संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४५ Translation - भाषांतर मुनिरुवाच ।बहिष्ठैर्बाह्यमेवान्तरन्तस्थैः स्वप्नमिन्द्रियैः ।जीवो वेत्ति द्वयस्थातितीव्रसंवेगिभिर्द्वयम् ॥१॥यदेन्द्रियाणि तिष्ठन्ति बाह्यतश्च समाकुलम् ।तदा म्लानानुभवनः संकल्पार्थोऽनुभूयते ॥२॥यदा त्वन्तर्मुखान्येव सन्त्यक्षाणि तदा जगत् ।अणुमात्रं स्ववपुषि जीवस्तेनातिवेत्ति तत् ॥३॥जगप्सप्रतिघं नास्ति किंचिदेव कदाचन ।जीवेक्षणानामक्षाणां दृष्टिरप्रतिघा जगत् ॥४॥जीवनेत्राणीन्द्रियाणि यदा बाह्यमयान्यलम् ।तदा बाह्यात्मकं वेत्ति चिति जीवो जगद्वपुः ॥५॥श्रोत्रं त्वगीक्षणं घ्राणं जिह्वा चेतीहितात्मकः ।संघातः प्रोच्यते जीवश्चिद्रूपोऽनिलमूर्तिमान् ॥६॥सर्वत्र सर्वदा जीवः सर्वेन्द्रियमयः स्थितः ।चिच्चिद्व्योमाव्ययस्तेन सर्वं सर्वत्र पश्यति ॥७॥श्लेष्मात्मना रसेनान्तर्जीव आपूर्यते यदा ।तेऽक्षाणुकेऽणुरूपात्मा तदा तत्रैव विन्दति ॥८॥क्षीरार्णव इवोड्डीनो नभश्चन्द्रोदयान्वितम् ।सरांसि फुल्लपद्मानि कह्लारवलितानि च ॥९॥पुष्पाभ्रप्रतिधानानि परिगीतानि षट्पदैः ।वसन्तान्तःपुराण्यन्तरुद्यानान्युदितानि खे ॥१०॥उत्सवान्मङ्गलाकीर्णांल्लीलालोलाङ्गनागणान् ।भक्ष्यभोज्यान्नपानश्रीपरिपूर्णगृहाजिरान् ॥११॥सपुष्पाः फेनहसनास्तरलातरलेक्षणाः ।विलासेनाम्बुधिं यान्ति सरितो मत्तयौवनाः ॥१२॥हिमवच्छुभ्रशृङ्गाणि सौधानि शिशिराण्यलम् ।सुधावधौतभित्तीनि कृतानीन्दुतलैरिव ॥१३॥शिशिरासारहेमन्तप्रावृण्मेघवृतानि च ।स्थलानि नीलनलिनीलताशाद्वलवन्ति च ॥१४॥पुष्पप्रकरसंछन्ना विश्रान्तहरिणाध्वगाः ।स्निग्धपत्रतरुच्छायाः पुरोपवनभूमिकाः ॥१५॥कदम्बकुन्दमन्दारमकरन्देन्दुकान्तिभिः ।भासमानासनस्थानसंस्थानाः कुसुमस्थलीः ॥१६॥नलिनीजालिनीर्नीलाः पुष्पकस्थलधारिणीः ।वनावलीर्विलीनाभ्रनिर्मलाकाशकोमलाः ॥१७॥कदलीकन्दलीकुन्दकदम्बकृतशेखराः ।गिरिमालाश्चलच्चारुलीलापल्लवपेलवाः ॥१८॥हेलावलितधम्मिल्लमुक्तमालतिकालताः ।इव बालाङ्गना नृत्यं तन्वानास्तनुगात्रिकाः ॥१९॥उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।चारुचामरभृङ्गारवितानकशतावृताः ॥२०॥वल्लीवलयविन्यासविलासवलिताङ्गिकाः ।वनमाला विलोलाम्बुप्रणालीकाकलीकलाः ॥२१॥धराभरकरालाङ्गधाराधरधराधराः ।दिशः सीकरनीहारहारोदरधरा दश ॥२२॥पित्तात्मना रसेनान्तर्जीव आपूर्यते यदा ।ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दति ॥२३॥पवनस्पन्दसंशुष्ककिंशुकद्रुमशोभनाः ।ज्वालालीरुज्ज्वलाम्भोजदलपल्लवपेलवाः ॥२४॥संतप्तसिकतासेकसनीहारसरिच्छिराः ।दावानलशिखाश्यामधूमश्यामलदिङ्मुखाः ॥२५॥कृशानुकर्कशानर्कांश्चक्रधाराशितत्विषः ।दावदाहविषावेशविपरीतरसाकरान् ॥२६॥स्वेदमुष्णीकृताब्धिं वा स्विन्नं त्रैलोक्यमण्डलम् ।क्षरत्क्षाराण्यरण्यानि प्रतर्दगहनान्यपि ॥२७॥प्रतरन्मृगतृष्णाम्बुसरत्सारसरूपि च ।स्थलान्यदृष्टपूर्वाणि भूतपूर्वतरूणि च ॥२८॥अध्वगं संभ्रमवशात्तप्तधूलिविधूसरम् ।दूरादमृतवद्दृष्टं स्निग्धच्छायाध्वपादपम् ॥२९॥ज्वरज्वालितमाकारं भुवनं तप्तमग्निवत् ।पांसूपहतदेशानि दिङ्मुखानि च खानि च ॥३०॥ग्रहग्रामार्णवाद्व्यब्धिवनव्योमाग्निका दिशः ।तुहिनाहारहानन्तासंख्याम्बुदघटोद्भटान् ॥३१॥शरद्ग्रीष्मवसन्तांश्च तापानातपदायिनः ।तृणपत्रलतौघाभ्रराश्यूष्मपिहितावनीः ॥३२॥सौवर्णमम्बरतलं भूतलं दिक्तटानि च ।तप्तान्यदभ्रसरसीहिमशैलस्थलानि व ॥३३॥रसानुरिक्ते वातेन जीव आपूर्यते यदा ।ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दते ॥३४॥वातविक्षुब्धसंवित्त्वादपूर्वं वसुधातलम् ।अपूर्वा नगरग्रामशैलाब्धिवनमण्डलीः ॥३५॥उड्डीयमानमात्मानं शिलाः शैलस्थलानिव ।घनघुंघुमसारावानचक्रभ्रमणादि च ॥३६॥हयोष्ट्रगरुडाम्भोदहंसयानावरोहणम् ।यक्षविद्याधरादीनां गत्यागमनसंचरम् ॥३७॥साद्रिद्यूर्वीनदीशानां वनभूग्रामपूर्दिशाम् ।कम्पं भयोन्मुखाङ्गानां बुद्बुदानामिवार्णवे ॥३८॥अन्धकूपे निपतितं विपुले संकटेऽथवा ।अथवा रूढमात्मानं खमाभं पादपं गिरिम् ॥३९॥वात्पित्तश्लेष्मयुक्तो जीव आपूर्यते यदा ।भागैर्वातवशं प्राप्तैरार्तोऽसौ विन्दते तदा ॥४०॥पतन्तीं पार्वतीं वृष्टिं सुशिलावृष्टिसंकटम् ।स्फुटाट्टकटकारावभ्रमत्पादपमण्डलम् ॥४१॥भ्रमद्भिर्वनविन्यासैः संदिग्धाम्भोधरोत्कटम् ।सिंहवारणवर्षाभ्रनिरन्तरदिगन्तरम् ॥४२॥तालीतमालहिंतालमालाज्वलनसंकुलम् ।गुहाघुंघुमनिर्ह्रादभांकारघनघर्घरम् ॥४३॥मन्द्रमन्दरमन्थानशब्दसंदर्भसुन्दरीम् ।दरीं दलनदुर्वारमिथःसंघट्टघट्टिताम् ॥४४॥श्रृङ्गसंघट्टसदृशाः क्रेंकारोत्करकर्कशाः ।नदीर्मुक्तालतापातसस्रग्दामनभस्तलाः ॥४५॥शिलाशकलपूर्णार्णपूर्णाम्बरमहार्णवम् ।वहद्वनघनोद्धातघट्टितब्रह्ममण्डलम् ॥४६॥परस्परविनिर्मृष्टदशदर्शनदन्तुरम् ।चटत्कटकटारावस्फुटत्कटकटङ्कितम् ॥४७॥खपातपवनाधूतवनवातलतोदयम् ।रणदात्मदृषच्चूर्णकर्बुराम्बुजधारिणम् ॥४८॥प्राग्भटोद्भटभेदोत्थैर्मन्द्रैर्मरमरारवैः ।क्रूराक्रन्दैरिवाभाति विराजितजगत्र्त्रयम् ॥४९॥इति तैः काष्ठपाषाणमृद्युग्वातभटैर्वृतः ।परिपीडित एवास्ते यदा जीवो जडीकृतः ॥५०॥मृदन्तःकीटकणवच्छिलान्तर्गतभेकवत् ।गर्भस्थापक्वशिशुवत्फलान्तर्गतबीजवत् ॥५१॥बीजोदरस्थाङ्कुरवद्द्रव्यपिण्डोदराणुवत् ।अश्रान्तस्तम्बकोशस्थदारुपुत्रकदेहवत् ॥५२॥सौषिर्यासंभवात्प्राणपवनस्पन्दवर्जितः ।प्रोन्नमत्पर्शुपूरेण शिलापूरेण तर्जितः ॥५३॥तदा निविडतेजोन्तरेवानुभवति स्वयम् ।सुषुप्तं शैलकोशाभमन्धकूपोदरोपमम् ॥५४॥यदा परिणतं यत्नं पुनः सौषिर्यमागतम् ।पुनर्वेत्ति तदा जीवः स्वप्नं प्राणावबोधितः ॥५५॥यदा तस्मिन्प्रदेशेऽन्तर्भागभागान्पतन्ति ते ।देहे परिणमन्तोऽन्तस्तदेवात्यद्रिवर्षणम् ॥५६॥बह्वेव वह्निबहुना स्वल्पेनाल्पं प्रपश्यति ।वातपित्तादियोगेन बहिरन्तश्च संभ्रमम् ॥५७॥पश्यत्येतद्यथैवान्तरेष जीवो वशीकृतः ।वातपित्तादिवलितो बहिर्वेत्त्येवमेति वा ॥५८॥क्षुब्धैरन्तर्बहिश्चैव स्वल्पैः स्वल्पं प्रपश्यति ।समैः सममिदं दृश्यं वातपित्तकफादिना ॥५९॥बहिः पश्यत्ययं जीवः कुपितैरेभिरावृतः ।स्पन्दं भूम्यद्रिनभसां ज्वलनं वानलोच्चयैः ॥६०॥आकाशगमनं चैव चन्द्रोदयहिमाचलान् ।गहनं वृक्षशैलानां नभःप्लवनमर्णसाम् ॥६१॥मज्जनोन्मज्जनं वाब्धौ सुरतं सुरसद्मसु ।शैलोपवनशुभ्राभ्रपीठविश्रमणोच्चयम् ॥६२॥बृहत्क्रकचनिष्पेषं नरकानुभवभ्रमम् ।तालीतमालहिंतालमालावलनमम्बरे ॥६३॥चक्रवृत्तैश्च पतनं झगित्युत्पतनं दिवि ।शून्येऽपि जनतावृन्दं स्थलेऽप्यब्धिनिमज्जनम् ॥६४॥विचित्रं विपरीतं च व्यवहारं महानिशि ।अह्नीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः ॥६५॥साद्रिभूतलमाकाशे कुड्यबन्धे घने स्थलम् ।कुड्यबन्धांश्च गगने मित्रभावं च विद्विषि ॥६६॥स्वजने परताबुद्धिं सुजनत्वं च दुर्जने ।सुसमस्थलतां श्वभ्रे श्वभ्रत्वं सुसमे स्थले ॥६७॥उद्गीतालापमसृणान्सुधाधौतान्सुचित्रितान् ।अद्रीञ्छ्वेतमयान्वापि नवनीतमयान्श्च वा ॥६८॥कदम्बनीपजम्बीरपत्रस्तबकसद्मसु ।सुखविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः ॥६९॥अन्तर्निमीलिता ह्येताः पश्यन्त्युन्मीलिता बहिः ।धातूनामिति वैषम्याद्भ्रान्तिमिन्द्रियवृत्तयः ॥७०॥एवंविधान्यनेकानि पश्यन्त्यनुभवन्ति च ।बहिरेव यथा स्वप्ने वस्तुन्यसमधातवः ॥७१॥बहिश्चान्तश्च दृश्यन्ते विपरीतान्यनेकशः ।कार्याण्यतिकरालानि जीवैरसमधातुभिः ॥७२॥समेषु धातुष्वेषोऽन्तर्जीवोऽनुभवति स्वयम् ।तेजोन्तर्गत एवेमां व्यवहारस्थितिं समाम् ॥७३॥यथास्थितां पुरग्रामपत्तनारण्यसंततिम् ।सौम्यवारितरुच्छायादेशाध्वगगमागमम् ॥७४॥सुखातपमयेन्द्वर्कताराहोरात्रमण्डितम् ।एवमेतदसद्भूतं सद्भूतमिव भासते ॥७५॥दृश्योपलम्भं चित्तत्त्वे स्पन्दनं पवने यथा ।असदेव सदाभासमभिन्नं भिन्नवत्स्थितम् ॥७६॥शान्तादुदेति सकलं जगदम्बरात्मशान्तं न किंचन न नाम सदित्युदेति ।तद्व्योमनीदृशमनन्तचितेः शरीरेभामात्रमाततमनन्तवपुर्विभाति ॥७७॥इ० वा० महारामा० वा० दे० मो० नि० उ० अ० वि० श० जाग्रत्स्वप्नसुषुप्तिवर्णनं नाम पञ्चचत्वारिंशदधिकशततमः सर्गः ॥१४५॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP