संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४४ Translation - भाषांतर श्रीराम उवाच ।क्रमात्समाधानतरोराजीवफलशालिनीम् ।सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने ॥१॥श्रीवसिष्ठ उवाच ।आजीवमुद्यदुत्सेधं विवेकिजनकानने ।पत्रपुष्पफलोपेतं समाधानतरुं शृणु ॥२॥यथाकथंचिदुदितं दुःखेन स्वयमेव च ।संसारवननिर्वेदं बीजमस्य विदुर्बुधाः ॥३॥शुभजालहलाकृष्टं रसासिक्तमहर्निशम् ।प्रवहच्छ्वसनाकुल्यं क्षेत्रमस्य विदुर्बुधाः ॥४॥समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।चित्तभूमौ विविक्तायां विवेकिजनकानने ॥५॥स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।सेकैरमीभिर्यत्नेन संसेक्तव्यमखेदिना ॥६॥शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।सत्संगमनवक्षीरैरैन्दवैरमृतैरिव ॥७॥अन्तःशून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।विसृतैरमृताकुल्याशास्त्रार्थवरवारिभिः ॥८॥स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः ॥९॥तपःप्रकारदानेन पदार्थघटनेशितैः ।तीर्थायतनविश्रान्तिवृतिविस्तारकल्पनैः ॥१०॥कर्तव्योऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।संतोषनामा प्रियया नित्यं मुदितयान्वितः ॥११॥पश्चात्स्थिताशाविहगान्परप्रणयपक्षिणः ।अस्मादापततः कामगर्वगृध्रान्निवारयेत् ॥१२॥मृदुभिः सत्क्रियाकुन्तैर्विवेकार्कातपैरपि ।अचिन्त्यालोकदैरस्मान्मार्जितव्यं रजस्तमः ॥१३॥संपदः प्रमदाश्चैव तरङ्गा भोगभङ्गुराः ।पतन्त्यशनयस्तस्मिन्दुष्कृताभ्रसमीरिताः ॥१४॥धैर्यौदार्यदयामन्त्रैर्जपस्नानतपोदमैः ।विनिवारयितव्यास्ताः प्रणवार्थत्रिशूलिना ॥१५॥इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।आभिजात्योन्नतः श्रीमान्विवेकाख्यो नवाङ्कुरः ॥१६॥तेन सा चित्तभूर्भाति सप्रकाशा विकासिनी ।भवत्यालोकरम्या च खं यथाभिनवेन्दुना ॥१७॥तस्मादङ्कुरतः पत्रे उभौ विकसतः स्वयम् ।एकं शास्त्राभिगमनं द्वितीयं साधुसंगमः ॥१८॥स्तम्भमेष निबध्नाति स्थैर्यं नाम समुन्नतिम् ।संतोषत्वग्विवलितं वैराग्यरसरञ्जितम् ॥१९॥वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।स्वल्पेनैव स्वकालेन परामेति समुन्नतिम् ॥२०॥शास्त्रार्थसाधुसंपर्कवैराग्यरसपीवरः ।रागद्वेषकपिक्षोभैर्न मनागपि कम्पते ॥२१॥अथ तस्मात्प्रजायन्ते विज्ञानालंकृताकृतेः ।लता रसविलासिन्य इमा विततदेशगाः ॥२२॥स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।समता शान्तता मैत्री करुणा कीर्तिरार्यता ॥२३॥लताभिर्गुणपत्राभिः स ध्यानतरुरूर्जितः ।यशःपुष्पाभिरेताभिः पारिजातायते यतेः ॥२४॥इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः ॥२५॥यशःकुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः ॥२६॥सर्वाः शीतलयत्याशाः प्रावृषीव पयोधरः ।सर्गातपं शमयति सूर्यतापमिवोडुपः ॥२७॥प्रतनोति शमच्छायां छायामिव घनागमः ।निरोधमास्फारयति शमोऽनिल इवाम्बुदम् ॥२८॥निबध्नात्यात्मना पीठं कुलाचल इव स्थितम् ।फलस्य रचयत्यूर्ध्वं घटिकां मङ्गलादिताम् ॥२९॥विवेककल्पवृक्षे तु वर्धमाने दिने दिने ।छायावितानवलिते पुंसो हृदयकानने ॥३०॥प्रवर्तते शीतलता तलतापापहारिणी ।अभ्युल्लसन्मतिलता तुषारोदरसुन्दरी ॥३१॥यस्यामवान्तरश्रान्तो विश्राम्यति मनोमृगः ।आजन्मजीर्णपथिकः पथि कोलाहलाकुलः ॥३२॥ सत्तामात्रात्मशारीरचर्मार्थं प्रेक्षितोऽरिभिः । नानातासारसाकारगोपयज्जर्जरोन्मुखः ॥३३॥संसारारण्यविसरद्वासनापवनेरितः ।अहंतातापसरिता सर्वदा विप्रदारदी ॥३४॥ दीर्घादरी दूरचितसारसंचारजर्जरः ।पुत्रपौत्रपरामर्शप्रतापात्पतितोऽवटे ॥३५॥ लक्ष्मीलताविलुठनात्संकटैः कुण्ठिताङ्गकः ।तृष्णाश्रीसरितं गृह्णन्कल्लोलैर्दूरमाहतः ॥३६॥तं व्याधिदुर्व्याधवैधुर्यपलायनपरायणः ॥अशङ्कितविधिर्व्याधपातादिव कृताकृतिः ॥३७॥ज्ञेयास्पदसमायातदुःखसायकशङ्कितः ।वैरिविद्रवणव्यग्रो दृषदाहरणाङ्कितः ॥३८॥ उन्नतानतसंपातनिपातेनातिघूर्णितः ।विकारोपलनिर्घातैः पारम्पर्येण चूर्णितः ॥३९॥तृष्णाचारुलताजालप्रवेशवशविक्षतः ।स्वप्रज्ञारचिताचारः परमायास्वशिक्षितः ॥४०॥इन्द्रियग्राममागत्य प्रपलायनतत्परः ।सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः ॥४१॥विषयाजगरोदारविषफूत्कारमूर्च्छितः ।कामुकः कामिनीभूमौ रसात्प्रायो विपोथितः ॥४२॥कोपदावानलप्लुष्टपृष्ठविस्फोटदाहवान् ।सदा गतागतानेकदीर्घदुःखप्रदाहवान् ॥४३॥स्वात्मलग्नाभिलाषांशदंशदोषैरुपद्रुतः ।भोगलोभलसन्मोदशृगालचिरविद्रुतः ॥४४॥स्वकर्मकर्तृतोद्भान्तदारिद्र्यद्वीप्यनुद्रुतः ।व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः ॥४५॥मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।मरणेन रणे येन वृकपुष्पमिवेक्षितः ॥४६॥गर्वेण गिरणायाशु दूरतोजनसेवितः ।कामैः समन्ततो दन्तवितानितयवाङ्कुरः ॥४७॥तारुण्यनारीसुहृदा क्षणमालिङ्ग्य वर्जितः ।दुःसंचारेषु पवनैः कुपितैरिव वर्जितः ॥४८॥कदाचिन्निर्वृतिं याति सशमं च तरौ क्वचित् ।मनोहरिणको राजन्नाजीवमिव भास्वति ॥४९॥तालीतमालबकुलादिकवृक्षगुल्म-विश्रान्तिषु प्रचुरपुष्पविलासहासैः ।नामापि यस्य न विदन्ति सुखस्य मूढाःप्राप्नोति तच्छमतरोः स्वमनोमृगो वः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० मनोमृगविपद्वर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥४४॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP