संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७० Translation - भाषांतर श्रीराम उवाच ।ब्रह्मन्कोऽस्य सुहृद्ब्रूहि येनासौ रमते सह ।रमणं किंस्वभावं स्यादुत रत्यात्म वास्य तत् ॥१॥श्रीवसिष्ठ उवाच ।स्वप्रवाहेहितं नाम स्वप्रायेहितनाम च ।स्वकर्म नाम चास्यास्ते मित्रमेकमकृत्रिमम् ॥२॥पितृवद्विहिताश्वासं दारा इव नियन्त्रणम् ।संकटेषु दुरन्तेषु नित्यमव्यभिचारि च ॥३॥अशङ्कितोपचरणं सुसंपादितनिर्वृति ।कोपेष्वकोपनतया वितीर्णावर्जनामृतम् ॥४॥दुर्गदुर्गमदुर्वारदोषोद्धरणतत्परम् ।सर्वविश्वासरत्नानां कोश आशैशवोषितम् ॥५॥सहपांसुकृताक्रीडमाबाल्यादेव संगतम् ।विनिवारितदुश्चेष्टं पितृवद्रक्षणोन्मुखम् ॥६॥वह्नेरिवौष्ण्यं सौगन्ध्यं कुसुमस्येव सर्वदा ।अविनाभावि विमलं रवेरिव च वासरम् ॥७॥लालनैकरतं नित्ये पालनैकपरायणम् ।सर्वसंकटसंघट्टरक्षणैकसमुद्यतम् ॥८॥हेम्नोऽग्निरिव देहस्य सर्वावस्थस्य शुद्धिदम् ।इदं हेयमुपादेयमिति दर्शनतत्परम् ॥९॥आह्लादकमनिन्द्याभिः कथाभिरिव नागरम् ।सच्चेष्टामणिमाणिक्यभाण्डसंभारमन्दिरम् ॥१०॥सूर्यस्तम इवाजस्रमप्रदर्शयदप्रियम् ।अनुरक्ता महेलेव प्रियमेवाप्रदर्शयत् ॥११॥जनं प्रियंवदं कुर्वत्प्रियमेव समाचरत् ।पेशलं मधुरं स्निग्धमक्षुब्धमुदिताशयम् ॥१२॥लोकोपचारकं पूज्यं स्मितपूर्वाभिभाषणम् ।कामोपशान्तं सद्रूपं परमार्थैककारणम् ॥१३॥रणेऽज्ञानसमुद्भूते पूर्वं प्रहरणोद्यतम् ।अपूर्वनर्मनिर्माणलीलाललनलालकम् ॥१४॥पालकं शीलसाराणां दाराणां च कुलस्य च ।आधिव्याधिपरीतस्य चेतसोऽमृतमौषधम् ॥१५॥विशेषविद्यावैदग्ध्यवादवन्द्यविनोदनम् ।समानकुलशीलत्वाद्द्विधाभाव इव स्थितम् ॥१६॥अनुरक्तान्नृपान्साधून्वदान्यान्कारयत्सदा ।यज्ञदानतपस्तीर्थन्यायार्थप्रेरणोन्मुखम् ॥१७॥पुत्रदारद्विजातिस्त्रीभृत्यबन्धुजनैः सह ।शुभभोजनपानार्हमुत्तमश्लाघ्यसंगति ॥१८॥भोगादिबद्धतृष्णत्वं दुःखदं विनिवारयत् ।सुस्निग्धसंकथोदारं समाश्वासोत्तमास्पदम् ॥१९॥ईदृशेनात्ममित्रेण स कलत्रेण संयुतः ।स्वकर्मनाम्ना रमते स्वभावेनैव नेरितः ॥२०॥श्रीराम उवाच ।कलत्रमस्य मित्रस्य तदीयस्य मुनीश्वर ।किं तत्किंरूपमेव स्यात्समासेनेव मे वद ॥२१॥श्रीवसिष्ठ उवाच ।स्नानदानतपोध्याननामानोऽस्य महामते ।सन्ति पुत्रा महात्मानः स्वनुरक्ताखिलप्रजाः ॥२२॥चन्द्रलेखेव लोकस्य दृष्ट्यैवाह्लाददायिनी ।अविनाभाविनी भार्या मुदितास्यानुरागिणी ॥२३॥करुणाकारणाकीर्णधना हृदयहारिणी ।आनन्दजननी चास्य वयस्याऽव्यभिचारिणी ॥२४॥समतास्य मता नित्यमास्ते हृदयवल्लभा ।प्रतीहारी पुरः प्रह्वा संमुखं सुखदायिनी ॥२५॥धैर्ये धर्मे च धीः साधो नित्यमाधीयते च या ।सास्य धीरस्य धुर्यस्य पुरो धन्यस्य धावति ॥२६॥अस्य सन्ना समं स्कन्धे सर्वदैव महौजसः ।विषयारिजये राज्ञो मैत्री मन्त्रप्रदायिनी ॥२७॥कार्याणामार्यमर्यादाचार्या चातुर्यशालिनी ।सर्वेषामस्य मान्यस्य सत्यता स्वार्थदायिनी ॥२८॥इत्येवंपरिवारेण मित्रेण सह मन्त्रिणा ।स्वकर्मणा व्यवहरन्न हृष्यति न कुप्यति ॥२९॥स यथास्थितमेवास्ते विनिर्वाणमना मुनिः ।चित्रार्पित इवाजस्रं लोके व्यवहरन्नपि ॥३०॥वस्तुशून्येषु वादेषु मूकः शैलमयो यथा ।निष्प्रयोजनशब्देषु परं बाधिर्यमागतः ॥३१॥लोकाचारविरुद्धेषु शवं सकलकर्मसु ।आर्याचारविचारेषु वासुकिर्वा बृहस्पतिः ॥३२॥प्रवृत्तवाक्पुण्यकथो जिह्मानां प्रतिभानवान् ।निमेषेणैव निर्णेता वक्ताशु बहु वस्तुनः ॥३३॥समदृष्टिरुदारात्मा वदान्यः संविभागवान् ।पेशलस्निग्धमधुरः सुन्दरः पुण्यकीर्तनः ॥३४॥स्वभाव एषैव भवेत्प्रबुद्ध-धियां प्रयत्नेन तु नेदृशास्ते ।भवन्ति नेन्द्वर्कहुताशनाद्याःक्वचित्परप्रेरणया प्रकाशाः ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० तत्त्वज्ञव्यवहारवर्णनं नाम सप्तत्यधिकशततमः सर्गः ॥१७०॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP