संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६२ Translation - भाषांतर श्रीराम उवाच ।यदेतद्भवता दृष्टं चिद्व्योमवपुषा तदा ।तदेकदेशसंस्थेन किमुत भ्रमताम्बरे ॥१॥श्रीवसिष्ठ उवाच ।संघशोऽहमनन्तात्मा व्यापी व्योम तदा किल ।स्यातां तस्यामवस्थायां कीदृशी तौ गमागमौ ॥२॥नैकस्थानस्थितमयो नाहं गतिमयोऽभवम् ।तदनेन स्व एवास्मिन्दृष्टमेतन्मयात्मनि ॥३॥यथाङ्गानि शरीरत्वे पश्याम्यापादमस्तकम् ।चिन्नेत्रेणाप्यनेत्रेण तथैतद्दृष्टवानहम् ॥४॥अनाकृतेर्निरवयवस्थितेस्तदातथाऽभवाद्विमलचिदम्बरात्मनः ।जगन्ति तान्यवयवजालकानि मेयथा स्वतो न विगलिता न वस्तुता ॥५॥प्रमाणमत्र ते स्वप्नदृष्टोऽभुवनविभ्रमः ।स्वप्नेऽनुभूयते दृश्यं न च किंचित्खमेव तत् ॥६॥यथा पश्यति वृक्षः स्वं पत्रपुष्पफलादिकम् ।स्वसंवेदननेत्रेण तथैतद्दृष्टवानहम् ॥७॥यथाम्बुधिरनन्तात्मा वेत्ति सर्वान् जलेचरान् ।तरङ्गावर्तफेनांश्च तथैतद्बुद्धवानहम् ॥८॥अवयवान्स्वानवयवी यथा वेत्ति निजात्मनि ।अनन्यानात्मनः सर्गांस्तथैतान्बुद्धवानहम् ॥९॥अद्यापि तानहं देहे व्योम्नि शैले जले स्थले ।तथैव सर्गान्पश्यामि राम बोधैकतां गतः ॥१०॥पुरोऽस्माकमिदं विश्वं गृहस्यान्तर्बहिस्तथा ।पूर्णमेतज्जगद्वृन्दैर्वेद्मि बोधैकतां गतः ॥११॥यथाम्भो रसतां वेत्ति शैत्यं वेत्ति यथा हिमम् ।स्पन्दं वेत्ति यथा वायुस्तथैतद्वेत्ति शुद्धधीः ॥१२॥यो यो नाम विवेकात्मा शुद्धबोधैकतां गतः ।सम एव मयैकात्मा वेद्मि स्वात्मानमीदृशम् ॥१३॥अस्या दृष्टेः परिणतेर्वेत्तृवेदनवेद्यधीः ।न काचिदस्त्यभ्युदिता विज्ञानात्मैकता यतः ॥१४॥दिव्या दृगद्रिसंस्थस्य तथा योजनकोटिगान् ।भावान्वेत्ति बहिश्चान्तरेवं तद्बुद्धवानहम् ॥१५॥यथा भूमण्डलं भावान्निधिधातुरसादिकान् ।वेत्त्येवं तन्मया बुद्धमनन्यदृश्यमात्मनः ॥१६॥श्रीराम उवाच ।ब्रह्मन्ननुभवत्येवं त्वयि तामरसेक्षण ।सा किं कृतवती ब्रूहि कान्ताऽर्यापाठपाठिनी ॥१७॥वसिष्ठ उवाच ।तामेवार्यां पठन्ती सा तथैवानुनयान्विता ।मत्समीपे नभोदेहा व्योम्नि देवीव संस्थिता ॥१८॥यथाहमाकाशवपुस्तथैवासौ खरूपिणी ।तेन दृष्टा न सा पूर्वं देहेन ललना मया ॥१९॥अहमाकाशमात्रात्मा सा खमात्रशरीरिणी ।जगज्जालं खमात्रं तदिति तत्र तदा स्थितम् ॥२०॥श्रीराम उवाच ।शरीरस्थानकरणप्रयत्नप्राणसंभवैः ।यदुदेति वचो वर्णैस्तत्कुतस्तादृशाकृतेः ॥२१॥रूपालोकमनस्कारः कुतो नामात्मनामिति ।ब्रूहि मे भगवंस्तत्त्वं यथावृत्तश्च निश्चयम् ॥२२॥श्रीवसिष्ठ उवाच ।रूपालोकमनस्काराः शब्दपाठवचांसि च ।यथा स्वप्ने नभस्येव सन्ति तत्र तथाम्बरे ॥२३॥रूपालोकमनस्कारैः स्वप्ने चिन्नभ एव ते ।यथोदेति तथा तत्र तद्दृश्यं खात्मकं स्थितम् ॥२४॥न केवलं तु तद्दृश्यं यावत्तु विषये वयम् ।जगच्चेदं खमेवाच्छं यथा तन्नस्तथाखिलम् ॥२५॥परमार्थमहाधातुर्वेद्यनिर्मुक्तचिद्वपुः ।एवं नाम स्वयं भाति स्वभावस्येव निश्चयः ॥२६॥शरीरस्थानकरणसत्तायां का तव प्रमा ।यथैव तेषां देहादि तथास्माकमिदं स्थितम् ॥२७॥यथैव तत्तथैवेदं तथैवेदं यथैव तत् ।असत्सत्तामिव गते सच्चासदिव च स्थितम् ॥२८॥यथा स्वप्ने धराध्वादिपृष्ठव्यवहृतिर्नभः ।तदा ह्यहं च त्वं सा च तदिदं च तथा नभः ॥२९॥यथा स्वप्ने नृभिर्युद्धकोलाहलगमागमाः ।असन्तोऽप्यनुभूयन्ते संसारनिकरास्तथा ॥३०॥ वक्षि चेत्स्वप्नदृश्यश्रीः कस्मात्तदसमञ्जसम् ।अवाच्यमेतद्धेतुर्हि नान्योऽस्त्यनुभवस्थितेः ॥३१॥कथमालक्ष्यते स्वप्न इति प्रष्टुः प्रकथ्यते ।यथैवं पश्यसीत्येव हेतुरत्रास्ति नेतरः ॥३२॥स्वप्नजन्तुरिव व्योम्नि भाति प्रथमसर्गतः ।प्रभृत्येव विराडात्मा खे खमेव परस्परे ॥३३॥स्वप्नशब्देन बोधार्थं तव व्यवहराम्यहम् ।दृश्यं त्विदं न सन्नासन्न स्वप्नो ब्रह्म केवलम् ॥३४॥अथ राघव सा कान्ता मया कान्तानुषङ्गिणी ।संविदं तन्मयीं कृत्वा पृष्टेदं दृश्यरूपिणी ॥३५॥व्यवहारो यथोदेति स्वप्ने स्वप्नजनैः सह ।तथा तदा तया सार्धं व्यवहारो ममोदितः ॥३६॥यथैव स्वप्नसंकाशो व्यवहारः खमेव सः ।तथैव त्वमिमं विद्धि मामात्मानं जगच्च खम् ॥३७॥यथा स्वप्नजगद्रूपं खमेवैवमिदं जगत् ।जाग्रदादौ स हि स्वप्नः सर्गादौ जगदुद्भवः ॥३८॥स्वप्नोऽयं जगदाभोगो न किंचिद्वा खमेव च ।निर्मलं ज्ञप्तितामात्रमित्थं सन्मात्रसंस्थितम् ॥३९॥स्वप्नस्य विद्यते द्रष्टा साकारो युष्मदादिकः ।द्रष्टा तु सर्गस्वप्नस्य चिद्व्योमैवामलं स्वतः ॥४०॥यथा द्रष्टामलं व्योम दृश्यं तद्वद्गतं तथा ।स्वप्नरूपजगत्युच्चैर्जगत्त्वेनामलं नभः ॥४१॥चिद्व्योम्नोऽनाकृतेः स्वप्नो हृदि स्फुरति यः स्वतः ।सर्गस्तस्य कुतस्तेन साकृतित्वं कथं भवेत् ॥४२॥साकारस्यैव यत्स्वप्नजगत्तद्व्योम निर्मलम् ।निराकारस्य चिद्व्योम्नः सर्गः स्वप्नः कथं न खम् ॥४३॥निरुपादानसंभारमभित्तावेव चिन्नभः ।पश्यत्यकृतमेवेमं जगत्स्वप्नं कृतं यथा ॥४४॥मृद्व्या चिदाकाशमृदा ब्रह्मणा ब्राह्मणेन खे ।कृतोऽपि न कृतः सर्गमण्डपोऽक्षगवाक्षकः ॥४५॥नो कर्तृता न च जगन्ति न भोक्तृतास्तिनास्तीति नास्ति न च किंचिदतो बुधः सन् ।पाषाणमौनमवलम्ब्य यथाप्रवाहमाचारमाचर शरीरमिहास्तु मा वा ओ ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त० पाषा० चिदैक्यं नाम द्विषष्टितमः सर्गः ॥६२॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP