संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् ।दृश्यान्यताऽसंभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥१॥सर्गादौ स्वप्नसवित्तिरूपं सर्वं विनानघ ।न सर्गो न परो लोको दृश्यमानोऽपि सिद्ध्यति ॥२॥असदेवानुभूरित्थमेवेदं भासते जगत् ।स्वप्नाङ्गनासङ्ग इव शान्तं चिद्व्योम केवलम् ॥३॥एवंनामास्ति चिद्धातुरनादिनिधनोऽमलः ।शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥४॥मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् ।कुतः किल परे व्योमन्यनादिनिधने मलः ॥५॥यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् ।जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥६॥चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी ।कृता पृथ्व्यादिकलना मनोबुद्ध्यादिता तथा ॥७॥वार्यावर्त इवाभाति पवनस्पन्दवच्च यत् ।अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥८॥पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना ।कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥९॥स्वयमेव कचत्यच्छाच्छा येयं स्वा महाचितिः ।सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥१०॥न च किंचन नामाङ्ग कचत्यच्छैव सा स्मृता ।चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥११॥चिदाकाशश्चिदाकाशे तदिदं स्वमलं वपुः ।चित्तं दृश्यमिवाभाति यथा स्वप्ने तथा स्थितम् ॥१२॥अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥१३॥स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥१४॥यदैव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥१५॥स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते ।नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥१६॥ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् ।रूपमत्यजदेवाच्छं मनस्तामिव गच्छति ॥१७॥इदं सर्वं तनोतीव तच्च खात्मकमेव खम् ।भवतीव जगद्रूपं विकारीवाविकार्यपि ॥१८॥मन एव स्वयं ब्रह्मा स सर्गस्य हृदि स्थितः ।करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥१९॥पृथ्व्यादिरहितो यस्मिन्मनोहृद्यङ्गवर्जिते ।अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥२०॥देहरूपजगद्रूपैरहमेकमनाकृति ।मनस्तिष्ठाम्यनन्तात्म बोधाबोधं पराभवम् ॥२१॥नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता ।जगत्तया केवलं खं मनः कचकचायते ॥२२॥विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते ।केवलं भाति चिन्मात्रमात्मनात्मनि निर्घनम् ॥२३॥यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते ।व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥२४॥अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका ।तूष्णीं भूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥२५॥अबुद्धिपूर्वं द्रवतो यथावर्तादयोऽम्भसि ।क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥२६॥अबुद्धिपूर्वं वातेन क्रियते स्पन्दनं यथा ।अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥२७॥अनन्यदात्मनो वायोर्यथा स्पन्दनमव्ययम् ।अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥२८॥चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति ।परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥२९॥ब्रह्मोन्मेषनिमेषात्म स्पन्दास्पन्दात्म वातवत् ।निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥३०॥दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् ।एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात् ॥३१॥निमेषोन्मेषयोरेकरूपमेव परं मतम् ।अतोऽस्ति दृश्यं नास्तीति सदसच्च सदा चितिः ॥३२॥निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः ।ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥३३॥तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः ।अजातमजरं व्योम सौम्यं समसमं जगत् ॥३४॥चिदचित्यात्मकं व्योम रूपं कचकचायते ।चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥३५॥न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते ।स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥३६॥महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् ।अनन्यान्येव भातापि भानुभास इवोष्णता ॥३७॥सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥३८॥यद्यत्संवेद्यते यादृक्सद्वाऽसद्वा यथा यदा ।तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥३९॥अन्यथानुपपत्त्या चेत्कारणं परिकल्प्यते ।तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥४०॥प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः ।प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥४१॥यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति ।ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥४२॥यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा ।तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥४३॥ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् ।यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥४४॥विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् ।व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥४५॥द्वित्वैकत्वादिकलना नेह काचन विद्यते ।सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥४६॥अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह ।नैवास्ति न च नास्त्येव कर्ता भोक्ताऽथवा क्वचित् ॥४७॥इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि ।ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥४८॥यदेव ब्रह्म बुद्ध्यादि तदेवैतन्निरञ्जनम् ।यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥४९॥केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः ।द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥५०॥तथा बुद्ध्यादि देहादि वेदनादि परापरे ।अनेकान्यप्यनन्यानि शून्यत्वानि यथाम्बरे ॥५१॥सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा ।सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥५२॥एवमेव कचत्यच्छा छायेयं स्वा महाचितेः ।न च किंचन नामाङ्ग कचत्यच्छैवमास्थिता ॥५३॥चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः ।चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥५४॥अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥५५॥सर्गादावेव खात्मैव दृश्यं भाति निराकृति ।संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥५६॥स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥५७॥तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् ।शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥५८॥दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते ।तस्माच्चिद्व्योमचिद्व्योम्नः शून्यत्वं गगनादिव ॥५९॥यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥६०॥स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते ।पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥६१॥स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा ।न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥६२॥तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः ।तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥६३॥यथा यत्रैव लहरी वारिण्येति पुनः पुनः ।तत्रैवैति तथा तद्वदनन्या खे परे जगत् ॥६४॥विधयः प्रतिषेधाश्च सर्व एव सदैव च ।विभक्ताश्च विमिश्राश्व परे सन्ति न सन्ति च ॥६५॥तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते ।सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥६६॥भ्रान्तस्य भ्रमणं भूमेर्न भूर्भ्रान्तैव वा गणैः ।न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥६७॥शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः ।अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥६८॥न जीवन्न मृतं चित्तं रोधमायाति संसृतेः ।अविनाभाविदेहत्वाद्वोधात्त्वेतन्न पश्यति ॥६९॥सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः ।इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥७०॥चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः ।पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥७१॥कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः ।किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥७२॥अबुद्धमुत्तरग्रन्थात्पूर्वं पूर्वं हि बुध्यते ।ग्रन्थं पदपदार्थज्ञः खेदवान्न निवर्तते ॥७३॥उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये ।अनन्यसाधारणतां गतमित्यनुभूयते ॥७४॥तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् ।भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥७५॥आरुषेयमिदमिति प्रमादाच्चेन्न रोचते ।तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥७६॥अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् ।बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥७७॥आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।नीयते तद्वृथा येन प्रमादः सुमहानहो ॥७८॥अनुभूतमपि च नो स-दृश्यमिदं द्रष्टृसहितमपि ।स्वप्ननिजमरणबान्धव-रोदनमिव सदिव कचितमपि ॥७९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० परमार्थगीतास्वद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥१७५॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP