संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ११२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ११२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।लोकहाराम्बरव्यालं चेदिचन्दनकाननम् ।छिन्नं परशुधाराभिः पतितं दक्षिणार्णवे ॥१॥पर्णवत्प्रोह्य पूरेण पारसीकाः परस्परम् ।प्रहरन्तो विमोहेन विनष्टा वंजुलावने ॥२॥दर्दुराद्रौ दुरन्तेषु दरदीर्णहृदन्तराः ।दरीरन्ध्रेषु संलीना दरदा दानवा इव ॥३॥चतुरायुधधाराग्रचूर्णनीहारधारिणः ।विद्युद्वलयिनो वाता वेल्लितायुधवारिदाः ॥४॥दन्तिनोऽन्योन्यमाभग्नदन्तदेहौघपीडिताः ।मृत्यूदरोम्भकग्रासपिण्डपिण्डा इवाभवन् ॥५॥तज्जा रैवतिका रात्रौ रौद्रतोमरताडिताः ।रूपिकाभिः पिशाचीभिर्भुक्ता भागीकृताङ्गकाः ॥६॥तालीतमालगहने दशार्णा जीर्णजङ्गले ।गले पादं निधायान्तः कृत्ताः सिंहैर्गतासवः ॥७॥पश्चिमार्णवतीरस्था नालिकेरधरावनौ ।यवना विगतप्राणा निगीर्णा मकरोत्करैः ॥८॥नाराचनिकरं नीलं निमेषं नासहञ्छकाः ।रमठा नलिनीषण्डा इव ताण्डवितासवः ॥९॥श्रवणाभोगशृङ्गाग्रो महेन्द्रोऽद्रिर्दिवि व्रजैः ।विद्रुतैर्वलितो नीलैर्जालैर्जलमुचामिव ॥१०॥चामीकरवराकारा भग्ना तङ्गणवाहिनी ।मृता हृताम्बरा चोरैर्भुक्तैकान्ते निशाचरैः ॥११॥द्यौरिवर्क्षभरैरासीत्तदासारं भुवस्तलम् ।विवर्तमानैरभितः कचद्भिर्ज्वलनायुधैः ॥१२॥धाराधरधरारन्ध्रप्रतिश्रुद्धनघुंघुमा ।जगद्गेहगुहासीद्द्यौर्घनं गातुमिवोद्यता ॥१३॥द्विपान्तरजनाश्चक्रैर्जर्जरा जीवितं जहुः ।मीनजङ्गलजम्बाले जीर्णमत्स्या इवाजले ॥१४॥यावद्द्वीपा जिताः कुक्षौ सह्याद्रौ सममूर्तयः ।आश्वस्य दिवसान्सप्त ययुरायासमन्थरम् ॥१५॥गन्धमादनपुन्नागवनकुञ्जेषु पुञ्जिताः ।विद्याधरकुमारीभिर्गान्धाराः परिरक्षिताः ॥१६॥हूणचीनकिरातानां मुक्तैस्तैश्चक्रवर्षणैः ।कमलानीव लूनानि शिरांस्यभिमुखानिलैः ॥१७॥निलीपा नलिनीनाले कण्टका इव निश्चलाः ।द्रुमे द्रुमे द्रुममया भयात्त्वस्यावसंश्चिरम् ॥१८॥चारुसारङ्गरङ्गासु शैलकाननभूमिषु ।चतुर्दिक्कं तदापातैः संपन्नं क्षोभणं घनम् ॥१९॥कण्टकस्थलनामानः कण्टकस्थलकर्कशाः ।कण्टकस्थलगा आसन्कण्टकस्थलमण्डले ॥२०॥पारसीकाः परं पूरैः पारं प्राप्य पयोनिधेः ।निपेतुः पवनैः पूताः प्रलये तारका इव ॥२१॥ववुरम्भोधिकुट्टाका दृषदां कटकाङ्किताः ।सर्वदिग्वनलुण्टाका वाताः प्रलयशङ्किताः ॥२२॥आसारसाराः पङ्काम्बुप्लुताः सघनघुंघुमाः ।आसन्दशदिशोऽदृश्या बहुक्षुब्धायुधानिलैः ॥२३॥निर्ह्रादकारिभिर्वातैर्वहच्छपछपारवम् ।प्रसस्रुर्भुवि नीहारा महार्णवरया इव ॥२४॥विदूरस्था रथेभ्यश्च वीचिचीत्कारकारिणः ।सरोम्भस्यनिलैः पेतुः पद्मेभ्य इव षट्पदाः ॥२६॥आयुधौघेऽपि चक्रौघात्पादातं वलमाविलम् ।रजोराशिरिवासारे न समर्थं पलायने ॥२६॥हूणा आमस्तकं मग्ना उत्तरार्णवसैकते ।क्लिन्नास्तत्रैव पङ्कान्तः पूरणाविलशूलवत् ॥२७॥तीरैलावनलेखासु शकाः पूर्वपयोनिधेः ।नीता बद्ध्वा दिनं मुक्ता न गता यमसादनम् ॥२८॥मन्दं मन्द्रा महेन्द्राद्रौ क्रन्दन्तः पतिता दिवः ।आश्वासिता मुनिवरैर्निजाश्रममृगा इव ॥२९॥प्रविष्टा याचनं सह्ये लब्धाः सुरविलाद्द्वयम् ।अनर्थेनाऽर्थ आयाति काकतालीयतः क्वचित् ॥३०॥पतिता दर्दुरारण्ये दशार्णा जीर्णपर्णवत् ।भुक्त्वा विषफलान्यज्ञा मृतास्तत्रैव ते स्वयम् ॥३१॥विशल्यकरणीं भुक्त्वा काकतालीययोगतः ।हिमाद्रौ हैहया याता गृहं विद्याधरा इव ॥३२॥पृष्ठनृम्लानकुसुमा धनुर्भिर्गृहमागताः ।वङ्गा नाद्यापि दृश्यन्ते पिशाचत्वमिवागताः ॥३३॥अङ्गा वनफलैर्भुक्तैर्विद्याधरपदप्रदैः ।विद्याधरीभिः क्रीडन्ति दिवि विद्याधराः स्थिताः ॥३४॥तालीतमालखण्डेषु पतिताः पातिताङ्गकाः ।पारसीका गता मोहं भ्रमाद्वैमानिका इव ॥३५॥तरलासारमातङ्गं पतितं तङ्गणाङ्गणे ।अङ्गैरंग कलिङ्गानां चतुरङ्गं वलं हतम् ॥३६॥क्रमत्यरिबले साल्वाः शरशैलोदकोदरे ।पतिताः प्रभुणा सार्धमद्याप्येवोपलाः स्थिताः॥३७॥असंख्याः प्रपलायन्तः ककुभं ककुभं प्रति ।नराः सरत्तरङ्गेषु सागरेषु लयं गताः ॥३८॥क्षेत्राटवीपुरजलस्थलशैलकूल-कुल्याग्रहारसरिदब्धिभृगुद्रुमेषु ।ग्रामारपट्टिगिरिकूपगुहागृहेषुभ्रष्टानि कःकलयितुं कुबलानि शक्तः ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो नाम द्वादशाधिकशततमः सर्गः ॥११२॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP