संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ३७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ३७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इच्छाविषविकारस्य वियोगं योगनामकम् ।शान्तये श्रृणु भूयोऽपि पूर्वमुक्तमपि स्फुटम् ॥१॥आत्मनो व्यतिरिक्तं चेद्विद्यते तदिहेच्छया ।इष्यतामसति त्वेतत्स्वात्मान्यत्वं किमिष्यते ॥२॥निर्भागावयवा सूक्ष्मा व्योम्नः शून्यतरैव चित् ।सैवाहंजगदाकारा सती किं तत्तयेष्यते ॥३॥सा व्योमरूपा व्योमैव व्योमात्मवेद्यवेदिका ।व्योमात्मजगदाभासमत्रेच्छाविषयोऽस्ति कः ॥४॥ग्राह्यग्राहकसंबन्धः कुतश्चिदिति तन्न नः ।विद्यतेऽसौ प्रशान्तानां येषामस्ति न वेद्मि तान् ॥५॥ग्राह्यग्राहकसंबन्धः स्वनिष्ठोऽपि न लभ्यते ।असतस्तु कथं लाभः केन लब्धोऽसितः शशी ॥६॥एषैव ग्राहकादीनां सत्ता यन्नात्मनिष्ठता ।स्वभावावेक्षया सत्या न जाने क्व प्रयान्ति ते ॥७॥एष एव स्वभावो यद्दृष्टृदृश्यक्षयोऽखिलः ।ज्ञात्वाऽसत्या विनिर्वाणमहंतात्मनि गच्छति ॥८॥निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः ।मिथोऽनयोरनुभवो न च्छायातपयोरिव ॥९॥उभे एते मिथोऽसत्ये असत्ये च न निर्वृतिः ।यतो निर्वाणमजरमदुःखमनुभूयते ॥१०॥भ्रमभूतं च दृश्यादि नित्यं नात्र सुखप्रदम् ।असच्च तद्भाव्यतां मा निर्वाणे स्थीयतामजे ॥११॥शुक्तिकारूप्यसदृशं प्रेक्षितं यन्न लभ्यते ।अर्थकार्यपि तन्नास्ति किमत्रापह्नवेन च ॥१२॥तत्सद्भावान्महद्दुःखमसद्भावान्महत्सुखम् ।अभावः सोपपत्तिस्तु दृढतां याति भावनात् ॥१३॥तत्किमात्मनि बन्धाय विदग्धं न मुधाधमाः ।स्पष्ट एवोपचयादेर्वस्तुन्यस्तमिताऽपदे ॥१४॥कार्यकारणभावादि ब्रह्मैव सकलं यदा ।तदा तु ब्रह्मता ह्यस्मिन्संविन्मात्रात्मके तते ॥१५॥मार्गयन्ति प्रबोधाय तैर्मृगैरलमस्तु नः ।व्योमरूपे किलैकस्मिन्सर्वात्मनि तते सति ॥१६॥कार्यकारणताढ्यानामुक्तीनामेव कः क्रमः ।यो हेतुः स्पन्दने वायोर्द्रवत्वे सलिलस्य च ॥१७॥शून्यत्वे नभसः सौम्य सर्गादित्वे चिदात्मनः ।कार्यकारणभावादि ब्रह्मैव सकलं यदा ॥१८॥तदा ब्रह्मणि सर्गाणां कारणार्था विलज्जता ।न दुःखमस्ति न सुखं शान्तं शिवमयं जगत् ॥१९॥नास्ति चिन्मात्रतान्यत्वमत इच्छोदयः कुतः ।मृद्देहयोधसेनायां न मृन्मात्रेतरद्यथा ॥२०॥न सज्जगदहंतादौ दृश्ये ब्रह्मेतरत्तथा ।श्रीराम उवाच ।एवं चेत्तदुदेत्विच्छा मा वोदेतु मुनीश्वर ॥२१॥सा तु ब्रह्मैव कोऽर्थः स्यादस्या विधिनिषेधने ।श्रीवसिष्ठ उवाच ।ज्ञातायां संप्रबुद्धायामिच्छा ब्रह्मैव नेतरत् ॥२२॥यथा संबुद्धवान्राम तत्सत्यं किं त्विदं श्रृणु ।यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा ॥२३॥वस्तुस्वभावादुदयत्यादित्ये यामिनी यथा ।शाम्यत्येव न तूदेति ज्ञप्ताविच्छादि तत्तथा ॥२४॥यथा यथोदयो ज्ञप्तेर्द्वैतशान्तिस्तथा तथा ।वासनाविलयश्चैव कथमिच्छोदयो भवेत् ॥२५॥तस्या विद्योपशान्तेयं निर्मला मुक्ततोदिता ।अशेषदृश्यवैरस्याद्यस्येच्छोदेति न क्वचित् ॥२६॥विरक्ततास्य नो दृश्ये नोदेत्यत्रास्य रक्तता ।केवलं द्रष्टृदृश्यश्रीः स्वदते न स्वभावतः ॥२७॥काकतालीययोगेन परप्रेरणयानया ।यदि किंचित्कदाचिच्च सम्यगिच्छति वा न वा ॥२८॥तदस्य सेच्छा नेच्छा वा ब्रह्मैवात्र न संशयः ।इच्छा न जायते ज्ञस्यावश्यमेवानु वा नवा ॥२९॥ज्ञता चेदुदिता जन्तोस्तदिच्छास्योपशाम्यति ।नैतयोः स्थितिरेकत्र प्रकाशतमसोरिव ॥३०॥प्रतिषेधविधीनां तु तज्ज्ञो न विषयः क्वचित् ।शान्तसर्वैषणेच्छस्य कोऽस्य किं वक्ति किंकृते ॥३१॥एतदेव ज्ञताचिह्नं यदिच्छास्वतितानवम् ।ह्लादनं सर्वलोकानामथानुभव एव वा ॥३२॥दृश्यं विरसतां यातं यदा न स्वदते क्वचित् ।तदा नेच्छा प्रसरति तदैव च विमुक्तता ॥३३॥बोधादनैक्यमद्वैतं यः शान्तमवतिष्ठते ।इच्छानिच्छादयः सर्वे भावास्तस्य शिवात्मकाः ॥३४॥बोधादस्तमितद्वैतमद्वैतैक्यविवर्जितम् ।यः स्वच्छो विगतव्यग्रः शान्त आत्मन्यवस्थितः ॥३५॥नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३६॥नानिच्छया नेच्छयाथ न सता नासता सदा ।नैवात्मना न चान्येन नैतैर्मरणजीवितैः ॥३७॥इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः ।यदि चोदेति तस्येच्छा ब्रह्म शाश्वतमेव सा ॥३८॥न दुःखमस्ति न सुखं शान्तं शिवमजं जगत् ।इति योऽन्तः शिलेवास्ते तं प्रबुद्धं विदुर्बुधाः ॥३९॥दुःखं सुखं भावनया कुर्वन्विषमिवामृतम् ।इति निश्चित्य धीरात्मा प्रबुद्ध इति कथ्यते ॥४०॥तत्स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् ।शून्ये शून्यं सति च सद्यद्ब्रह्मणि जगत्स्थितम् ॥४१॥असंवेदनसंवित्खे ततेऽविश्वमिति स्थिते ।सौम्ये समसमे शान्ते शिवेऽहंताभ्रमः क्षयी ॥४२॥यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।तत्सर्वं शान्तमाकाशं परचिन्तापुरोपमम् ॥५३॥परचिन्तापुरोमध्ये गतविघ्नं गमागमौ ।यथान्तस्तव शून्यत्वात्तथैवास्मिञ्जगद्भ्रमे ॥४४॥अब्धिद्यूर्वीनदीशैलशोभाशून्यतरात्मनि ।जृम्भते द्रष्टृकरणं मृगतृष्णाम्बुवीचिवत् ॥४५॥स्वप्ननिर्माणपुरवद्वालवेतालतालवत् ।यदिदं दृश्यते तत्र किं किलासत्यतेतरत् ॥४६॥असत्यमेवाहमिति भासते सत्यमेव च ।भ्रान्तिभाजं विनैवेयं भ्रान्तिः स्फुरति सा सती ॥४७॥न सन्नासन्न सदसत्किमपीदमतीन्द्रियम् ।अवाच्यं जगदित्येव भात्यवक्षुभितं खवत् ॥४८॥इहेच्छानिच्छते ज्ञस्य शाम्यतां यदलं समे ।तथापि श्रेयसे मन्ये नन्वनिच्छोदयं स्फुटम् ॥४९॥अहं जगदिति ज्ञप्तिः खे खस्येवेयमास्थिता ।चिदात्मनो यथा वायोः स्पन्दो नात्रास्ति कारणं ॥५०॥चितश्चेत्योन्मुखत्वं यत्तच्चित्तं सैव संसृतिः ।सेच्छा तन्मुक्तता मुक्तिर्युक्तिं ज्ञात्वेति शाम्यताम् ॥५१॥इच्छा भवत्वनिच्छा वा सर्गो वा प्रलयोऽथवा ।क्षतिर्न कस्यचित्काचिन्न च किंचिदिहास्ति हि ॥५२॥इच्छानिच्छे सदसती भावाभावौ सुखासुखे ।इत्यत्र कलना व्योम्नि संभवन्ति न काश्चन ॥५३॥इच्छानां तानवं यस्य दिनानुदिनमागतम् ।विवेकशमतृप्तस्य तमाहुर्मोक्षभागिनम् ॥५४॥इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते ।जयन्ति यत्र नैतानि मणिमन्त्रौषधानि च ॥५५॥यान्कार्यकरणव्यूहान्कृतवान्पूर्वमेव तान् ।संप्रेक्षया न पश्यामि मिथ्याभ्रमभरादृते ॥५६॥भ्रमभूतेन कुर्मश्चेद्व्यवहारमवस्तुना ।तत्कस्मात्परचित्ताद्रिः कम्बलत्वं न नीयते ॥५७॥असता व्यवहारश्चेत्प्रेक्षामात्रविनाशिना ।क्रियते शशशृङ्गेण तत्कथं छाद्यते न खम् ॥५८॥अहभावाच्चिदाकाशो जाड्यातिशयतः क्षणात् ।पाषाणतां जलमिव मनस्त्वाद्याति देहताम् ॥५९॥चित्त्वादनुभवत्येतामसत्यामेव देहिताम् ।अविनष्टैव चिच्छक्तिः स्वप्ने स्वमरणं यथा ॥६०॥व्योम्न्यसत्यमवस्तुत्वात्सत्यं चानुभवाद्यथा ।नीलत्वं तद्वदीशेऽस्मिन्सर्गो नासन्न सन्मयः ॥६१॥यथा शून्यत्वनभसोर्यथा स्पन्दनभस्वतोः ।भेदो नास्ति तथा सर्गब्रह्मणोरेकरूपयोः ॥६२॥नेह संजायते किंचिज्जगदादि न नश्यति ।स्वप्नो निद्रागतस्येव केवलं प्रतिभासते ॥६३॥अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि ।सर्गे क इव संरम्भस्त्यागादानैश्चिदम्बरे ॥६४॥न देहः प्रतिभातोऽस्ति पृथ्व्यादिकारणान्वितः ।केवलं ब्रह्मचिन्मात्रमेवात्मन्येव संस्थितम् ॥६५॥बुद्ध्यादेः कारणत्वं च द्वैतैक्यासंभवान्न सत् ।अनेनेदं क्रियत इत्यस्यार्थं याति संभवात् ॥६६॥अहेतुरक्रमं भाति चिति कल्पक्रियागणः ।क्षणेनैव यथा स्वप्ने मृतिजन्मादि सत्वराः ॥६७॥खमेव पृथ्वी खं शैलाः खमेव दृढभित्तयः ।खमेव लोकाः स्पन्दः खं सर्गसंवेदनं चितेः ॥६८॥व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयमाततम् ।नोदेति नास्तमायाति न शाम्यति न ताम्यति॥६९॥चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि ।किं नु वा कथमुत्पन्नं किं शान्तं च कदा कथम् ॥७०॥शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि ।चेत्यासंभवतः सन्ति नोदयास्तमयौ कुतः ॥७१॥पर्वता गगनायन्ते गगनं पर्वतायते ।संवेदनप्रयोगेण ब्रह्मणः सर्गता स्थितौ ॥७२॥संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः ।कुर्वन्ति जगदाकाशमाकाशं त्रिजगन्ति च ॥७३॥सिद्धसंकल्पनगराण्यसंख्यानि यथाम्बरे ।तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः ॥७४॥महार्णवे यथावर्ता अन्योन्यमपि मिश्रिताः ।पृथगेवावतिष्ठन्ते पयसोऽन्ये च नैव ते ॥७५॥महाचिति महासर्गा अन्योन्यमपि मिश्रिताः ।पृथगेवावतिष्ठन्ते व्यतिरिक्ता न ते ततः ॥७६॥सर्गात्सर्गान्तरालोके या प्रबुद्धस्य योगिनः ।सिद्धलोकान्तरे प्राप्तिः सैवेति विबुधोक्तयः ॥७७॥अविनाशिनि भूतानि स्थितानि परमे शिवे ।व्योम्नीव शून्यतोल्लासाः सर्गवर्गा निरर्गलम् ॥७८॥परमार्थनिजामोदाः सहजाः सर्गविभ्रमाः ।नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे ॥७९॥अन्योन्यं कुसुमामोदा मिलिता अप्यमीलिताः ।व्योमरूपास्तथा सर्गा अन्योन्यं सिद्धभूमयः ॥८०॥संकल्पाकाशरूपत्वात्सर्वानुभववत्स्थितेः ।तनुसंकल्पमोहानां सत्याश्च मननोक्तयः ॥८१॥न ज्ञानवादिता सत्या न बाह्यानर्थवादिता ।यथावेदनमेतानि वेदनानि फलन्ति वः ॥८२॥चिति चित्त्वं यदस्त्यन्तर्जगदित्येव भाविते ।भेदो द्रवत्वपयसोरिव नात्रोपपद्यते ॥८३॥कालो जगन्ति भुवनान्यहमक्षवर्ग-स्त्वं तानि तत्र च तथेति च सर्वमेकम् ।चिद्व्योम शान्तमजमव्ययमीश्वरात्मरागादयः खलु न केचन संभवन्ति ॥८४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ॥३७॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP