥६५॥रसं येन प्रदेशेन वेत्ति तद्रसनेन्द्रियम् ।गन्धं येन प्रदेशेन वेत्ति घ्राणेन्द्रियं तु तत् ॥६६॥दिक्कालभेदाज्जीवोऽयं नियतामाकृतिं गतः ।सर्वेणाङ्गेन नो सर्वं वेत्त्यसर्वात्मतावशात् ॥६७॥इति कलनमनन्तमात्मनोन्त-र्गतमनुमेयमनन्यदात्मभूतम् ।न तदुदयमुपैति नास्तमेतिस्थितमुपलोदरवद्धनं सुमौनम् ॥६८॥इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० जीवत्वसंसृतिप्रतिपादनं नाम सप्ताशीत्यधिकशततमः सर्गः ॥१८७॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP