संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथदीपपतनशांति:

व्रतोदयान - अथदीपपतनशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यजमान:आचम्यप्राणानायम्यतिथ्यादिस्मृत्वाममगृहेप्रज्वलद्दीपपतनाध्यनेकाद्भु
तसूचितसर्वरिष्टनिरसनेन आयुरारोग्यश्रियोभिवृध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थं दीपपतना
द्भुतशांतिकरिष्ये ॥
तत्रादौनिर्विघ्नतासिध्यर्थंमहागणपतिपूजनं आचार्यवरणंचकरिष्ये ॥ (अत्रग्रहयज्ञआचार्यव
रणंचकृताकृतं) ॥
ततआचार्योस्मिन्नद्भुतशांतिकर्मणिआचार्यकर्मकरिष्येइतिसंकल्प्यसर्षपविकिरणादिपंचगव्यशुध्दोदकप्रोक्षणांतेदीपपतनस्थलेघृतेनपयसाचाभ्युक्ष्यलाजै:सर्षपैश्चावकीर्यपुन:पंचगव्य
शुध्दोदकाभ्यामभ्युक्ष्याग्निप्रतिष्ठांतंकुर्यात् ॥
ततोग्ने:पूर्वतस्तंदुलपुंजेष्वष्टदलंमंडलंविधायतत्रपूर्वादिदलेषुइंद्रादीनावाह्यमध्येविधिवत्स्था
पितकुंभोपरिहैमींराजतींवावैश्रवणप्रतिमांपृथक् पंचामृतस्त्रापितांवस्त्रयुगसंवेष्टितां ॐ अभित्यंदेवं० इतिस्थापयित्वातस्मात्पूर्वादिदिक्षुयक्षाधिपतिं सर्वोत्पातशमनं हिरण्यपाणिंई
श्वरंच आवाह्यतंत्रेणपूजयेत् ॥
ग्रहपक्षेग्रहानावाह्यवैश्रवणपूजनं ॥ ततोग्ने:पश्चादुपविश्यान्वाधानंकुर्यात् ॥ अस्मिन्न
न्वाहितेग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा सग्रहपक्षेग्रहानमुकसंख्ययासमित्तिलाज्यद्र
व्यै: वैश्रवणंतिलाज्यद्रव्याभ्यांप्रतिद्रव्यमष्टोत्तरशतसंख्यया यक्षाधिपतिं सर्वोत्पातशमनं
हिरण्यपाणिं ईश्वरंचतैरेवद्रव्यै: २८ तत्तन्नाममंत्रैर्यक्ष्ये शेषेणेत्याध्यन्वाधानपरिसमूहना
ज्यभागहोमांतंकृत्वोक्तदेवताभ्य:क्रमेणयथोक्तद्रव्याणिजुहुयात् ॥
तत:स्विष्टकृदादिहोमशेषंसमाप्य इंद्रादिदिक्पतिबलिदानांतेवैश्रवनायसदीपबलिंदत्त्वा द्वार
देवताभ्य:सदीपपायसबलिंदध्यात् ॥
तत:क्षेत्रपालबलिंदत्त्वापूर्णाहुतिंहुत्वापूर्णमसीतिमार्जनांतेआचार्यादीन्संपूज्य आचार्यायगांद
त्त्वार्चितदेवता:संपूज्यआचार्यायमंडलमूर्तिदानंकुर्यात् ॥
ऋत्विग्भ्योयथाशक्तिदक्षिणांदत्त्वाअग्निंसंपूज्यविभूतिंधृत्वाग्निमुपतिष्ठेत् ॥ तत:कलशो
दकेनाभिषिक्तोयजमान:ब्राह्मणान्संभोज्यआशिषोगृहीत्वायस्यस्मृत्येतिकर्मेश्वरार्पणंकृत्वा
सुह्यध्युक्तोभुंजीत ॥ इतिदीपपतनशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP