संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथैवंरूपसंवित्तेः परावृत्त्य प्रयत्नतः ।तमम्बरकुटीकोशदेशमागतवानहम् ॥१॥यावत्तत्र न पश्यामि स्वदेहं क्वचन स्थितम् ।पश्यामि केवलं सिद्धं कमप्यन्यं पुरः स्थितम् ॥२॥उपविष्ट समाधाननिष्ठमिष्टं पदं गतम् ।सौम्योदयमिवादित्यं दग्धेन्धनमिवानलम् ॥३॥बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् ।गुल्फद्वितयमध्यस्थवृषणं विषयातिगम् ॥४॥मृष्टसौम्यसमाभोगस्कन्धबन्धुरकन्धरम् ।सुस्थिरोदारविश्रान्तरकारकस्थितिसुन्दरम् ॥५॥नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः ।हृदयाम्भोजतेजोभिर्बहिष्ठैरिव भासितम् ॥६॥श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेक्षं स्वच्छतां गतम् ।सरो निमीलिताम्भोजमिव सुप्तं दिनात्यये ॥७॥अविक्षुभितमाशान्तमन्तःकरणकोटरम् ।दधानं धीरया वृत्त्या शान्तोत्पातमिवाम्बरम् ॥८॥अपश्यता निजं देहं तं मुनिं पश्यता पुरः ।इदं मया तदा तत्र चिन्तितं चारुचेतसा ॥९॥अयं कश्चिन्महासिद्धः संप्राप्तोऽस्मिन्दिगन्तरे ।विचार्याहमिवैकान्तं विश्रामार्थी महाम्बरम् ॥१०॥समाधियोग्यमेकान्तं लभेयेतीह चिन्तया ।कुटी दृष्टेयमेतेन सत्यसंकल्पशालिना ॥११॥मदागमनमेतेन ततोऽचिन्तयता चिरम् ।तं स्वदेहं शवीभूतमपास्येह कृता स्थितिः ॥१२॥तदिहास्तमहं यामि स्वं लोकमिति निश्चयम् ।यावद्गन्तुं प्रवृत्तोऽस्मि तावत्संकल्पनक्षयात् ॥१३॥सा निवृत्ता कुटी तत्र संपन्नं व्योम केवलम् ।स सिद्धोऽपि निराधारः पतितोधः समाधिमान् ॥१४॥स्वप्नसंकल्पसंशान्तौ स्वप्नसंकल्पपत्तनम् ।यदा सा सुकुटी नष्टा मत्संकल्पोपशान्तितः ॥१५॥स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् ।खादिवानिलनुन्नोऽब्द इन्दुबिम्बमिव क्षये ॥१६॥वैमानिक इवापुण्यश्छिन्नमूल इव द्रुमः ।खात्त्यक्त इव पाषाणः स पपात ततोऽवनौ ॥१७॥अहं यावदियं तावत्कुटिकास्त्विति कल्पने ।क्षीणे कुटीक्षये जाते स सिद्धः पतितः क्षणात् ॥१८॥पतता तेन सिद्धेन ततः सौजन्यकौतुकः ।मनसैवाहमगमं नभसो वसुधातलम् ॥१९॥सोऽपतत्पवनस्कन्धवलनावर्तवृत्तिभिः ।सप्तद्वीपसमुद्रान्ते गीर्वाणरमणावनौ ॥२०॥प्राणापानोर्ध्वगामित्वात्खाद्यथास्थितमेव सः ।सृष्टपूर्वोर्ध्वमूर्धोर्व्यां बद्धपद्मासनोऽपतत् ॥२१॥न प्रबुद्धो बभूवासौ विचरं तमचेतनः ।पाषाणदेह इव वा तूलात्मेवैव वा लघुः ॥२२॥मया तदवबोधार्थमथ यत्नवता तदा ।कृत्वा जलदतां व्योम्नि वृष्टं गर्जितमूर्जितम् ॥२३॥करकाशनिपातेन तेन तस्मिन्दिगन्तरे ।मयूरं प्रावृषेवामुं बुद्ध्या बोधितवानसौ ॥२४॥बभूवाभासिताङ्गश्रीर्विकासितविलोचनः ।धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः ॥२५॥प्रबुद्धं संप्रशान्तायां दृष्टौ तमहमग्रतः ।अपृच्छं स्वच्छया वृत्त्या निवृत्तं परमार्थतः ॥२६॥क्व स्थितोऽसि करोषीदं किं च भो मुनिनायक ।कस्त्वं कस्मादलं दूरान्न भ्रंशमपि चेतसि ॥२७॥इत्युक्तो मामसौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् ।उवाच वचनं चारु चातको जलदं यथा ॥२८॥सिद्ध उवाच ।प्रतिपालय मे यावत्स्ववृत्तान्तं स्मराम्यहम् ।कथयिष्यामि ते पश्चात्पाश्चात्यं वृत्तमात्मनः ॥२९॥इत्युक्त्वा चिन्तयित्वाशु स यथा वृत्तमक्षतम् ।स्मृतवान्सायमह्नीव समाचरितमात्मनः ॥३०॥मामथोवाच वचनं चारु चन्द्रांशुशीतलम् ।आह्लादनमनिन्द्यं च निरवद्यं सुखोदयम् ॥३१॥सिद्ध उवाच ।अधुना त्वं मया ब्रह्मन्परिज्ञातोऽभिवादये ।अतिक्रमोऽयं क्षन्तव्यः स्वभावो हि सतां क्षमा ॥३२॥मुने चिरमहं भ्रान्तो देवोपवनभूमिषु ।भोगामोदविमोहेषु षट्पदः पद्मिनीष्विव ॥३३॥दृश्यनद्यामथो चित्तजलकल्लोलहेलया ।चक्रावर्तोह्यमानेन मयोद्विग्नेन चिन्तितम् ॥३४॥संसारसागरे दृश्यकल्लोलैरहमाकुलः ।कालेनोद्वेगमायातश्चातकोऽवग्रहे यथा ॥३५॥संविन्मात्रैकसारेषु रम्यं भोगेषु नाम किम् ।अवतिष्ठे गतोद्वेगसंविद्व्योम्न्येव केवलम् ॥३६॥शब्दरूपरसस्पर्शगन्धमात्रादृते परम् ।नेह किंचन नामास्ति किमेतावत्यहं रमे ॥३७॥चिन्मात्राकाशमेवैतत्सर्वं चिन्मात्रमेव वा ।तत्किमत्रासदाकारे रमे नष्टमतिर्यथा ॥३८॥विषया विषवैषम्या वामाः कामविमोहदाः ।रसाः सरसवैरस्या लुठन्नेषु न को हतः ॥३९॥जीर्णा जीवितजम्बालजरच्छफरिकामतिः ।कायं द्रुतगताऽऽदातुं जरेच्छति बृहद्वकी ॥४०॥कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।स्फुरन्नेव पुरोन्तर्द्धि याति दीपशिखा यथा ॥४१॥विविधाकुलकल्लोला चक्रावर्तविधायिनी ।मृतिजन्मवृहत्कूला सुखदुःखतरङ्गिणी ॥४२॥यौवनोल्लासकलिला जराधवलफेनिला ।काकतालीययोगेन संपन्नसुखबुद्बुदा ॥४३॥व्यवहारमहावाहलेखाजडरवाकुला ।रागद्वेषघनोल्लासा भूतलालोलदेहिका ॥४४॥लोभमोहमहावर्ता पातोत्पातविवर्तनी ।हा तप्ता जीविताख्येयं नदी नदनशीतला ॥४५॥अपूर्वाण्युपगच्छन्ति तथा पूर्वाणि यान्त्यलम् ।संसारसरिदम्बूनि संगतानि धनानि च ॥४६॥प्रवृत्ता ये निवर्तन्ते तैरलं हतभावकैः ।अपूर्वा ये प्रवर्तन्ते तेष्वथास्थेह कीदृशी ॥४७॥सर्वस्याः सरितो वारि प्रयात्यायाति चाकरात् ।देहनद्याः पयस्त्वायुर्यात्येवायाति नो पुनः ॥४८॥शतशः परिवर्तन्ते प्रतिपिण्डं क्षणं प्रति ।कुलालचक्रकाभावा इव भावा भवाम्बुधौ ॥४९॥चरन्ति चतुराश्चौरा विषमा विषयारयः ।हरन्ति भावसर्वस्वं जागर्मि स्वपिमीह किम् ॥५०॥आयुषः खण्डखण्डाश्च निपतन्तः पुनःपुनः ।न कश्चिद्वेत्ति कालेन क्षतानि दिवसान्यहो ॥५१॥इदमद्य तथेदं च तथेदमिदमस्य मे ।एवं कलनया लोको गतं प्राप्तं न वेत्त्यहो ॥५२॥भुक्तं पीतमनन्तासु भ्रान्तं च वनभूमिषु ।दृष्टानि सुखदुःखानि किमन्यदिह साध्यते ॥५३॥सुखदुःखानुभवनाद्भूयोभूयो विवर्तनात् ।अनित्यत्वाच्च भावानां स्थिता निष्कौतुका वयम् ॥५४॥भुक्तानि भोगवृन्दानि दृष्टा चानित्यता भृशम् ।नोपलभ्यत एवाति विश्रान्तिरिह कुत्रचित् ॥५५॥भ्रान्तमुत्तुङ्गशृङ्गासु मेरूपवनभूमिषु ।लोकपालपुरीषूच्चैः संप्राप्तं किमकृत्रिमम् ॥५६॥सर्वत्र दारुभिर्वृक्षा मांसैर्भूतानि भूर्मृदा ।दुःखान्यनित्यता चेति कथमाश्वास्यते वद ॥५७॥न धनानि न मित्राणि न सुखानि न बान्धवाः ।शक्नुवन्ति परित्रातुं कालेनाकलितं जनम् ॥५८॥जनो जीमूतजठरजलवद्गिरिकुक्षिषु ।यात्यन्तःशून्य एवास्तं पांसूपचयपेलवः ॥५९॥न मे मनोरमाः कामा न च रम्या विभूतयः ।इदं मत्ताङ्गनापाङ्गभङ्गलोलं च जीवितम् ॥६०॥क्वेव कस्य कथं नाम कुत आश्वासना मुने ।अद्य श्वो वाऽऽपदं पापो मृत्युर्मूर्ध्नि नियच्छति ॥६१॥शरीरं पर्णवद्भ्रंशि जीवितं जीर्णसंस्थिति ।धीरधीरतया ग्रस्ता रसा नीरसतां गताः ॥६२॥नीतं मनोरथैरेव नीरसैर्वाऽऽयुराततम् ।न मम स्वं चमत्कारकारि किंचिदपीहितम् ॥६३॥मोहोऽद्य मान्यमायातो देहो नेहोपयुज्यते ।अनास्थैवोत्तमावस्था स्थानास्थैवाधमा स्थितिः ॥६४॥आपदापतितैवेयमहो मोहविधायिनी ।नित्यमित्येव मन्तव्यं सक्तव्यं नेह संसृतौ ॥६५॥विधिभिः प्रतिषेधैश्च शाश्वतैरप्यशाश्वतैः ।यथेष्टं नीयते लोको जलं निमनोन्नतैरिव ॥६६॥विवेकामोदसर्वस्वं चेतः कुसुमकोशतः ।हृत्वा मूर्च्छां प्रयच्छन्ति विषया विषवायवः ॥६७॥असदेव तथा नाम दृष्टं सत्तामुपागतम् ।यथाऽसदेव सद्रूपं संपन्नमसदेव सत् ॥६८॥दोलायन्त्योऽवनौ देहं सागरान्सागराङ्गनाः ।यथा धावन्ति धावन्ति जनता विषयांस्तथा ॥६९॥धावन्ति विषयाँल्लक्ष्यमुन्मुक्ताश्चित्तसायकाः ।स्पृशन्ति न गुणान्भूयः कृतघ्नाः सौहृदं यथा ॥७०॥उत्पातवायुरेवायुर्मित्राण्येवातिशत्रवः ।बन्धवो बन्धनान्येव धनान्येवाति नैधनम् ॥७१॥सुखान्येवातिदुःखानि संपदः परमापदः ।भोगा भवमहारोगा रतिरेव परारतिः ॥७२॥आपदः संपदः सर्वाः सुखं दुःखाय केवलम् ।जीवितं मरणायैव बत मायाविजृम्भितम् ॥७३॥बहून्कालपरावर्तानिष्टानिष्टान्सुखं मनाक् ।पश्यन्प्रियवियोगांश्च याति जर्जरतां जनः ॥७४॥भोगा विषयसंभोगा भोगा एव फणावताम् ।दशन्त्येव मनाक् स्पृष्टा दृष्टा नष्टाः प्रतिक्षणम् ॥७५॥आयुर्याति निरायासपदप्राप्तिविवर्जितैः ।उदर्कभङ्गुराकारैः करालैः कष्टचेष्टितैः ॥७६॥भोगाशाबद्धतृष्णानामपमानः पदे पदे ।आलानमवलीनानां वन्यानामिव दन्तिनाम् ॥७७॥संपदः प्रमदाश्चैव तरङ्गोत्सङ्गभङ्गुराः ।कस्तास्वहिफणाच्छत्रच्छायासु रमते बुधः ॥७८॥सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥७९॥आपातरमणीयेषु रमन्ते विषयेषु ये ।अत्यन्तविरसान्तेषु पतन्ति निरयेषु ते ॥८०॥द्वन्द्वदोषोपरुद्धानि दुःसाध्यान्यस्थिराणि च ।धनान्यभव्यसेव्यानि मम जातु न तुष्टये ॥८१॥आपातमात्रमधुरा दुःखपर्यवसायिनी ।मोहनायैव लोकस्य लक्ष्मीः क्षणविलासिनी ॥८२॥आपातरमणीयानि विमर्दविसराण्यति ।दुःखान्यापत्प्रदातृणि संगतानि खलैरिव ॥८३॥शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः ।आपातरम्या विषयाः पर्यन्तपरितापिनः ॥८४॥अन्तकः पर्यवस्थाता जीविते महतामपि ।चलन्त्यायूंषि शाखाग्रलम्बाम्बूनीव देहिनाम् ॥८५॥जीर्यन्ते जीर्यतः केशा हुत्वा जीर्यन्ति जीर्यतः ।क्षीयते जीर्यते सर्वं तृष्णैवैका न जीर्यते ॥८६॥भोगाभोगातिगहने सर्वस्मिन्कायकानने ।परमुल्लासमायाति तृष्णैका विषमञ्जरी ॥८७॥बाल्यं यौवनवद्याति यौवनं याति बाल्यवत् ।उपमानोपमेयत्वं भङ्गुरत्वं मिथोऽनयोः ॥८८॥जीवितं गलति क्षिप्रं जलमञ्जलिना यथा ।प्रवाह इव वाहिन्या गतं न विनिवर्तते ॥८९॥झटित्येवागतो देहः कुतोऽप्यर्जुनवातवत् ।याति पश्यत एवास्तं तरङ्गाम्बुददीपवत् ॥९०॥रम्येष्वरम्यता दृष्टा स्थिरेष्वस्थिरतापि च ।सत्येष्वसत्यतार्थेषु तेनेह विरसा वयम् ॥९१॥सुखं यदात्मविश्रान्तौ गते मनसि सत्त्वताम् ।पाताले भूतले स्वर्गे तन्न भोगेषु केषुचित् ॥९२॥अपि संपूर्णहृद्यार्थाः पञ्चापीन्द्रियवृत्तयः ।तावज्जयन्ति मामेता भृङ्गं चित्रलता इव ॥९३॥अद्य दीर्घेण कालेन निरहंकृतिना मया ।स्वर्गापवर्गवैतृष्ण्यमिदमासादितं धिया ॥९४॥चिरमेकान्तविश्रान्त्यै तेनैतन्नभसः पदम् ।त्वमिवागतवानत्र दृष्टवानस्मि तां कुटीम् ॥९५॥अद्यैतत्संपरिज्ञातं यदेषा भवतः कुटी ।आगन्ता त्वं पुनश्चेति मया तन्न विचारितम् ॥९६॥तदा त्वत्र मया ज्ञातं कश्चित्सिद्धोऽयमात्मना ।देहं त्यक्त्वेह निर्वाणं गत इत्यनुमानतः ॥९७॥एतन्मे भगवन्वृत्तमेषोऽस्मीति यथास्थितम् ।मया ते कथितं सर्वं यथा जानासि तत्कुरु ॥९८॥सिद्धैर्न यावदवधानपरैर्विचार्यनिर्णीतमुत्तमधियान्तरशेषवस्तु ।तावत्त्रिकालकलनं न विदन्ति किंचि-दित्यब्जजादिमनसोऽपि मुने स्वभावः ॥९९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पा० आकाशमण्डपसिद्धसमागमगाथावर्णनं नाम त्रिनवतितमः सर्गः ॥९३॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP