संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २०४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २०४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २०४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भूय एव महाबाहो श्रृणु मे परमं वचः ।आदर्शो राजतेऽत्यर्थं पौनःपुन्येन मार्जितः ॥१॥अर्थो वेदनसंकेतः शब्दो जलरवोपमः ।दृश्यमेतच्चिदाभानं स्वप्नवत्क्वाभवज्जगत् ॥२॥जाग्रद्वै स्वप्नसंदृष्टः स्मरणात्म स्थितं पुरः ।संविद्वेदनमात्रं सत्तदन्याकारवत्ततम् ॥३॥यथाच्छं संविदाकाशं मयि स्वप्नपुरात्मकम् ।सरूपमपि नीरूपं तथेदं भुवनत्रयम् ॥४॥श्रीराम उवाच ।संपन्नेयं कथं भूमिः संपन्ना गिरयः कथम् ।कथं संपन्नमम्भश्च संपन्ना उपलाः कथम् ॥५॥कथं च तेजः संपन्नं संपन्ना च कथं क्रिया ।कथं च कालः संपन्नः संपन्नः पवनः कथम् ॥६॥कथं च शून्यं संपन्नं संपन्नं चिन्नभः कथम् ।इति ज्ञातं मया भूयो बोधाय वद मे प्रभो ॥७॥श्रीवसिष्ठ उवाच ।ब्रूहि राघव तत्त्वेन स्वप्नदृष्टमहापुरे ।संपन्ना भूः कथमिव संपन्नं कथमम्बरम् ॥८॥कथं वारि च संपन्नं संपन्ना उपलाः कथम् ।कथं च तेजः संपन्नं संपन्नाश्च कथं दिशः ॥९॥संपन्नश्च कथं कालः संपन्ना च कथं क्रिया ।कथमेतन्निमित्तादि सर्वं संपन्नमुच्यताम् ॥१०॥केनेदं निर्मितं दग्धमानीतं रचितं चितम् ।उत्पादितं प्रकटितं किमाचारं किमात्मकम् ॥११॥श्रीराम उवाच ।आत्मास्य केवलं व्योम न सद्भूम्यचलादिकम् ।जगतः स्वप्नरूपस्य निराकारो निरास्पदः ॥१२॥आत्मैव व्योमरूपोऽस्य निराधारो निराकृतिः ।विनाकृतेर्वा व्योम्नोऽस्य किमाधारेण कारणम् ॥१३॥न किंचिदेतत्संपन्नं सद्यथैतन्न संविदः ।एतच्चित्कचनं नाम मन एव तथा स्थितम् ॥१४॥दिक्कालाद्यत्र चिद्भानं चिद्भानमचलादिकम् ।चिज्जलादि तथा बोधाच्चित्खं वाय्वादि तद्विदः ॥१५॥संविदेव किल व्योम तिष्ठति व्योमतामिता ।दृषत्तयास्ते काठिन्याद्द्रवाज्जलमिव स्थिता ॥१५॥वस्तुतस्तु न भूम्यादि किंचित्तन्न च दृश्यता ।चिदाकाशमनन्तं तत्सर्वमेकं तदात्मकम् ॥१७॥द्रवत्वादम्बु हृद्याब्धेर्नानावृत्तितया यथा ।अनानैव भवेन्नाना चिद्व्योमात्मनि वै तथा ॥१८॥काठिन्यवेदनादुर्वी गिरितामागतेव चित् ।शून्यतावेदनाच्छून्यं वेत्ति व्योमेव चिद्वपुः ॥१९॥द्रवत्ववेदनाद्वेत्ति वारि स्पन्दतयानिलम् ।औष्ण्यसंवित्ततो वह्निमत्यजन्ती निजं वपुः ॥२०॥एवंस्वभाव एवायं चिद्धातुर्गगनात्मकः ।यदेवं नाम कचति निष्कारणगुणक्रमम् ॥२१॥न चैतद्व्यतिरेकेण किंचिन्नापीह विद्यते ।अन्यच्छून्यत्ववारिभ्यामृते खार्णवयोरिव ॥२२॥न तु चिद्गगनादन्यन्न संभवति किंचन ।इदं त्वमहमित्यादि तस्मादाशान्तमास्यताम् ॥२३॥त्वं यथास्मिन् गृहे कुर्वन्नग्निशैलादिकां विदम् ।तदेव पश्यस्यवपुरेवं चिद्गगनं तथा ॥२४॥चिद्व्योम भाति देहाभं सर्गादौ न तु देहकः ।अकारणत्वादसतश्चिदुदेतीति चिन्त्यताम् ॥२५॥मनोबुद्धिरहंकारो भूतानि गिरयो दिशः ।शिलाजठरवन्मौनमयं सर्वे यथास्थितम् ॥२६॥एवं न किंचिदुत्पन्नं नष्टं न च न किंचन ।यथास्थितं जगद्रूपं चिद्ब्रह्मात्मनि तिष्ठति ॥२७॥चितौ यत्कचनं नाम स्वरूपप्रविजृम्भणम् ।तदेतज्जगदित्युक्तं द्रव एव यथा जलम् ॥२८॥इदं जगद्भानमभानमेवचिद्व्योम शून्यं परमार्थ एव ।यथ'र्थसंदर्शनबुद्धबुद्धे-रबुद्धबुद्धेस्तु यथा तथास्तु ॥२९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० चिदाकाशैकताप्रतिपादनं नाम चतुरधिकद्विशततमः सर्गः ॥२०४॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP