संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २८ Translation - भाषांतर श्रीराम उवाच ।बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् ।दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः ॥१॥श्रीवसिष्ठ उवाच ।दैवकर्मादिपर्यायं घटादि घटतावधि ।संवित्स्पन्दनमेवेदं लोके पुरुषतां गतम् ॥२॥संवित्स्पन्दादृते पुंस्त्वं कर्म वा कीदृशं भवेत् ।घटावटपटाद्यात्म ह्येतेनैव जगत् कृतम् ॥३॥प्रवर्तते जगल्लक्ष्मीः संवित्स्पन्दात्सवासनात् ।निवर्तते हि संसारः संवित्स्पन्वादवासनात् ॥४॥अवासनं हि संवित्तेः स्पन्दमस्पन्दनं विदुः ।सस्पन्दोऽप्यस्फुरत्स्पन्दो येनावर्तादिनोह्यते ॥५॥मनागपि न भेदोऽस्ति संवित्स्पन्दमयात्मनोः ।कल्पनांशादृते राम सृष्टौ पुरुषकर्मणोः ॥६॥जलवीच्योर्यथा द्वित्वं संकल्पोत्थं न वास्तवम् ।तथेह चित्परिस्पन्दरूपयोर्जन्तुकर्मणोः ॥७॥कर्मैव पुरुषो राम पुरुषस्यैव कर्मता ।एते ह्यभिन्ने विद्धि त्वं यथा तुहिनशीतते ॥८॥हिमं यत्तद्यथा शैत्यं यच्छैत्यं तद्यथा हिमम् ।यत्कर्मासौ तथा जन्तुर्यो जन्तुः कर्म तत्तथा ॥९॥संवित्स्पन्दरसस्यैव दैवकर्मनरादयः ।पर्यायशब्दा न पुनः पृथक्कर्मादयः स्थिताः ॥१०॥स्पन्दात्संविज्जगद्वीजमस्पन्दाद्यात्यबीजताम् ।अङ्कुरश्च तदेवान्तः स्थितत्वादङ्कुरश्रियः ॥११॥चित्त्वं च क्वचिदस्पन्दं क्वचित्स्पन्दं स्वभावतः ।अनन्तमेकार्णववद्दिक्कालक्रमसंस्थितम् ॥१२॥संवित्स्पन्दो वासनावानिह बीजमकारणम् ।भूत्वा कारणतामेति देहादेरङ्कुरावलेः ॥१३॥तृणवल्लीलतागुल्मबीजान्तरगतेरपि ।बीजं संवित्स्पन्द एव तस्य बीजं न विद्यते ॥१४॥न बीजाङ्कुरयोर्भेदो विद्यतेऽग्न्यौष्ण्ययोरिव ।बीजमेवाङ्कुरं विद्धि विद्धि कर्मैव मानवम् ॥१५॥चित्स्फुरन्ती भूमिकोशे करोति स्थावराङ्कुरम् ।स्थूलान्सूक्ष्मान्मृदुक्रूरान्पयोबुद्बुदकानिव ॥१६॥चिता विना धराकोशादत्यन्तपरिपेलवात् ।अङ्कुरान्वज्रसारांश्च क उल्लासयितुं क्षमः ॥१७॥प्राणिवीर्यरसान्तस्था संविज्जंगममाततम् ।तनोति लतिकान्तस्थो रसः पुष्पफलं यथा ॥१८॥यदि सर्वगता संविद्भवेन्नातिबलीयसी ।तत्क उल्लासने शक्तः स्याद्देवासुरभूभृताम् ॥१९॥जङ्गमानां स्थावराणामेतदाद्यं च बीजकम् ।संविद्विस्फुरणामात्रमस्य बीजं न विद्यते ॥२०॥बीजाङ्कुरविकल्पानां क्रियापुरुषकर्मणाम् ।ऊर्मिवीचितरङ्गाणां नास्ति भेदो न वस्तुनि ॥२१॥द्वित्वं नृकर्मणोर्यस्य बीजाङ्कुरतया तयोः ।विपश्चित्पशवे तस्मै महतेऽस्तु सदा नमः ॥२९॥संवित्तेर्जन्मबीजस्य योऽन्तस्थो वासनारसः ।स करोत्यङ्कुरोल्लासं तमसङ्गाग्निना दह ॥२३॥कुर्वतोऽकुर्वतश्चैव मनसा यदमज्जनम् ।शुभाशुभेषु कार्येषु तदसङ्गं विदुर्बुधाः ॥२४॥अथवा वासनोत्साद एवासङ्ग इति स्मृतः ।यया कयाचिद्युक्त्यान्तः संपादय तमेव हि ॥२५॥ययैव वेत्सि ततया युक्त्या पुरुषयत्नतः ।वासनाङ्कुरनिर्मूलमेतदेव परं शिवम् ॥२६॥पौरुषेण प्रयत्नेन यथा जानासि वा तथा ।निवारयाहंभावांशमेषोऽसौ वासनाक्षयः ॥२७॥नास्त्येव पौरुषादन्या संसारोत्तरणे गतिः ।निरहंभावरूपेऽस्मिन्वासनाक्षयनामनि ॥२८॥आद्यैव संविदस्तीह सोऽङ्कुरो बीजमस्ति तत् ।तत्कर्म तच्च पुरुषस्तद्दैवं तच्छुभाशुभम् ॥२९॥न बीजमादावस्त्यन्यन्नाङ्कुरो न च वा नरः ।न कर्म न च दैवादि केवलं चिदुदेति हि ॥३०॥नो बीजमस्ति न किलाङ्कुरकोऽपि वास्तिनाप्यस्ति कर्म पुरुषश्च न वास्ति साधो ।एकं तु चित्त्वमुदितं ह्यनयाभिधान-लक्ष्म्या नटः सुरनरासुरशोभयेव ॥३१॥इत्येव निश्चयमनामय भावयित्वात्यक्त्वा भृशं पुरुषकर्मविचारशङ्काम् ।निर्वासनः सकलसंकलनाविमुक्तःसंविद्वपुर्ननु यथाभिमतेच्छमास्व ॥३२॥प्रशान्तसर्वेच्छमशङ्कमच्छ-चिन्मात्रसंस्थोऽखिलकार्यकारी ।आत्मैकरामः परिपूर्णकामोभवाभयो राम शमाभिरामः ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण० उत्तरार्धे शङ्कातत्त्वसिद्धान्तप्रतिपादनं नामाष्टाविंशः सर्गः ॥२८॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP