संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथशुक्लैकादशीव्रतोध्यापनम् व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथशुक्लैकादशीव्रतोध्यापनम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथशुक्लैकादशीव्रतोध्यापनम् Translation - भाषांतर श्रीगणेशायनम: ॥ देशकालौसंकीर्त्यममअखिलपापक्षयपूर्वकंधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिध्दिद्वाराश्रीपरमे० अमुककामनयावामयाचरितशुक्लैकादशीव्रतोध्यापनंकरिष्ये ॥तदंगविहितंगणेशपूजनाध्याचार्यवरणांतंकृत्वाआचार्य:पूर्वोक्तप्रकारेणसर्वतोभद्रेब्रह्मादिदेवताआवाह्यसंपूज्यतदुपरिअक्षतपुंजेकलशंमहीध्यौरित्यादिविधिनासंस्थाप्यतत्रकेशवादिद्वादशनामांकितंअक्षतपूर्णंताम्रमयंतंडुलपूर्णंपूर्णपात्रंनिधायतत्रअष्टदलपद्मेदेवताआवाहयेत् ॥प्रणवस्यब्रह्मऋषि: परमात्मादेवता दैवीगायत्रीछंद: व्याहृतीनांक्रमेणजमदग्निभरद्वाजभृगवऋषय: अग्निवायुसूर्यादेवता: दैवीगायत्रीदैव्युष्णिग् दैवीबृहत्यश्छंदांसि पुरुषावाहनेविनियोग: ॥ तत्रकर्णिकायाम् ॐ भू:पुरुषंआवाहयामि ॥ ॐ भुव;पुरुषंआ० ॥ ॐ स्व:पुरुषंआ० ॥ ॐ भूर्भव:स्व:पुरुषंआवाहयामि ॥ तत:सुवर्णप्रतिमायां सहस्त्रशीर्षानारायण:पुरुषोऽनुष्टुप् ॥ पुरुषावाहने० ॥ ॐ सहस्त्रशीर्षा० ऋक् १ ॥लक्ष्मीयुतंपुरुषंमध्येआवाहयामिस्थापयामिपूजयामिनम: ॥ परित: अग्निं इंद्रं प्रजापतिं विश्वान्देवान् ब्रह्माणं वसुदेवं रामं श्रियंचनाममंत्रेणावाह्यतत: पूर्वदक्षिणपश्चिमोत्तरदलाभ्यंतरेषु स्त्रिचतु:सहस्त्रसहितांरुक्मिणीं १ स्त्रीचतु:सहस्त्रसहितांसत्यभामां २ स्त्रीचतु:सहस्त्रसहितांजांबवतीं ३ स्त्रीचतु:सहस्त्रसहितांकालिंदीं ४ चावाह्य ॥ ततआग्नेयादिकोणेषु ॥ शंखं चक्रं गदां पद्मं आवाह्य पुरत: सामध्वनिशरीरस्त्वंवाहनंपरमेष्ठिन: ॥ विषपापहरोनित्यमत:शांतिंप्रयच्छमे ॥ इतिगरुडंआवाह्य ॥ परित: पूर्वादिक्रमेण इंद्राध्यष्टौलोकपालान् तत्तन्मंत्रैर्नाममंत्रैर्वाऽऽवाह्य ॐ तदस्तुमित्रा० ॐ गृहावै० इतिप्रतिष्ठाप्यपूर्वोक्तप्रकारेणपूजयेत् ॥ पुष्पानंतरंअंगपूजांकुर्यात् ॥ दामोदरायनम: पादौपूजयामि माधवाय० जानुनीपू० कामपतये० गुह्यंपू० वामनाय० कटीपू० पद्मनाभाय० नाभिंपू० विश्वमूर्तये० उदरंपू० ज्ञानगम्याय० हृदयंपू० श्रीकंठाय० कंठंपू० सहस्त्रबाहवे० बाहूपू० योगिने० चक्षुषीपू० उरगाय० ललाटं० नाकसुरेश्वराय० नासांपू० श्रवणेशाय० श्रवणेपू० सर्वकामदाय० शिखांपू० सहस्त्रशीर्ष्णे० शिर:पू० सर्वरुपिणे० सर्वांगपूजयामि ॥ धूपं० दीपं० ॥नमस्कारोत्तरंविशेषार्ध्यदध्यात् ॥ नारायणजगन्नाथलक्ष्मीकांतदयानिधे ॥ गृहाणार्घ्यंमयादत्तंव्रतसंपूर्तिहेतवेइति ॥ तत:परेऽहनिप्रातराचार्यआवाहितदेवता:संपूज्यकर्मसंकल्प्याऽन्वादध्यात् ॥ चक्षुषीआज्येनेत्यंतेऽत्रप्रधानं पुरुषंपुरुषसूक्तेनप्रत्यृचमाज्येन अग्निंइंद्रंप्रजापतिंविश्वान्देवान् ब्रह्माणंचाज्येनप्रत्येकमेकैकयाहुत्या वसुदेवंरामंश्रियंविष्णुंचनाममंत्रेणघृताक्तपायसद्रव्येणएकवारं पुन:विष्णुंघृताक्तपायसद्रव्येणषड्वारं अग्निंवायुंसूर्यप्रजापतिंचप्रत्येककमेकवारंघृताक्तपायसद्रव्येण केशवादिदामोदरांताद्वादशदेवता:नाममंत्रै: पायसद्रव्येणप्रत्येकमेकैकयाहुत्या स्त्रीचतु:सहस्त्रसहितांरुक्मिणीं स्त्रीचतु:सहस्त्रसहितांसत्यभामां स्त्रीचतु:सहस्त्रसहितांजांबवतीं स्त्रीचतु:सहस्त्रसहितांकालिंदीं शंखंचक्रंगदांपद्मंगरुडंइंद्राध्यष्टौलोकपालान् ब्रह्मादिमंडलदेवताश्चएकैकयाज्याहुत्यायक्ष्ये ॥ शेषेणस्विष्टकृतमित्यादिआज्यभागांतंकृत्वाप्रधानदेवताहोमयेत् ॥ ॐ सहस्त्रशीर्षा० ऋक् १६ ॥ अथाज्येन अग्नये० इंद्राय० प्रजापतये० विश्वेभ्योदेवेभ्य:० ब्रह्मणे० इत्याज्येन ॥ अथघृताक्तपायसेन वसुदेवाय० रामाय० श्रियै० विष्ण्वे० विष्णोर्नुकंतदस्यप्रियंप्रतद्विष्णुरितितिसृणांदीर्घतमाविष्णुस्त्रिष्टुप् हवनेवि० ॥ ॐ विष्णोर्नुकं० ॐ तदस्यप्रियं० ॐ प्रतद्विष्णु: ॥ परोमात्रयाविचक्रमेत्रिर्देवइतितिसृणांवसिष्ठोविष्णुस्त्रिष्टुप् हवनेवि० ॥ ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव:० ॥ ॐ भूस्वाहा ॥ ॐ भुव:स्वाहा ॥ ॐ स्व:स्वाहा ॥ ॐ भूर्भुव:स्वाहा ॥ अथकेवलपायसेन ॥ ॐ केशवायस्वाहा ॥ प्रणव:स्वाहाकारश्चसर्वत्र ॥ नारायणाय० माधवाय० गोविंदाय० विष्ण्वे० मधुसूदनाय० त्रिविक्रमाय० वामनाय० श्रीधराय० हृषीकेशाय० पद्मनाभाय० दामोदराय० ॥ अथकेवलाज्येन स्त्रीचतु:सहस्त्रसहितायैरुक्मिण्यै० स्त्रीचतु:स० सत्यभामायै० स्त्रीचतु:स० जांबवत्यै० स्त्रीचतु:सहस्त्रसहितायैकालिंध्यै० शंखाय० चक्राय० गदायै० पद्माय० गरुडाय० इंद्राय० अग्नये० यमाय० निऋतये० वरुणाय० वायवे० सोमाय० ईशानाय० तत्तन्मंत्रैर्वाहुत्वाततोब्रह्मादिमंडलदेवतास्तत्तन्मंत्रैर्नाममंत्रैर्वाकेवलाज्येनहोमयेत् ॥ तत:स्विष्टकृतंहुत्वा ॥ ततोयजमानोदेवायप्रापणंनिवेदयेत् ॥ पायसादुध्दृतंकिंचित्प्रापणंतत्प्रकीर्तितम् (पेज इतिभाषायां) त्वामेकमाध्यंपुरुषंपुराणंनारायणंविश्वसृजंयजाम: ॥त्वयैषभागोविहितोविधेयोगृहाणहव्यंजगतामधीशइतिनिवेध्यतिष्ठेत् ॥ तत:अग्निंत्रिवारंचतुर्वारंवाप्रदक्षिणीकृत्य ॐ भिंधिविश्वाअपद्विष:परिबाधोजहीमृध: ॥ वसुस्पार्हंतदाभर ॥ इतिधरण्यांजानुनीपात्यध्रुवसूक्तंपुरुषसूक्तंचजप्त्वाअष्टौपदानिप्रतिदिशंगच्छेदेभिर्मंत्रै: ॥ पूर्वस्यां ॥ कृष्णायवासुदेवायहरयेपरमात्मने ॥ शरण्यायाप्रमेयायगोविंदायनमोनम: ॥१॥दक्षिणस्यां ॥ नम:स्थूलायसूक्ष्मायव्यापकाऽव्यापकायच ॥ अनंतायजगध्दात्रेब्रह्मणेऽनंतमूर्तये ॥२॥पश्चिमस्यां ॥ अव्यक्तायाऽखिलेशायचिद्रूपायगुणात्मने ॥ नमोमूर्तायसिध्दायपरायपरमात्मने ॥३॥उत्तरस्यां ॥ देवदेवायवंध्यायपरायपरमेष्ठिने ॥ कत्रेविश्वस्यगोष्त्रेचतत्संहर्त्रेचतेनम: ॥४॥अथदेवायनिवेदितंप्रापणंमूर्ध्निकृत्वा ॥ कैवैष्णवा:केवैष्णवा:केवैष्णवाइतिउच्चैर्वदेत् ॥ तत:समाना: वयंवैष्णवा वयंवैष्णवा: इतित्रि:प्रतिवदेयु०: ॥ ततस्तेभ्य:समानेभ्योहविर्दत्त्वास्वयं ॐ नमोभगवते वासुदेवायेतिमंत्रेणइदममृतमहंप्राश्नामिइतिप्राश्य ॥ आचम्यप्राणायम्ययजमान:आचार्योवा ॐ सिध्दयेस्वाहेतिअग्नौआज्यंजुहुयात् ॥ तत:यतइंद्रभयामहेइत्यनेनआत्मानमभिमंत्रयेत् ॥ अथाचार्य:रज्जुप्रहरणंकृत्वाप्रायश्चित्तादिहोमशेषंसमापयेत् ॥ ततोयजमान:सांगतासिध्दर्थंआचार्यादीन् विध्युक्तप्रकारेणसंपूज्यदक्षिणादिभि:प्रतोष्यआचार्यायश्वेतांसत्सांसालंकारांगांदध्यात् ततोयजमान:द्वादशसंख्याकान्ब्राह्मणान्केशवादिद्वादशदेवतास्वरुपान् विभाव्य केशवादिद्वादशनामभि:यथाविभवंसंपूज्यतेभ्य:पक्वान्नपूरितान्वस्त्रतांबूलदक्षिणादिसहितान् द्वादशकलशान् केशवादिद्वादशनामांकितान् दध्यात् ॥ तत्रमंत्र: ॥ पक्वान्नपूरितंकुंभंदक्षिणावस्त्रंसंयुतं ॥ ददामिद्विजवर्यायदेवोन:प्रीयतामिति ॥ देवषदस्थानेकेशवादिनाम्नामूह:कार्य: ॥ तत:पीठदानम् ॥ ततआचार्य:पात्रांतरेउध्दृतकलशोदकेनसपत्नीकंयजमानंसमुद्रज्येष्ठाइत्यादिवैदिकैर्मंत्रै:सुरास्त्वामित्यादिपौराणिकैर्मंत्रैर्वैष्णवसूक्तैश्चाभिषिंचेत् ॥ तत:स्त्रातोयजमान: अग्निंसंपूज्य यस्यस्मृत्वा० मंत्रहीनमितिक्षमाप्य ॐ अभ्यारमिदद्रयो० यांतुदेवगणा:सर्वेइतिविसर्जयेत् ॥ कृतस्यकर्मण:सांगतासिध्दर्थंसदन्नेनदक्षिणादिनाब्राह्मणान्प्रतोष्यआशिषोगृहीत्वाव्रतसंपूर्णतांवाचयेत् ॥ जपच्छिद्रंतपश्छिद्रंयच्छिद्रंव्रतकर्मणि ॥ सर्वंभवतुमेऽच्छिद्रंब्राह्मणानांप्रसादत: ॥ इतिसंप्रार्थ्य ॥ तेऽच्छिद्रंभवत्विति वदेयु: ॥ ततस्तान्नमस्कृत्यइष्टजनै:सोत्सवोभुंजीत ॥ इतिशुक्लैकादशीव्रतोध्यापनम् ॥ N/A References : N/A Last Updated : August 07, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP