संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४७ Translation - भाषांतर मुनिरुवाच ।अनन्तरं महाबाहो सुषुप्तान्निर्गतस्य मे ।स्वप्ने जगद्दृश्यमिदं सागरादिव निर्गतम् ॥१॥आकाशाङ्गादिवोत्कीर्णमुत्कीर्णमवनेरिव ।उत्कीर्णमिव वा चित्तादुत्कीर्णमिव वा दृशः ॥२॥प्रफुल्लमिव वृक्षेभ्यः सर्गः पूर्वमिवोत्थितः ।तरङ्गजालं रोधोऽब्धेरिव वा कचनं दृशाम् ॥३॥नभस्तलादिवायातं ककुब्भ्य इव चागतम् ।पर्वतेभ्य इवोत्कीर्णं भूमेरिव समुत्थितम् ॥४॥हृदयादिव निष्क्रान्तं संप्रविष्टमिवाम्बुदैः ।प्रसूतमिव वृक्षेभ्यो जातं वा सस्यवद्भुवः ॥५॥अङ्गेभ्य इव निर्यातं समुत्कीर्णमिवेन्द्रियैः ।पटादिव प्रकटितं मन्दिरादिव निर्गतम् ॥६॥कुतोऽप्यागत्य पतितमुड्डीय गगनादिव ।उपायनं परे लोके गृहीतमिव वा भुवः ॥७॥प्रसूनं ब्रह्मवृक्षस्य तरङ्गमिव वाम्बुधेः ।अनुत्कीर्णप्रकटनाच्चित्स्तम्भे चारुपुत्रिका ॥८॥आकाशमृन्मयानन्तकुड्यमाकाशपत्तनम् ।मनो मत्तो गजमयो मिथ्या जीवस्य जीवितम् ॥९॥अभित्तिकमरङ्गं च विचित्रं चित्रमम्बरे ।शम्बरेशस्य सर्वस्वमविद्याख्यस्य कस्यचित् ॥१०॥महारम्भं स्थिरमपि देशकालविवर्जितम् ।नानाढ्यमपि चाद्वैतं नानात्मापि न किंचन ॥११॥गन्धर्वपुरदृष्टान्तस्याप्यवस्तुतया समम् ।जागरायां हि किल तद्भ्रान्तमप्युपलभ्यते ॥१२॥चिद्भामात्रमनारब्धमप्यारब्धमिव स्थितम् ।देशकालक्रियाद्रव्यसर्गसंहारसंयुतम् ॥१३॥सुरासुरनराधारगर्भगर्भमनोहरम् ।पृथक्कोष्ठस्थबीजौघसंपूर्णमिव दाडिमम् ॥१४॥नदीशैलवनादिस्थव्योमताराभ्रसंकुलम् ।गीताब्धिरणपाठाढ्यपवनारावघर्घरम् ॥१५॥ततो विलोकितं तत्र तन्मया दृश्यमण्डलम् ।यावत्तमेव पश्यामि ग्रामं प्राक्तनमास्पदम् ॥१६॥तानेव सकलान्बन्धूंस्तथासंस्थानसंस्थितान् ।तान्पुत्रांस्तां महेलां च तदेव च तदा गृहम् ॥१७॥तां दृष्ट्वा प्राक्तनीं ग्राम्यामाहरद्वासनां बलात् ।तटस्थं मुह्यमानाङ्गमिव वीचिर्महार्णवे ॥१८॥अथाहमभवं तत्र तदालिङ्गननिर्वृतः ।गृहीतवासनो नूनं विस्मृतप्राक्तनस्मृतिः ॥१९॥बिम्बं तत्तदुपादत्ते यद्यदग्रेऽवतिष्ठति ।यथादर्शश्चिदादर्शस्तथैवायं स्वभावतः ॥२०॥यस्तु चिन्मात्रगगनं सर्वमित्येव बोधवान् ।द्वैतेन बोध्यते नेह सोऽङ्ग तिष्ठति केवलः ॥२१॥न नश्यति स्मृतिर्यस्य विमला बोधशालिनी ।अयं द्वैतपिशाचस्तं मनागपि न बाधते ॥२२॥येषामभ्यासयोगेन साधुसच्छास्त्रसंगमैः ।उदेति बोधधीर्भूयो या विस्मरति नोदयम् ॥२३॥अप्रौढा मे तदा सासीद्बोधधीर्या तया हता ।अद्य शक्नोति मे बुद्धिं हन्तुं क इव दुर्ग्रहः ॥२४॥तवापि व्याध विद्धीदं बुद्धिः सत्सङ्गवर्जिता ।द्वैतबोधेन कष्टेन कृच्छ्राच्छान्तिमुपैष्यति ॥२५॥व्याध उवाच ।एवमेतन्मुने सत्यं पावनैस्त्वद्विबोधनैः ।ईदृशैरपि मे बुद्धिर्न विश्राम्यति सत्पदे ॥२६॥स्यादीदृशमथो न स्यादिति संदेहजालिका ।नैतस्मिन्स्वानुभूतेऽपि वस्तुन्यद्यापि शाम्यति ॥२७॥अहो बत दुरन्तेयमभ्याससुदृढीकृता ।अविद्या विद्यमानैव या शान्तैव न शाम्यति ॥२८॥सत्सङ्गतैः पदपदार्थविबुद्धबुद्धेःसच्छास्त्रसत्क्रमविचारमनोहराङ्गैः ।अभ्यासतः प्रशममेति जगद्भ्रमोऽयंनान्येन केनचिदपीति विनिश्चितिर्मे ॥२९॥इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अ० वि० शवोपाख्याने स्वप्नोपलम्भनं नाम सप्तचत्वारिंशदधिकशततमः सर्गः ॥१४७॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP