संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२ Translation - भाषांतर भुशुण्ड उवाच ।ख एव व्योम संपन्नमिति संकल्पनं यथा ।भ्रान्तिमात्रमसद्रूपं तथाहंभावभावनम् ॥१॥खे खं जातमिति भ्रान्तेरहं कल्पयिता यथा ।तथा निर्व्यपदेश्यात्म सदस्त्यसदिवाततम् ॥२॥खे खात्मैवास्ति चिद्रूपं तत्स्वकं बुध्यते वपुः ।भासते यदिदन्त्वेन नाहमस्मि न चानहम् ॥३॥ततश्चिद्रूपमस्तीदृग्यत्र स्थूलं खमप्यलम् ।अणाविव महामेरुस्तत्संवित्तिर्हि खादिता ॥४॥घनस्ततोऽचिदाभासः खादप्यतितरामणुः ।जानाति यत्स्वभावं तदेतत्सर्गतया स्थितम् ॥५॥अहन्ताखादिताद्यात्मविदः प्रसरणं जगत् ।अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम् ॥६॥अचित्प्रसरणं शान्तमस्पन्दीव जलद्रवः ।निःस्पन्दपवनाकारमाकाशहृदयोपमम् ॥७॥न देशकालादिजगत्प्रसरेषु च युज्यते ।घनाच्छून्यान्निराभासाच्चिन्मात्रविसरादृते ॥८॥चिन्मात्रे प्रसृते काले व्योम्नि नावि जले स्थले ।निद्रायां जाग्रति स्वप्ने भवेज्जगदिवोदितम् ॥९॥प्रसरणाप्रसरणे न च संभवतो विदः ।खादप्यत्यन्तस्वच्छत्वादक्षोभादेः सदैव हि ॥१०॥ज्ञश्चेतति न भोगादि न चैवात्मन्यसावहम् ।द्रवत्वमम्भसीवान्तरद्वितीयः परे स्थितः ॥११॥धीर्ह्रीः श्रीर्भीः स्मृतिः कीर्तिः कान्तिरित्यादिकंगणं ।न पश्यति विसंकल्पस्तमसीव पदान्यहेः ॥१२॥ब्रह्मेन्दुबिम्बस्फुरितचिज्ज्योत्स्नांशामृतद्रवः ।दिक्कालासंभवात्सर्गो नेश्वरादतिरिच्यते ॥१३॥आधिमान्यः स्फुरत्येवं परे स्फुरति भासुरम् ।जगदाद्यात्मकं चित्तं चक्रौघत्वमिवाम्भसि ॥१४॥मज्जनोन्मज्जनारावैर्विवर्तावर्तवेष्टनैः ।अच्छिन्नानुपदं क्षीणा भाति सर्गसरिच्चिरम् ॥१५॥यथावर्तैः पयो भाति धूमो भाति यथा घनः ।तथा जडात्मकतया तृतीयः सर्ग एतयोः ॥१६॥दारुणि क्रकचच्छेदे यथावर्तादिकं तथा ।अदिगादौ परे सर्गस्तदतद्रूपवानयम् ॥१७॥संसारकदलीस्तम्भाद्विना संकल्पपल्लवम् ।मृदुनोऽपि दृषत्क्रूरान्न किंचिल्लभतेऽन्तरम् ॥१८॥सहस्रखुरमूर्धाक्षिकरवक्त्रहितोहितम् ।नानाद्रितनुदिग्देशसरित्प्रादेशमात्रकम् ॥१९॥अन्तःशून्यमसारात्म बहुरागोपरञ्जितम् ।स्फुरद्विरागविहितमार्जनामात्रतर्जनम् ॥२०॥ससुरासुरगन्धर्वविद्याधरमहोरगम् ।जडात्मपवनस्पन्दि परचेतनचेतितम् ॥२१॥पटे चित्रमहाराज्यमिव भासुरसुन्दरम् ।परामर्शासहं चारु विकल्पस्फूर्जितं जगत् ॥२२॥स्पन्दात्मनि विकल्पांशे पतिताऽसत्यरूपिणि ।संवित्प्रसरति भ्रान्तौ तैलबिन्दुरिवाम्भसि ॥२३॥हृल्लेखाजालविसरैः सर्वावर्तविवर्तनैः ।विसरत्स्नेहसंमिश्रजडानुदयचर्वणैः ॥२४॥अहमित्यादिचिद्रूपे विकल्पेनोन्मुखी सती ।न पराद्व्यतिरिक्तैषा जलत्वादिव तोयता ॥२५॥चिदादित्यः स्व आत्मैव सर्ग इत्यभिधीयते ।भूत्वाहमिति तेनान्यो न सर्गोऽस्ति न सर्जकः ॥२६॥स्पन्दात्मिकायां सत्तायां यथा स्पन्दो जलद्रवः ।तथा चिदात्मा व्योमत्वेनव्योमत्वादि वेत्ति हि॥२७॥देशकालादिनिर्माणपूर्वकं वेदनं विदः ।सर्गात्मकत्वात्तेनाम्बुद्रवसाम्यं न दूरगम् ॥२८॥मनोहंभावबुद्ध्यादि यत्किंचिन्नाम वेदनम् ।अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति ॥२९॥अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।आत्मप्रत्ययतः शिष्टमविद्याया निवर्तते ॥३०॥चतुर्भागात्मनि कृते इत्यविद्याक्षये क्रमात् ।समकालाच्च यच्छिष्टं तदनामार्थसन्मयम् ॥३१॥श्रीराम उवाच ।अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।आत्मप्रत्ययतो भागः कथं तस्या निवर्तते ॥३२॥समकाले क्रमाच्चेति मुनिनाथ किमुच्यते ।तदनामार्थसच्चेति सच्चासच्चेति किं वद ॥३३॥श्रीवसिष्ठ उवाच ।सुजनेन विरक्तेन संसारोत्तरणार्थिना ।सह चाप्यात्मविदुषां संसृतिं प्रविचारयेत् ॥३४॥यतः कुतश्चिदन्विष्य सविरागममत्सरम् ।जनं सज्जनमात्मज्ञं यत्नेनाराधयेद्बुधः ॥३५॥संपन्ने संगमे साधोरविद्यार्धं क्षयं गतम् ।विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात् ॥३६॥अर्धं सज्जनसंपर्कादविद्याया विनश्यति ।चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ॥३७॥एकोऽभिलाष उत्पन्नो भोगेभ्यश्च निवार्यते ।तत्क्षये यात्यविद्यायाश्चतुर्थांशः स्वयत्नतः ॥३८॥साधुसङ्गमशास्त्रार्थस्वयत्नैः क्षीयते मलम् ।एकैकेनाथ सर्वैश्च तुल्यकालं क्रमादपि ॥३९॥यदविद्याक्षयैकात्म न किंचित्किंचिदेव च ।शिष्यते तत्परं प्राहुरनामार्थमसच्च सत् ॥४०॥ब्रह्मेदं घनमजराद्यनन्तमेकंसंकल्पस्फुरणमविद्यमानमेव ।बुद्ध्वैवं व्यपगतमानमेयमोहोनिर्वाणं परिविहरन्विशोकमास्स्व ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि० संकल्पसर्गयोरैक्यप्रतिपत्तिर्नाम द्वादशः सर्गः ॥१२॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP