संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १

निर्वाणप्रकरणं - सर्गः १

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः ।
कथमेतदतो ब्रह्मन्संभवत्याशु जीवतः ॥१॥
श्रीवसिष्ठ उवाच ।
जीवतः कल्पनात्यागो युज्यते न त्वजीवतः ।
रूपमस्य यथातत्त्वं श्रृणु श्रवणभूषणम् ॥२॥
अहंभावनमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥३॥
पदार्थरसमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥४॥
इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते। ॥५॥
स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।
तच्च प्रागनुभूतं च नानुभूतं च भाव्यते ॥६॥
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते ॥७॥
सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु ।
अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥८॥
निःसंकल्पप्रवाहेण चक्रं प्रस्पन्दते यथा ।
स्पन्दस्वकर्मस्वनघप्राक्संस्कारवशात्तथा ॥९॥
अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः ।
प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु ॥१०॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥११॥
अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा ।
चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः ॥१२॥
अवेदनमसंकल्पस्तन्मयेनैव भूयताम् ।
एतावत्परमं श्रेयः स्वयमेवानुभूयताम् ॥१३॥
किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यमपि राम तृणायते ॥१४॥
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो विगतसंकल्पस्तथा स्पन्दस्व कर्मसु ॥१५॥
सर्वकर्मफलाभोगमलं विस्मृत्य सुप्तवत् ।
प्रवाहपतिते कार्ये स्पन्दस्व गतवेदनम् ॥१६॥
स्पन्दस्वाकृतसंकल्पं सुखदुःखान्यभावयन् ।
प्रवाहपतिते कार्ये चेष्टितोन्मुक्तशष्पवत् ॥१७॥
रसभावनमन्तस्ते मालं भवतु कर्मसु ।
दारुयन्त्रमयस्येव परार्थमिव कुर्वतः ॥१८॥
नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।
आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव ॥१९॥
बोधार्कपीतरसया स्पन्दन् षड्वर्गसत्तया ।
यन्त्रस्पन्दोपमस्तिष्ठ वल्ल्येव शिशिरे द्रुमः ॥२०॥
चिदान्तररसान्येव प्रवृत्तान्यपि धारय ।
स्वयत्नेनेन्द्रियाण्याशु हेमन्तर्तुस्तरूनिव ॥२१॥
सरसेन्द्रियवृत्तेस्ते कुर्वतोऽकुर्वतस्तथा ।
संसारानर्थसार्थोऽयं न कदाचन शाम्यति ॥२२॥
निःसंकल्पमरुज्ज्वालायन्त्राम्बुस्पन्दवद्यदि ।
स्पन्दसे तदनन्ताय श्रेयसे परिकल्पसे ॥२३॥
एतदेव परं धैर्यं जन्मज्वरनिवारणम् ।
यदवासनमभ्यस्ता निजकर्मसु कर्तृता ॥२४॥
अवासनमसंकल्पं यथाप्राप्तानुवृत्तिमान् ।
शनैश्चक्रभ्रमाभोग इव स्पन्दस्व कर्मसु ॥२५॥
मा कर्मफलबुद्धिर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।
उभयं वा त्यजैतत्त्वमुभयं वा समाश्रय ॥२६॥
बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।
संकल्पनं मनोबन्धस्तदभावो विमुक्तता ॥२७॥
नेह कार्यं न वाऽकार्यमस्ति किंचिन्न कुत्रचित् ।
सर्वं शिवमजं शान्तमनन्तं प्राग्वदास्यताम् ॥२८॥
पश्यन्कर्मण्यकर्मत्वमकर्मणि च कर्मताम् ।
यथाभूतार्थचिद्रूपः शान्तमास्व यथासुखम् ॥२९॥
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः ॥३०॥
समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते ।
ततेऽनन्ते परे शुद्धे किं केन किल खिद्यते ॥३१॥
नोदेतु त्वयि संकल्पो मरुभूमाविवाङ्कुरः ।
इच्छा नोदेतु भवति लतिकेवोपलोदरे ॥३२॥
अवेदनस्य शान्तस्य जीवतो वाप्यजीवतः ।
नेह किंचित्कृतेनार्थो नाकृतेनापि कश्चन ॥३३॥
यत्कर्माकर्म शान्तेऽन्तः शाश्वताभेदरूपिणि ।
न कर्मणि च कर्माणि न कर्तर्यपि कर्तृता ॥३४॥
अहंममेति संविदन्न दुःखतो विमुच्यसे ।
असंविदन्विमुच्यसे यदीप्सितं तदाचर ॥३५॥
अहं ममेति नास्त्यलं यदस्ति तच्छिवं परम् ।
परात्परं त्विदं शिवादशब्दमर्थरूपकम् ॥३६॥
यद्दृश्यते जगदिदं खलु किंचिदेत-
द्हेम्नोऽङ्गदत्वमिव भाति न विद्यमानम् ।
अस्य क्षयं विदुरवेदनमेव पश्चा-
त्सत्यं तदेव परमार्थमथावशिष्टम् ॥३७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे इच्छादिचिकित्सायोगोपदेशो नाम प्रथमः सर्गः ॥१॥

N/A

References : N/A
Last Updated : September 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP