संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८६ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥१॥श्रीवसिष्ठ उवाच ।बत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥२॥किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥३॥यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥४॥शिवं शान्तमजं मौनममौनमजरं ततम् ।सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥५॥यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥६॥परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तःस्थितो यतः ।परमाणुरेव ब्रह्माण्डमन्तःस्थितजगद्यतः ॥७॥तस्माच्चिदाकाशमनादिमध्य-मखण्डितं सौम्यमिदं समस्तम् ।निर्वाणमस्तंगतजातिबन्धोयथास्थितं तिष्ठ निरामयात्मा ॥८॥स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् ।स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ॥९॥यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।स्वरूपमजहच्छान्तं यत्र संपद्यते तथा ॥१०॥ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥११॥दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥१२॥यादृग्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्मयः ॥१३॥संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोभवत् ।जडीभूता तथैषास्ते संवित्स्थावरनामिका ॥१४॥स्थावरत्वाज्जडाच्चित्त्वं जङ्गमात्म प्रयाति चित् ।जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥१५॥आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥१६॥चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥१७॥चिता वेदनवेत्तारं स्थावरं क्रियते वपुः ।चिता वेदनवेत्तारं जङ्गमं क्रियते वपुः ॥१८॥यथा पुंसो नखाः पादावेकमेव शरीरकम् ।तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥१९॥आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥२०॥तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।न प्रथामागतं किंचिन्नासीदप्रथितं हितम् ॥२१॥अयमादिरयं चान्तः सर्गस्येत्यवभासते ।चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥२२॥स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥२३॥प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥२४॥कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥२५॥विभागहीनयाप्येष भागश्चिद्धननिद्रया ।सुषुप्तान्मुष्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥२६॥प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥२७॥चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।तदेव मुच्यते भूतं जीवो देवासुरादिदृक् ॥२८॥एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः ॥२९॥श्रीराम उवाच ।चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥३०॥श्रीवसिष्ठ उवाच ।विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥३१॥प्रमाणं तस्य चानन्तं विद्धि तद्यत्र रेणुताम् ।आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥३२॥यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।एतच्चित्तं भूतमेतदपर्यन्तामलाकृति ॥३३॥एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥३४॥चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥३५॥निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥३६॥अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥३७॥जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।सदेव च पुमांस्तस्मात्पुंसामन्तःस्थितं जगत् ॥३८॥यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥३९॥चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥४०॥यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥४१॥यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।स्फुरन्त्येवं विदोऽनन्याः पदार्थौघास्तथापरे ॥४२॥यथास्थितजगच्छालभञ्जिकाकाशरूपधृक् ।चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥४३॥यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥४४॥समता सत्यता सत्ता चैकता निर्विकारिता ।आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥४५॥स्वप्नसंकल्पसंसारवरशापदृशामिह ।सरोब्धिसरिदम्बूनामिवान्यत्वं न वाथवा ॥४६॥श्रीराम उवाच ।वरशापार्थसंवित्तौ कार्यकारणता कथम् ।उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥४७॥श्रीवसिष्ठ उवाच ।स्ववदातचिदाकाशकचनं जगदुच्यते ।स्फुरणे पयसामब्धावावर्तचलनं यथा ॥४८॥ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥४९॥कालेनाभ्यासयोगेन विचारेण समेन च ।जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥५०॥सम्यग्ज्ञानवतो ज्ञस्य यथा भूऽतार्थदर्शिनः ।बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥५१॥निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥५२॥सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥५३॥अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।यथा संकल्पनगरं यथा स्वप्नमहापुरम् ॥५४॥आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।यद्यथा संकल्पयति तथा भवति तस्य तत् ॥५५॥संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥५६॥स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥५७॥स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥५८॥अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥५९॥या यथा कलना रूढा तावत्साद्यापि संस्थिता ।न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥६०॥ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥६१॥श्रीराम उवाच ।अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।शापादीन्संप्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥६२॥श्रीवसिष्ठ उवाच ।संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।तत्तदेवानुभवति यस्मात्तत्रास्ति नेतरत् ॥६३॥ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥६४॥संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥६५॥निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥६६॥संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥६७॥तपस्विनोऽथ वादैश्च यद्ब्रूयुरविलम्बितम् ।यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥६८॥इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥६९॥चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥७०॥यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥७१॥शिलानृतं यथा सत्यं संकल्पनगरे तथा ।जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥७२॥चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥७३॥अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥७४॥सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥७५॥एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥७६॥वाय्वङ्गस्पन्दनवज्जलाङ्गद्रवभाववत् ।यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गं जगत् ॥७७॥ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥७८॥यथा प्रपाते पयसो विचित्राः कणपङ्कतयः ।विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥७९॥निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥८०॥ताभिः स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥८१॥तदेवं जगदित्यऽस्ति दुर्बोधेन मम त्विदम् ।अकारणकमद्वैतमजातं कर्म केवलम् ॥८२॥अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयते ।उपलादौ जडा सत्ता तादृशी परमात्मनः ॥८३॥यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥८४॥सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।एकस्यामेव निद्रायां सर्गासर्गौ तथा परे ॥८५॥यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥८६॥अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥८७॥व्योमोपलजलादीनां यथा देहानुभूतयः ।तथास्माकमचित्तानामद्य नानानुभूतयः ॥८८॥काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ॥८९॥आलोकरूपमननानुभवैषणेच्छा-मुक्तात्मनि स्फुरति वारिघने स्वभावात् ।आवर्तवीचिवलयादि यथा तथायंशान्ते परे स्फुरति संहृतिसर्गपूगः ॥९०॥इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० ब्रह्मगी० सर्वं खल्विदं ब्रह्मेति प्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः सर्गः ॥१८६॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP