संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अद्वैतैक्यं विमननं शान्तमात्मन्यवस्थितम् ।यथा पङ्कमयं सैन्यं तथा शिवमयं जगत् ॥१॥मनोहंकारबुद्ध्यादिचित्तमेव च तन्मयम् ।कालाकारक्रियाशब्दशक्तिसंदर्भसंयुतम् ॥२॥शिवपङ्कमया एव रूपालोकमनःक्रमाः ।तन्मयत्वादनन्तत्वादतः किं केन चेत्यते ॥३॥मातृमेयप्रमाणादिदेशकालौ दिगादि च ।भावाभावविवर्तादिशिवपङ्कमयात्मकम् ॥४॥अहंममेत्यतः सारान्नेतरत्परमेश्वरात् ।असंसक्तमतिस्तिष्ठ हा शिलोदरमौनवत् ॥५॥श्रीराम उवाच ।अहंममेत्यसद्रूपं ज्ञस्याभावयतः प्रभो ।अशुभं कर्मणां त्यागादनुष्ठानाच्च किं शुभम् ॥६॥श्रीवसिष्ठ उवाच ।पृच्छामि यदहं तत्त्वं कथयाशु ममानघ ।यदि जानासि तत्त्वेन कर्म तावत्किमुच्यते ॥७॥विस्तारः कर्मणः कीदृङ् मूलं तस्य च किं भवेत् ।नाशनीयं च निपुणं कथं कथय नाश्यते ॥८॥श्रीराम उवाच ।यन्नाशनीयं निपुणं तन्नूनं च विनाश्यते ।मूलकाषेण भगवन्न शाखादिविकर्तनैः ॥९॥शुभाशुभं नाशनीयं स्वकर्म खलु धीमता ।मूलकाषविनाशेन तच्च नष्टं भवत्यलम् ॥१०॥कर्मवृक्षस्य वक्ष्यामि ब्रह्मन्मूलानि मे श्रृणु ।यन्निकाषेण निर्मूलो न स भूयः प्ररोहति ॥११॥देहस्तावदयं ब्रह्मन्कर्मवृक्षः समुत्थितः ।रूढः संसारविपिने विचित्राङ्गलताञ्चितः ॥१२॥कर्मबीजं तरोरस्य सुखदुःखफलावलेः ।क्षणतारुण्यकान्तस्य जराकुसुमहासिनः ॥१३॥मुहूर्तं प्रति कालोग्रमर्कटध्वंसिताकृतेः ।निद्राहेमन्तजठरलीनस्वप्नदलोद्गतेः ॥१४॥स्ववार्धकशरच्छान्तशीर्णेहापर्णसंततेः ।जगज्जंगलजातस्य कलत्रोपतृणावलेः ॥१५॥पल्लवावयवा हस्तपादपृष्ठादयोऽरुणाः ।पत्राणि तनुवृत्तानि सुरेखाणि चलानि च ॥१६॥अरुणाः पवनालोला मृद्व्यो मसृणमूर्तयः ।स्नाय्वस्थिदिग्धसरसा अङ्गुल्यो बालपल्लवाः ॥१७॥मृद्व्यो मसृणतीक्ष्णाग्रा वृत्ता रूढाः पुनःपुनः ।द्वितीयेन्दुकलाकाराः कलिका नखपङ्क्तयः ॥१८॥कर्मणः परिफुल्लस्य देहरूपतयेति हि ।कर्मेन्द्रियाणि मूलानि दुष्टानि ग्रन्थिमन्ति च ॥१९॥स्थिरास्थिग्रन्थिनद्धानि पङ्कमग्नात्मकानि च ।वासनारसपीतानि निजरक्तरसानि च ॥२०॥गुल्फवन्ति दृढाङ्गानि सुत्वञ्चि मसृणानि च ।तेषामपि च मूलानि विद्धि बुद्धीन्द्रियाणि हि ॥२१॥सुदूरमपि जातानि पञ्चस्तम्बानि तानि तु ।वासनापङ्कमग्नानि रसवन्ति महान्ति च ॥२२॥तेषां मूलं बृहत्स्तम्भं मनो व्याप्तजगत्त्रयम् ।पञ्चस्रोतःशिराकृष्टमुक्तानन्तरसद्रवम् ॥२३॥तस्य मूलं विदुर्जीवं चेत्योन्मुखचिदात्मकम् ।चेत्यस्य चेतनं मूलं सर्वमूलैककारणम् ॥२४॥चितेस्तु ब्रह्म मूलं यत्तस्य मूलं न विद्यते ।अनाख्यत्वादनन्तत्वाच्छुद्धत्वात्सत्यरूपिणः ॥२५॥सर्वेषां कर्मणामेवं वेदनं बीजमुत्तमम् ।स्वरूपं चेतयित्वान्तस्ततः स्पन्दः प्रवर्तते ॥२६॥मुने चेतनमेवाद्यं कर्मणां बीजमुच्यते ।तस्मिन्सति महाशाखो जायते देहशाल्मलिः ॥२७॥एतच्चेतनशब्दार्थभावनावलितं यदि ।तत्कर्म बीजतामेति नो चेत्सत्परमं पदम् ॥२८॥चितिश्चेतनशब्दार्थभावनावलिता यदि ।तत्कर्म बीजतामेति नो चेदाद्यं परं पदम् ॥२९॥तस्माद्वेदनमेवेह कर्म कारणमाकृतेः ।यदेतत्कर्मणां प्रोक्तं त्वयैवोक्तं मुनीश्वर ॥३०॥श्रीवसिष्ठ उवाच ।अस्य राघव सूक्ष्मस्य कर्मणो वेदनात्मनः ।कस्त्यागः किमनुष्ठानं यावद्देहमिति स्थितम् ॥३१॥यच्चेत्यते नु तेनाशु बहिरन्तश्च भूयते ।सत्याकारमसत्यं वा भवत्वाहितविभ्रमम् ॥३२॥न चेत्यते चेत्तदलं भ्रमादस्माद्विमुच्यते ।भ्रमः सत्योऽस्त्वसत्यो वा किं विचारणयानया ॥३३॥एतच्चेतनमेवान्तर्विकसत्युद्भवभ्रमैः ।वासनेच्छामनःकर्मसंकल्पाद्यभिधात्मभिः ॥३४॥प्रबुद्धस्याप्रबुद्धस्य देहिनो देहगेहके ।आदेहं विद्यते चित्तं त्यागस्तस्य न विद्यते ॥३५॥जीवतां तस्य संत्यागः कथं नामोपपद्यते ।केवलं कर्मशब्दार्थभावनाभावने सति ॥३६॥कर्माकर्मत्वमुत्सृज्य स्वयमेव भवत्यजम् ।असंभवति संत्यागे कर्मणो यः करोति हि ॥३७॥इदं कर्तव्यतात्यागं न किंचित्तेन तत्कृतम् ।बोधादिदंतासंवित्तेः स्वयं विलयनात्तु यत् ॥३८॥जगतस्तं विदुस्त्यागमसङ्गं मोक्षमेव च ।वेदनं सति संवेद्ये सर्गादावेव वेद्यदृक् ॥३९॥नोत्पन्ना विद्यते नैव तस्मात्किं क्वेव वेदनम् ।वेद्योन्मुखत्वं संत्यज्य रूपं यद्वेदनस्य वै ॥४०॥न वेदनं तन्नो कर्म तच्छान्तं ब्रह्म कथ्यते ।चेतनं प्रोच्यते कर्म संसृत्याभ्रविकासितम् ॥४१॥अचेतनं विदुर्मोक्षं ज्ञं प्रत्येवोपदेशगीः ।त्यागो हि कर्मणां तस्मादादेहं नोपपद्यते ॥४२॥यैस्तु संपूज्यते कर्म तन्मूलं तैर्न मुच्यते ।मूलं स्वकर्मणः संविन्मनसो वासनात्मनः ॥४३॥सा चादेहं समुच्छेत्तुमृते बोधान्न शक्यते ।राम केवलमेषान्तः कर्ममूलकरा परा ॥४४॥सूक्ष्मसंविदसंवित्त्या स्वयत्नेन निकृन्त्यते ।येन संविदसंवित्त्या स्वयत्नेन विचार्यते ॥४५॥तेन संसृतिवृक्षस्य मूलकाषो वितन्यते ॥४६॥अचेतनाकाशमनन्यदेकंतदेवमस्ति त्विदमर्थहीनम् ।तद्व्योमरूपं यत एतदेवंनिरामयं चेतनसारमाहुः ॥४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उत्तरार्धे कर्मबीजदाहयोगोपदेशो नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP