संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १५३

निर्वाणप्रकरणं - सर्गः १५३

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


अन्यमुनिरुवाच ।
आवयोश्चरतोस्तस्मिन्वने चिरतरं तपः ।
मृगानुसरणश्रान्तो मृगव्याध उपैष्यति ॥१॥
तं त्वं स्वभावपुण्याभिः कथाभिर्बोधयिष्यसि ।
तपस्तत्रैव विपिने स विरक्तश्चरिष्यति ॥२॥
ततस्तपस्विचर्याणामात्मज्ञानबुभुत्सया ।
मध्ये स स्वप्नजिज्ञासुः प्रक्ष्यति स्वप्नसंकथाम् ॥३॥
कथयिष्यसि तस्मै त्वमात्मज्ञानमखण्डितम् ।
स्वप्नाख्येन प्रसङ्गेन सोऽतो योग्यो भविष्यति ॥४॥
इत्यनेन प्रकारेण गुरुस्तस्य भविष्यसि ।
तेन तात मयोक्तोऽसि गिरा व्याधगुरो इति ॥५॥
इति ते सर्वमाख्यातं यथायं संसृतिभ्रमः ।
यथाहं यादृशश्च त्वमिह यत्ते भविष्यति ॥६॥
इति तेनाहमुक्तः सन्विस्मयाकुलया धिया ।
तेन सार्धं विमृश्यैतत्परं विस्मयमागतः ॥७॥
अथ रात्र्यां व्यतीतायां स प्रभाते महामुनिः ।
तथा संपूजितो येन तत्रैव रतिमाप्तवान् ॥८॥
अनन्तरं गृहे तस्मिंस्तस्मिन्ग्रामगृहे तथा ।
स्थितावावां स्थिरमती कृतभावौ परस्परम् ॥९॥
ततो वहति कालोऽयमृतुसंवत्सरात्मकः ।
स्थितोऽहमागतान्भावांस्त्यजन्गृह्णन्गिरिर्यथा ॥१०॥
नाभिवाञ्छामि मरणं नाभिवाञ्छामि जीवितम् ।
यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरम् ॥११॥
ततो विचारितं तत्र तन्मया दृश्यमण्डलम् ।
किं कारणमिदं तु स्यात्किमयं वेत्ति चेतसा ॥१२॥
कोऽयं पदार्थसंघातः किं नामैतस्य कारणम् ।
अस्त्यस्मिन्स्वप्नसंदर्शे चिद्व्योमैकस्वरूपिणि ॥१३॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
चिन्मात्रनभ एवैते कचन्त्यात्मन्यवस्थितम् ॥१४॥
चिच्चन्द्रिकाचतुर्दिक्कमवभासं तनोति यत् ।
तदिदं जगदाभाति चित्रमप्रतिघात्म खे ॥१५॥
नेमेऽद्रयो न चेयं भूर्नेदं खं नायमप्यहम् ।
चिन्मात्रव्योमकचनमिदमाभाति केवलम् ॥१६॥
पदार्थजातस्यास्य स्यात्किं नाम बत कारणम् ।
पिण्डग्रहे हेतुना तु विना कोऽप्यर्थसंभवः ॥१७॥
भ्रान्तिमात्रमिदं चेत्स्याद्भ्रान्तेः किं नाम कारणम् ।
द्रष्टा मन्ता च को भ्रान्तेः कारणं वा क्व कीदृशम् ॥१८॥
यस्याहमवसं संविन्मात्रकं हृदयौजसि ।
असौ मया सह गतः किलाशेषेण भस्मसात् ॥१९॥
तस्मादिदमनाद्यन्तं चिदाभामात्रमम्बरम् ।
अकर्तृकर्मकरणं रूपं चिद्धनमक्रमम् ॥२०॥
इदं चिद्व्योमकचनं घटावटपटादिकम् ।
स्फुटं कुत इवाकारि घटावटपटाद्यतः ॥२१॥
नापि चिन्मात्रकचनं चिन्मात्रं व्योम केवलम् ।
तस्य किं कचनं कीदृक् कथं कचति किं नभः ॥२२॥
अयं फेनश्चिदम्भोधेः किमस्य कचनं नवम् ।
कचत्स्वभाव एवायमनन्तश्चिद्धनः स्थितः ॥२३॥
चिन्मात्रकचनं शुद्धं ब्रह्म बृंहितचिद्धनम् ।
इदं जगदिवाभाति क्व दृश्यं द्रष्टृता कुतः ॥२४॥
आद्यन्तवर्जितममेयमनादिमध्य-
मेकं विभुं विगतकारणकार्यसत्त्वम् ।
सत्तामयं भुवनशैलदिगन्तनाना-
ऽनानात्मकं किमपि चेतनमेव सर्वम् ॥२५॥

इति श्रीवासिष्ठ० वा० दे० मो० निर्वा० उ० अवि० श० सर्वैकात्म्यप्रतिपादनं नाम त्रिपञ्चाशदधिकशततमः सर्गः ॥१५३॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP