संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४३ Translation - भाषांतर मुनिरुवाच ।सर्वेषामेव धर्माणां कर्मणां शर्मणामपि ।पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम् ॥१॥आत्मज्ञानविदो यान्ति यां गतिं गतिकोविदाः ।पण्डितास्तत्र शक्रश्रीर्जरत्तृणलवायते ॥२॥पाताले भूतले स्वर्गे सुखमैश्वर्यमेव वा ।न तत्पश्यामि यन्नाम पाण्डित्यादतिरिच्यते ॥३॥पण्डितस्य यथाभूता वस्तुदृष्टिः प्रसीदति ।दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ॥४॥इदं दृश्यमविद्यात्म ब्रह्म संपद्यते क्षणात् ।बुधस्य बोधात्स्रग्दाम सर्पत्वमिव शाम्यति ॥५॥यत्स्थितं ब्रह्मणि ब्रह्म कृतास्तेनैव सत्यता ।स्वभावैकात्मिकाः संज्ञा देहसर्गक्षयादिकाः ॥६॥सर्गो विद्यत एवायं न यत्र किल किंचन ।तस्य धर्माणि कर्माणि न चैवाक्षरमालिका ॥७॥पृथ्व्यादि संभवति चेत्तत्सकारणमस्तु तत् ।तदेव यत्र नास्त्येव तत्र किं तस्य कारणम् ॥८॥ब्रह्मणः प्रतिभातं यत्तदिदं जगदुच्यते ।तेनैव कुत एतानि पृथ्व्यादीनि क्व कारणम् ॥९॥स्वप्नद्रष्टुर्दृश्यनृणामस्ति काल्पनिकं यथा ।न वास्तवं पूर्वकामं जाग्रत्स्वप्ने तथा नृणाम् ॥१०॥यथा प्राक्कर्म पुंस्त्वे च स्वप्ने पुंसां न विद्यते ।इह जाग्रत्स्वप्ननृणां भातानामपि नो तथा ॥११॥जीवः सर्वेषु सर्गेषु स्वप्नार्थान्निखिलान्मिथः ।प्राक्कर्मसत्वं मिथ्यात्म यथावासनमेषु च ॥१२॥सर्गादावथ देहान्ते भान्ति स्वप्नार्थवन्मिथः ।यथासंवेदनं जीवाः सन्तोऽसन्तश्च तेन ते ॥१३॥यथासंवेदनं सर्वे भान्ति भावयतस्ततः ।ते सन्त्यात्मन्यपि स्वप्ने जाग्रतीवार्थदा मिथः ॥१४॥संकल्पसंविदग्रस्थवस्तुनिष्ठतयाऽस्फुटम् ।फलं चाप्नोति ते स्वप्ने लोकनिष्ठतयाऽस्फुटः ॥१५॥शुद्धा संवित्स्वभावस्था यत्स्वयं भाति भास्वरा ।तस्या भानस्य तस्यास्य जाग्रत्स्वप्नाभिधाःकृताः ॥१६॥सर्गादावथ देहान्ते भातं यद्वेदनं यथा ।तत्तथाऽऽमोक्षमेवास्ते तदिदं सर्ग उच्यते ॥१७॥जाग्रत्स्वप्नार्थसार्थस्य संविदश्च न भिन्नता ।अस्त्यप्रतिघरूपायाः प्रकाशालोकयोरिव ॥१८॥अग्न्यौष्ण्ययोरिव तथा वातस्पन्दनयोरिव ।द्रवाम्भसोरिवाऽऽवीचि वा शैत्यानिलयोरिव ॥१९॥सर्वमप्रतिघं शान्तं जगज्जातमसन्मयम् ।इत्थं सन्मयमेवास्ति नास्त्यर्थेन च संयुतम् ॥२०॥ब्रह्म प्रोद्भूय मृत्वा च दृश्यानुभवरूपि च ।चिन्मात्रमजरं शान्तमेकमेवामलं स्थितम् ॥२१॥कार्यकारणतार्थानां या यथा हृदि कल्पिता ।ब्रह्मणा पुरुषेणेव नगर्यन्तस्तथैव सा ॥२२॥ब्रह्मणो हृदि सर्गोऽयं हृदि ते स्वप्नपूर्यथा ।कार्यकारणता तत्र तथास्तेऽभिहिता यथा ॥२३॥संविद्धनोदरे सर्गे कार्यकारणता स्थिता ।तथा यथोहिता तेन त्वया वा कल्पनापुरम् ॥२४॥चिता संकल्परूपिण्या सर्गे संकल्पपत्तने ।त्वयैव स्थापिता संस्था कार्यकारणरूपिणी ॥२५॥आकाश एव कचनं यच्चित्ते स्वात्मरूपिणी ।नियतं संनिवेशत्वात्तदन्तः सर्ग उच्यते ॥२६॥या संविद्रव्यवस्थास्ते हृदि संकल्पपत्तने ।सैषा स्वभावसंसिद्धिः कार्यकारणतार्थजा ॥२७॥प्रथमं यद्यथा भाति चित्त्वमस्ति तथेह तत् ।तस्यैव नियतिः कालो देशादीत्यभिधा कृता ॥२८॥या नामाशु यथा भाति चेतनाकाशशून्यता ।तया तथा वस्तुतया कार्यकारणताश्रिता ॥२९॥चिच्चमत्कारमात्रेऽस्मिन्सर्गाभे भावरूपिणि ।पूर्वं भावाः प्रवर्तन्ते पश्चात्सर्गाभिधा विदः ॥३०॥शून्यतास्त्रिजगद्रूपास्तथा चिद्व्योमनि स्थिताः ।अनन्याः पवने सौम्ये स्पन्दसत्ता यथा निजाः ॥३१॥व्योम्नि सौषिर्यनैबिड्यं यथा नीलमिति स्थितम् ।चिति चेतननैविड्यं तथा सर्ग उपस्थितम् ॥३२॥आभात एव भातेऽस्मिन्कृच्छ्रात्सर्गे विसर्गता ।बुध्यते रज्जुभुजगे रज्जुरूपं यथा पुनः ॥३३॥मृतः स स्वप्नवत्सर्वः संपश्यति पृथग्जगत् ।तच्चान्यदिदमन्यच्च नित्याप्रतिघमम्बरम् ॥३४॥व्याध उवाच ।परतः सुखदुःखार्थं देहः संपद्यते कथम् ।किमस्य हेतुः के वास्य हेतवः सहकारिणः ॥३५॥कुर्वन्ति धर्माधर्माश्चेत्तेन प्रतिघरूपिणा ।तदस्याप्रतिघं रूपं कुर्वन्तीत्यसमञ्जसम् ॥३६॥मुनिरुवाच ।धर्माधर्मौ वासना च कर्मात्मा जीव इत्यपि ।पर्यायशब्दभारोऽत्र कल्प्यते न तु वास्तवः ॥३७॥चित्त्वात्कल्पितचित्त्वेन स्वयं चिन्नभसात्मनि ।कृतानि नामान्येतानि कश्चिदस्तीति चेतसा ॥३८॥संविदात्मा स्वयं चित्त्वाद्देहं वेत्ति खमेव खे ।मृत्वा सन्तं सन्तमिव संकल्पस्वप्नयोरिव ॥३९॥स्वयं स्वप्न इवाभाति मृतस्य परलोकधीः ।तमेव पश्यति चिरं न तत्राप्यस्ति सत्यता ॥४०॥मृतं निर्माति चेदन्यः कथं वास्य स्मृतिर्भवेत् ।कथं वा स्यात्स एवासौ चेतनत्वं तमेव खम् ॥४१॥मृतौ न जायते तस्माच्चेतसैव स केवलम् ।इहायमित्थमित्येव वेत्ति खे वासनात्मकम् ॥४२॥स्वमेव भावमभ्यस्तमास्ते सोऽनुभवंश्चिरम् ।स्फुटप्रत्ययवांस्त्वत्र सत्यमित्येव वेत्त्यलम् ॥४३॥खात्मा खमेव तत्रैव स्वप्नाभं दृश्यमाहरन् ।पुनः स्वमरणं वेत्ति पुनर्जन्म पुनर्जगत् ॥४४॥अलीकजालमेवं खे पश्यन्प्रत्येकमास्थितः ।पश्यत्याचारयत्यत्ति किंचित्कश्चिन्न कस्यचित् ॥४५॥इत्येवं जगतां सन्ति कोटीनां कोटिकोटयः ।परिज्ञातास्तु ता ब्रह्म केवलं दृश्यमन्यथा ॥४६॥ताभिर्न कस्यचित्किंचिदावृतं न च सन्ति ताः ।तासां च वेत्ति प्रत्येकमिदमेव जगत्त्विति ॥४७॥भूतानि तासां प्रत्येकं तथैवान्योन्यमास्थिते ।सत्यान्येवासत्यदृष्ट्या सत्यदृष्ट्या त्वजं पदम् ॥४८॥सद्यद्विदितवेद्यस्य तदज्ञस्यासदक्षयम् ।असद्यत्संप्रबुद्धस्य तत्सदज्ञस्य सुस्फुटम् ॥४९॥चितेर्यद्यद्यथा भानं तत्तत्सत्यं यथा यतः ।सद्रूपाणि समग्राणि भूतानीमान्यतो मिथः ॥५०॥नित्यमन्योन्यसत्यानि तानि तान्येव वाप्यतः ।किल संविद्विनिर्णेयं रूपमप्रतिघं यतः॥संविन्मात्रविनिर्णेयं कान्यता नान्यता कथा ।यथासंवेदनं भाते वस्त्वौघे क्व द्वितैकते ॥५२॥तदेवेदमिदं ज्ञप्तेस्तदेवेदं भवत्यलम् ।तदेवैतत्तदेवेति भवेज्ज्ञप्तेरसत्यतः ॥५३॥तच्चेदर्थस्ततो ज्ञप्तेर्नायं तस्याः पृथक् स्थितः ।स्थिते ज्ञप्त्यात्मनि त्वर्थे त्वज्ञप्त्यायं ततो व्रजेत् ॥५४॥ज्ञानं यदेव तज्ज्ञेयं ज्ञेयस्यासंभवात्पृथक् ।यथा ज्ञानमतो ज्ञेयं तनोत्यात्मानमात्मना ॥५५॥पश्यन्तोऽपि मिलन्तोऽपि पृथक्सर्गा न किंचन ।सत एवासतो ज्ञस्य मूर्खज्ञातांस्तु वेद्मि नो ॥५६॥एकं प्रबोधतः सर्वे चिन्मात्रं तावदात्मखम् ।तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥५७॥एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।पुनर्लक्षात्म तत्स्वप्नादेकमास्ते सुषुप्तके ॥५८॥चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥५१॥एकैव संविन्नानात्वं नृलक्षत्वं च गच्छति ।शून्यत्वं च तथार्थत्वं स्वप्नसंकल्पयोरिव ॥६०॥इदमप्रतिघं सर्वं किल वेदनमात्रकम् ।शुद्धं तद्वद्यथा यत्र भाति तत्र तथा भवेत् ॥६१॥एकैव संवित्सर्गादौ भवत्यग्न्यम्बुखादिकम् ।पृथ्व्यादि तावत्सर्गार्थं स्वप्नसंकल्पयोरिव ॥६२॥संविदाकाशरूपैव भाति पृथ्व्यादिनामिका ।यत्तदेव खमेवेदं जगदित्येव भासते ॥६३॥संवित्सप्रतिघं भाति भाति चाप्रतिघं तथा ।न वस्तुतस्तु प्रतिघा संवित्सान्ते निवर्तते ॥६४॥यासि पूर्वां पश्चिमां च दिशं वेत्सि चिरं विदन् ।प्रतिघं नाम ते नास्ति न च सप्रतिघा क्वचित् ॥६५॥दृष्टं संकल्पितं चार्थं सहाभ्यस्यति यश्चिरम् ।सोऽवश्यं तदाप्नोति न चेच्छान्तो निवर्तते ॥६६॥यासि पूर्वां पश्चिमां च दिशं वेति चिरं विदन् ।य आस्ते यात्यसौ तत्तामन्यस्त्यक्त्वा तु नेतराम् ॥६७॥दृष्टः संकल्पितश्चार्थः स्यामित्यचलसंविदः ।द्वयं भवेद्वयं नश्यत्यन्यस्याचलसंविदः ॥६८॥दक्षिणादुत्तरां वाशां यामीत्यचलसंविदः ।द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः ॥६९॥खे पुरं स्यां भुवि मृगः स्यामित्यचलसंविदः ।द्वयं भवेद्वयं नश्यत्यन्यदन्यत्तु तज्जगत् ॥७०॥एकं प्रबोधतः सर्वं चिन्मात्रं तावदात्मखम् ।तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥७१॥शरीरमस्त्वप्रतिघमथ सप्रतिघं च वा ।स्वप्नात्मकोऽयं संसारो जीवस्येह परत्र च ॥७२॥एतन्म्लेच्छादिदेशेषु मृतानां दर्शनात्पुनः ।स्मृतिपूर्वं च कथनात्प्रत्यक्षमनुभूयते ॥७३॥ये मृता भस्मसाज्जाता म्लेच्छदेशेषु ते पुनः ।आगत्य कथयित्वार्थं गच्छन्त्यप्रतिघात्मकाः ॥७४॥एष चेज्जीवतो धर्मस्तद्देशान्तरगे जने ।मृत इत्येव बुद्धेऽर्थे कस्मान्नैव प्रवर्तते ॥७५॥जीवधर्मः सोऽपि संश्चेन्मृतधर्मोऽपि किं न सन् ।यादृगनुभवस्त्वस्मिन्समे न्यायद्वये स्थिते ॥७६॥स्वप्नवज्जगदाभानमित्येवं सत्यखण्डितम् ।आर्यानुभवशास्त्राणामनेनास्त्येकवाक्यता ॥७७॥दृष्टिजालं जनौघानां पश्यतामिन्दुमन्दिरे ।यादृगप्रतिघं तादृग्जगत्सदसदात्मकम् ॥७८॥सन्मात्रमात्रानुविधमच्छानुभवमात्रकम् ।चिन्मात्रं भानमात्रात्म सर्वार्थात्मार्थवर्जितम् ॥७९॥सर्वमप्रतिघं शान्तं जगदेकं चिदम्बरे ।अनिङ्गनमनाभासमात्मन्येवात्मनास्यताम् ॥८०॥अचला संविदेवास्ते स्थिरं कृत्वा यथा यथा ।तथा तथा भवत्याशु किमसत्किं च वापि सत् ॥८१॥शरीराण्यथ कर्माणि दुःखानि च सुखानि च ।यथा स्थितान्युपायान्तु यान्तु वा कस्य किं ग्रहः ॥८२॥इत्थमस्तु सदथान्यथास्तु वामैव भूद्भवतु कोऽत्र संभ्रमः ।मुञ्च फल्गुनि फले फलावहंबुद्धवानसि कृतं परिभ्रमैः ॥८३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा०दे०मो०नि०उ०अ०वि० निर्वाणबोधोपदेशो नाम त्रिचत्वारिंशदधिकशततमः सर्गः ॥१४३॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP