संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८० Translation - भाषांतर श्रीराम उवाच । इमं मे संशयं छिन्धि भगवन्भास्करं तमः ।भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥१॥कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् ।संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥२॥विद्वान्द्विजवरः श्रीमान्विदेहजनमण्डलात् ।महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥३॥स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् ।उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥४॥वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् ।सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥५॥दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे ।वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥६॥ब्राह्मण उवाच ।एवमेतन्महाभाग सुमहायत्नवानहम् ।यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥७॥वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः ।स्वर्गस्याम्बरसंस्थस्य प्रतिबिम्वमिवावनौ ॥८॥तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः ।कुन्दावदातदन्तत्वात्कुन्ददन्त इति श्रुतः ॥९॥अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् ।देवद्विजमुनीन्द्राणां संभ्रमाच्छ्रमशान्तये ॥१०॥श्रीपर्वतमखण्डेहं कदाचित्प्राप्तवानहम् ।तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥११॥तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः ।त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥१२॥तत्रास्ति मध्ये विटपी लघुः पेलवपल्लवः ।स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥१३॥लम्बते तस्य शाखायां पुरुषः पावनाकृतिः ।भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥१४॥मौञ्जदामनिबद्धोर्ध्वपादो नित्यमवाक्शिराः ।अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥१५॥दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् ।विचारितो निकटतो वक्षःस्थाञ्जलिसंपुटः ॥१६॥यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः ।शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥१७॥अनन्तरमसावेको नोपचर्य मया बहून् ।दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥१८॥पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः ।करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥१९॥अथ तेनोक्तमर्थस्ते क इवानेन तापस ।अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥२०॥इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥२१॥मथुरायामहं जातो वृद्धिं यातः पितुगृहे ।बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥२२॥समग्रसुखसंभारकोशो भवति भूमिपः ।इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥२३॥अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥२४॥इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।अत्र द्वादश वर्षाणि समतीतानि मानद ॥२५॥तदकारणमित्र त्वं गच्छेष्टं देशमाशुगः ।अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥२६॥इति तेनाऽहमुक्तः संस्तमित्थं प्रोक्तवाञ्छृणु ।आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥२७॥साधो यावत्त्वया प्राप्तो न नामाभिमतो वरः ।त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥२८॥मयेत्युक्ते स पाषाणमौनवानभवच्छमी ।निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥२९॥तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥३०॥अर्कबिम्बाद्विनिष्कम्य तत्प्रदेशान्तरे स्थितम् ।एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥३१॥स तेन पूज्यते यावन्मनसा कर्मणा मया ।उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥३२॥शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।तपः संहर संहारि गृहाणाभिमतं वरम् ॥३३॥सप्ताब्धिद्वीपवलया पालयिष्यसि मेदिनीम् ।सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥३४॥एवं समीहितं दत्त्वा स द्वितीयो दिवाकरः ।गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥३५॥तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥३६॥संप्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।तपस्त्यक्त्वा यथाप्राप्तं व्यवहारं समाचर ॥३७॥एवमङ्गीकृतवतः पादौ तस्य मया ततः ।मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥३८॥स्नातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥३९॥तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥४०॥सप्तद्वीपसमुद्रमुद्रितदिश भोक्तुं समग्रां महींविप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः ।संप्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेवसदनं गन्तुं प्रवृत्तोऽभवत्इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे मो नि० उप ब्रह्मगीतासु तापसोपाख्यानं नामाशीत्यधिकशततमः सर्गः ॥१८०॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP