संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ७० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ७० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७० Translation - भाषांतर अन्यजगद्ब्रह्मोवाच ।अथाहं चिन्मयाकाशस्त्वन्याकाशमयीं स्थितिम् ।परां ग्रहीतुमिच्छामि तेनेहोपस्थितः क्षयः ॥१॥महाप्रलयकालेऽस्मिंस्त्यक्तुमेषा मयाधुना ।मुनीन्द्र नूनमारब्धा तेन वैरस्यमागता ॥२॥आकाशत्वाद्यदाद्योऽयं पराकाशो भवाम्यहम् ।तदा महाप्रलयता वासनायाश्च संक्षयः ॥३॥तेनैषा विरसीभूता मन्मार्गं परिधावति ।नानुगच्छति को नाम निर्मातारमुदारधीः ॥४॥इहाद्यायं कलेरन्तश्चतुर्युगविपर्ययः ।प्रजामन्विन्द्रदेवानामद्यैवान्तोऽयमागतः ॥५॥अद्यैव चायं कल्पान्तो महाकल्पान्त एव च ।ममायं वासनान्तोऽद्य देहव्योमान्त एव च ॥६॥तेनेयं वासना ब्रह्मन्क्षयं गन्तुं समुद्यता ।क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम् ॥७॥यथा जडाब्धिलेखाया जायते लहरी चला ।वासनायास्तथैवेच्छा मुधोदेत्यपकारणम् ॥८॥आभिमानिकदेहाया वासनायाः स्वभावतः ।अस्या आत्मावलोकेच्छा स्वयमेवोपजायते ॥९॥आत्मतत्त्वं नु पश्यन्त्या धारणाभ्यासयोगतः ।दृष्टोऽनया भवत्सर्गो वर्गव्यग्रनिरर्गलः ॥१०॥अनयाम्बरसंचारपरयाद्रिशिरःशिला ।दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका ॥११॥एतद्यस्मिञ्जगद्यत्र तद्दृषत्त्वं जगद्गिरौ ।अस्मज्जगत्पदार्थेषु संत्यन्यानि जगन्त्यपि ॥१२॥वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे ।बोधैकतां गतास्त्वाशु पश्यामस्तानि वीक्षणात् ॥१३॥घटे पटे वटे कुड्ये खेऽनलेऽम्भसि तेजसि ।जगन्ति सन्ति सर्वत्र शिलायामिव सर्वदा ॥१४॥जगन्नाम मुधा भ्रान्तिः किल स्वप्नपुरोपमा ।मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्यथ नास्ति च ॥१५॥परिज्ञाता सती येषामेषा चिन्नभसैकताम् ।गता ते न विमुह्यन्ति शिष्टास्तु भ्रमभाजनम् ॥१६॥अथान्यधारणाभ्यासात्स्वविरागवशोदितम् ।साधयन्त्याऽर्थमात्मीयं दृष्टस्त्वमनया मुने ॥१७॥इति मायेव दुष्पारा चिच्छक्तिः परिजृम्भते ।इत्थमाद्यन्तरहिता ब्राह्मी शक्तिरनामया ॥१८॥प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् ।द्रव्यकालक्रियाद्योता चितिस्तपति केवलम् ॥१९॥देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्विदम् ।चिच्छिलाङ्गकमेवैकं विद्ध्यनस्तमयोदयम् ॥२०॥चिदेवेयं शिलाकारमवतिष्ठति बिभ्रती ।अङ्गमस्या जगज्जालं मरुतः स्पन्दनं यथा ॥२१॥विज्ञानघनमात्मानं जगदित्यवबुध्यते ।अनाद्यन्तापि साद्यन्ता चित्त्वादिति गतापि चित् ॥२२॥चिच्छिलेयमनाद्यन्ता साद्यन्तास्तीति बोधतः ।साकारापि निराकारा जगदङ्गेति संस्थिता ॥२३॥यद्वत्स्वप्ने चिदेव स्वं रूपं व्योमैव पत्तनम् ।वेत्ति तद्वदिदं वेत्ति पाषाणं जगदङ्गकम् ॥२४॥न सरन्तीह सरितो न चक्रं परिवर्तते ।नार्थाः परिणमन्त्यन्तः कचत्येतच्चिदम्बरम् ॥२५॥न महाकल्पकल्पान्तसंविदः संविदम्बरे ।संभवन्ति पृथग्रूपाः पयसीव पयोन्तरम् ॥२६॥जगन्ति सन्त्येव न सन्ति शान्तेचिदम्बरे सर्वगतैकमूर्तौ ।नभोन्तराणीव महानभोन्त-श्चित्सन्ति सत्तानि पराम्बराणि ॥२७॥वसिष्ठ तद्गच्छ मुने जगत्स्वंत्वं चासने संप्रति शान्तिमेहि ।बुद्ध्यादिरूपाणि परं व्रजन्तुवयं बृहद्ब्रह्मपदं प्रयामः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा० शिलान्तर्जगत्पितामहवाक्यानि नाम सप्ततितमः सर्गः ॥७०॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP