संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।रूढे संसारनिर्वेदे स्थिते साधुसमागमे ।शास्त्रार्थे भाविते बुद्ध्या भोगवैतृष्ण्य आगते ॥१॥जाते विषयवैरस्ये सज्जनत्वे तथोदिते ।प्रकाशे सोन्मुखीभूते हृदये कलितोदये ॥२॥धनानि नाभिवाञ्छयन्ते तमांसीव विवेकिना ।त्यज्यन्ते विद्यमानानि संशुष्कामेध्यपर्णवत् ॥३॥भाराय पान्थदृष्ट्येव दृश्यन्ते दारबन्धवः ।यथाशक्ति यथाकालमुपचर्यन्त एव च ॥४॥इन्द्रियेष्वपि संलग्ना इन्द्रियार्थाः पुनःपुनः ।न भोगा अनुभूयन्ते नूनं शान्तमनस्तया ॥५॥एकान्तेषु दिगन्तेषु सरःसु विपिनेषु च ।उद्याने पुण्यदेशेषु निजेष्वेव गृहेषु वा ॥६॥सुहृत्केलिविलासेषु शुभोद्यानाशनादिषु ।शास्त्रतर्कविचारेषु न तथा स्थीयते चिरम् ॥७॥उपशान्तेन दान्तेन स्वात्मारामेण मौनिना ।ज्ञातैवान्विष्यते ज्ञेन विज्ञानैकान्तवादिना ॥८॥एवमभ्यासवशतः परे विश्रम्यते पदे ।निम्नेवाम्भसि शान्तेन स्वयमेव विवेकिना ॥९॥सबाह्याभ्यन्तरं शान्ता ज्ञतैवार्थतयोदिता ।न संभवति भिन्नोऽर्थ इत्येव परमं पदम् ॥१०॥नार्थोपलब्धिर्नो शून्यमस्ति बोधात्मतां विना ।इत्यन्तरनुभूतिस्थमाहुस्तत्परमं पदम् ॥११॥एकबोधातिसंबन्धपरिणामान्न बोधता ।न शून्यता नार्थतेति विद्धि तत्परमं पदम् ॥१२॥स्वसंविन्मात्रविश्रामवताममनसां सताम् ।न स्वदन्ते हि विषयाः पयांसि दृषदामिव ॥१३॥निरोधपदमापन्नो निर्मना मौनमन्थरः ।स्वभावे स्थित एवास्ते चित्रे कृत इवात्मवान् ॥१४॥सर्वार्थमर्थरहितं महदेव पराणुवत् ।अशून्यमेव शून्यात्म हृदयं वेद्यवेदिनः ॥१५॥अहंत्वं जगदीहादि दिक्कालकलनादि च ।ज्ञस्य ज्ञानादि शून्यादि स्थितमेव न विद्यते ॥१६॥ज्ञेनामलपदस्थेन दीपेनेव निरस्यते ।तमो हार्दं तथा बाह्यं रागद्वेषभयादि च ॥१७॥रजोरहितसर्वाशं सत्त्वात्पारमुपागतम् ।असंभवत्तमोरूपं प्रणमेत्तं नृभास्करम् ॥१८॥भेदप्रविलये जाते चित्ते चादृश्यतां गते ।या स्थितिः प्राप्तबोधस्य न वाग्गोचरमेति सा ॥१९॥ददात्येतन्महाबुद्धे निर्वाणं परमेश्वरः ।अहर्निशं परमया चिरं भक्त्या प्रसादितः ॥२०॥श्रीराम उवाच ।ईश्वरः को मुनिश्रेष्ठ कथं भक्त्या प्रसाद्यतेएतन्मे तत्त्वतो ब्रूहि सर्वतत्त्वविदां वर ॥२१॥श्रीवसिष्ठ उवाच ।ईश्वरो न महाबुद्धे दूरे न च सुदुर्लभः ।महाबोधमयैकात्मा स्वात्मैव परमेश्वरः ॥२२॥तस्मै सर्वं ततः सर्वं स सर्वं सर्वतश्च सः ।सोऽन्तः सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥२३॥तस्मादिमाः प्रसूयन्ते सर्गप्रलयविक्रियाः ।अकारणं कारणतो गतयः पवनादिव ॥२४॥अनिशं पूजयन्त्येताः सर्वाः स्थावरजङ्गमाः ।यथाभिमतदानेन सर्वे ते भूतजातयः ॥२५॥सुबहून्येष जन्मानि यथाभिमतयेच्छया ।यदा संपूजितस्तेन प्रसादमधिगच्छति ॥२६॥प्रसन्नः स महादेवः स्वयमात्मा महेश्वरः ।बोधाय प्रेरयत्याशु दूतं पूतं शुभेहितैः ॥२७॥श्रीराम उवाच ।आत्मना परमेशेन को दूतः प्रेर्यते मुने ।स दूतो बोधनं वापि करोति वद मे कथम् ॥२८॥श्रीवसिष्ठ उवाच ।आत्मसंप्रेरितो दूतो विवेको नाम नामतः ।हृद्गुहायां सदानन्दस्तिष्ठतीन्दुरिवाम्बरे ॥२९॥स एष वासनात्मानं जन्तुं बोधयति क्रमात् ।संसारसागरादस्मात्तारयत्यविवेकिनम् ॥३०॥बोधात्मैषोऽन्तरात्मैव परमः परमेश्वरः ।अस्यैव वाचको नाम प्रणवो वेदसंमतः ॥३१॥जपहोमतपोदानपाठयज्ञक्रियाक्रमैः ।एष प्रसाद्यते नित्यं नरनागसुरासुरैः ॥३२॥द्यौर्मूर्धा पृथिवी पादौ तारका रोमराजयः ।भूतान्यस्थीनि हृदयं व्योमास्य परमेश्वरः ॥३३॥सर्वत्रैष चिदात्मत्वाद्याति जागर्ति पश्यति ।तेनैष सर्वतोलक्ष्यकरकर्णाक्षिपादभृत् ॥३४॥विवेकदूतमुद्बोध्य हत्वा चित्तपिशाचकम् ।आत्मनः पदवीं स्फारां जीवः कामपि नीयते ॥३५॥त्यक्त्वा सर्वविकल्पौघान्विकारानर्थसंकरान् ।पौरुषेणात्मनैवात्मा स्वयमेव प्रसाद्यताम् ॥३६॥भ्रमन्मनःपिशाचेऽस्मिन्कल्लोलजलदाकुले ।संसाररात्रितिमिरे स्वात्मैवापूर्णचन्द्रमाः ॥३७॥अगाधमरणावर्तकल्लोलाकुलकोटरे ।तृष्णातरङ्गतरले स्वमनश्चण्डमारुते ॥३८॥महाजडलवाधारे संसारविषमार्णवे ।इन्द्रियग्रामगहने विवेकः पोतको महान् ॥३९॥पूर्वं यथाभिमतपूजनसुप्रसन्नोदत्वा विवेकमिह पावनदूतमात्मा ।जीवं पदं नयति निर्मलमेकमाद्यंसत्सङ्गशास्त्रपरमार्थपरावबोधैः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० विवेकमाहात्म्यं नामाष्टचत्वारिंशः सर्गः ॥४८॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP