संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: Translation - भाषांतर श्रीगणेशायनम: ॥ यजमान:शुभदिनेसपत्नीकस्तिलतैलेनकृताभ्यंग:स्नात्वाजलसंपूर्णकलशहस्तोमंडपंप्रदक्षिणीकृत्यपश्चिमद्वारेणप्रविश्योपविश्यदेशकालौस्मृत्वा ममेहजन्मनिदुर्गाप्रीतिद्वारासर्वापच्छांतिपूर्वकदीर्घायुर्विपुलधनधान्यपुत्रपौत्राध्यनवच्छिन्नसंततिवृध्दिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिध्यर्थं ममामुककार्यसिध्दयर्थंवा सनवग्रहमखांनवचंडींशतचंडीसहस्त्रचंडींवास्वयंब्राह्मणद्वारावाकरिष्ये ॥ तदंगतयागणेशपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्येइतिसंकल्प्यतानिकृत्वाआचार्यादीन्वृत्वातान्यथाविभवंवस्त्रादिनामधुपर्केणचसंपूज्यप्रार्थयेच्च ॥तेचशतचंडयांदश ॥ सहस्त्रचंडयांशतं ॥ केचिदत्रग्रहजपार्थमेकमृत्विजंवरयंति ॥ अथाचार्यआचम्यदेशकालौसंकीर्त्ययजमानेनवृतोहमाचार्यकर्मकरिष्येइतिसंकल्प्ययदत्रेतिगौरसर्षपान्विकीर्यपंचगव्येनकुशोदकेनवामंडपंप्रोक्षेत् ॥ ॐ शुचीवोहव्या० ३ ॐ आपोहिष्ठा० ३ अपवित्र:० ॥ ॐ पृथ्वित्वया० इत्युपविश्य ॥अनंतासनायनम: ॥ विमलासनाय० पद्मासनाय० ॥ अपक्रामंतु० इतिभूमौवामपादघातत्रयंकृत्वायथोपदेशंविस्तरत:संक्षेपेणवाभूतशुध्द्यादिकृत्वानवार्णविध्युक्तैकादशन्यासान्कुर्यात् ॥अथवैकादशमेवैकंन्यासंकुर्यात् ॥ ततोयोनिमुद्रांप्रदर्श्यध्यायेत् ॥ श्वेताननानीलभुजासुश्वेतस्तनमंडला ॥ रक्तमध्यारक्तपादानीलजंघोरुरुन्मदा ॥ सुचित्रजघनाचित्रमाल्यांबरविभूषणा ॥ चित्रानुलेपनाकांतिरुपसौभाग्यशालिनी ॥ अष्टाद्शभुजापूज्यासासहस्त्रभुजासती॥ आयुधान्यत्रवक्ष्यंतेदक्षिणाध:करक्रमात् ॥ अक्षमालाचकमलंबाणोसि:कुलिशंगदा ॥ चक्रंविशूलंपरशु:शंखोघंटाचपाशक: ॥ शक्तिर्दंडश्चर्मचापंपानपात्रंकमंडलुरिति ॥ ततोवेध्यांसर्वतोभद्रमष्टदलंवाविलिख्यतत्रब्रह्मादिमंडलदेवता:संस्थाप्यबलिंदत्त्वा तन्मध्येमहीध्यौरित्यादिमंत्रै:कलशंसंस्थाप्यतस्मिन्गंधपुष्पफलसर्वौषधीदूर्वापंचपल्लवसप्तमृत्तिकास्तत्तन्मंत्रेणनिक्षिप्यवस्त्रद्वयेनावेष्ठ्य तदुपरिपूर्णपात्रंनिधायकलशेवरुणमावाह्यपूजयेत् ॥ तत:कलशेदेवता:स्मरेत् ॥ कलशस्यमुखेविष्णु:० देवदानवसंवादेमध्य० प्रसन्नोभवसर्वदाइतिकलशं प्रार्थयेत् ॥तत:कलशोपरिस्थपूर्णपात्रेरक्तवस्त्रेयंत्रंलिखेत् ॥ तध्यथा ॥ मध्येत्रिकोणंतब्दहि:षट्कोणंतब्दाह्येवृत्तंतद्बाह्येऽष्टौदलानितब्दाह्येचतुर्द्वारंचतुरस्त्रत्रयमिति एवंयंत्रंविलिख्य तत्रपलेन तदर्धेन तदर्धार्धेनवाष्टादशभुजांअष्टभुजांवासिंहारुढांसौवर्णींदेवीमूर्तिंरक्तवस्त्रयुगच्छन्नामग्न्युत्तारणप्राणप्रतिष्ठापूर्वकंप्रतिष्ठाप्यपूजयेत् ॥ तध्यथा ॥ स्ववामेकर्पूरादियुतजलपूर्णंकलशंसंपूज्यकलशस्यमुखे० गंगेचयमुने० इत्यादिपठित्वाधेनुमुद्रांप्रदर्श्य दक्षिणत:शंखंसंपूज्य शंखंचंद्रार्कदैवत्यमित्यादिपठित्वा शंखमुद्रांप्रदर्श्यशंखोदकेनात्मानंपूजाद्रव्याणिचप्रोक्षेत् ॥ अपवित्र:पवित्रोवा० ॥ तत: पीठपूजांकुर्यात् ॥ सर्वत्रादौप्रणव: देवीदक्षिणेगुंगुरुभ्योनम: पंपरमगुरुभ्यो० पंपरात्परगुरुभ्यो० पंपरमेष्ठिगुरुभ्यो० ॥ वामे गंगणपतयेनम: दुंदुर्गायैन० क्षंक्षेत्रपालाय० ॥ मध्येआधारशक्त्यै० मूलप्रकृत्यै० कालाग्निरुद्राय० महामंडूकाय० कूर्माय० वराहाय० अनंताय० भूम्यै० अमृतार्णवाय० रत्नद्वीपाय० हेमगिरये० नंदनोध्यानाय० मणिभूम्यै० रत्नमंडपाय० कल्पतरवे० रत्नसिंशासनाय० ॥ आग्नेय्यादिकोणेषु धर्माय० ज्ञानाय० वैराग्याय० ऐश्वर्याय० ॥ पूर्वादिदिक्षु अधर्माय० अज्ञानाय० अवैराग्याय० अनैश्वर्याय० ऊर्ध्वं ब्रह्मणे० अध: अनंताय० मध्ये वास्तुपुरुषाय० संसत्त्वाय० रंरजसे० तंतमसे० मांमायायै० विविंध्यायै० ॥ पूर्वाध्यष्टदिक्षु ॐ ओंकारगिरिपीठेश्वरसहितामोंकारगिरिपीठेश्वर्यंबापाकांपूजयामि ॐ उड्डानपीठेश्वरसहितामुड्डानपीठेश्वर्यंबापादुकां० ॐ मातृकापीठेश्वरसहितांमातृकापीठेश्वर्यंबापादुकां० ॐ जालंदरपीठेश्वरसहितांजालंधरपीठेश्वर्यबापा० ॐ कोल्हागिरिपीठेश्वरसहितांकोल्हागिरिपीठेश्वर्यंबापादु० ॐ पूर्णगिरिपीठेश्वरसहितांपूर्णगिरिपीठेश्वर्यंबापादुकांपू० ॐ संहारगिरिपीठेश्वरसहितांसंहारगिरिपीठेश्वर्यंबापा० ॐ कामरुपपीठेश्वरसहितांकामरुपपीठेश्वर्यंबापा० ॥पुन:पूर्वादिचतुर्दिक्षु गंगणेशायनम: क्षंक्षेत्रपालाय० पांपादुकाभ्यो० बंबटुकेभ्यो० ॥ आग्नेय्यादिविदिक्षु जंजयायैन० विंविंजयायैन० जंजयंत्यै० अंअपराजितायै० ॥ तत्रैवअग्निमुखवेतातालायनम: प्रेतवाहनवेतालाय० ज्वालामुखवेतालाय० धूम्राक्षवेतालाय० कंदाय० नालाय० दलेभ्यो० केसरेभ्यो० कर्णिकायै० ॥ अंसूर्यमंडलाय० उंसोममंड० मंवह्निमंडलाय० अंआत्मने० उंअंतरात्मने० पंपरमात्मने० उंज्ञानात्मने० ॥तत:पूर्वे विंविष्णुमायायै० चेंचेतनायै० बुंबुध्यै० निंनिद्रायै० क्षुंक्षुधायै० ॥ दक्षिणे छांछायायै० शंशक्तयै० तृंतृष्णायै० क्षांक्षांत्यै० जांजात्यै० लंलज्जायै० ॥ पश्चिमेशांशांत्यै श्रंश्रध्दायै० कांकात्यै० लंलक्ष्म्यै० धृंधृत्यै० वृंवृत्त्यै० ॥उत्तरे स्मृंस्मृत्यै० दंदयायै० तुंतुष्टयै० मामांतृकायै० भ्रांभ्रांत्यै० ह्रींसर्वशक्तिकमलासनाय० सर्वात्मसंयोगयोगपीठात्मने० इतिपीठपूजा ॥ततोहृदिस्थांसपरिवारांज्योतिर्मयींमहालक्ष्मींध्यात्वा ॥ आगच्छवरदेदेविदैत्यदर्पनिषूदिनि ॥ पूजांगृहासुमुखिनमस्तेशंकरप्रिये ॥ दुर्गेदेविविसमागच्छसान्निध्यमिहकल्पय ॥ बलिंपूजांगृहाणत्वमष्टाभि:शक्तिभि:सह ॥ इतिमंत्रौपठित्वादक्षिणनासारंध्रेणपुष्पांजलावानीयमूलेनमूर्तावावाह्यावाहनानिमुद्रांयोनिमुद्रांचपदर्श्यमूर्ते:षडंगंकृत्वामूलमंत्रेणजयंतीमंगलाकालीत्यनेनासनपाध्यार्घ्याचमनमधुपर्कान्निवेदयेत् ॥तत्रपात्रचतुष्टयमस्त्रेणप्रक्षाल्यंगंधादिनिक्षिपेत् ॥ तत्रपाध्येदूर्वाविष्णुक्रांताश्यामाकपत्राणि ॥ अर्घ्येगंधपुष्पाक्षतकुशाग्रसर्षपयवदूर्वा: ॥ आचमनीयेजातीफलकंकोललवंगानि ॥ मधुपर्केदधिमधुच ॥ तत:सुगंधितैलपंचामृतोष्णोदकतीर्थोदकै: श्रीसूक्तदेवीसूक्तसरस्वतीसूक्तैरभिषिच्यपुनराचमनंदत्त्वा पट्टकूलयुगकंचुकाभरणाष्टगंधबिल्व्पत्रनानापुष्पहरिद्राकुंकुमसिंदूरालक्तपरिमलद्रव्याणिसमर्प्यसहस्त्रंपुष्पाणिसमर्पयेत् ॥ अथांगपूजा ॥ दुर्गायै० पादौ० ॥ गिरिजायै० गुल्फौ० ॥ अपर्णायै० जानुनी० ॥ हरिप्रियायै० ऊरु० ॥ पार्वत्यै० कटिं० ॥ आर्यायै० नाभिं० ॥ जगन्मात्रे० उदरं० ॥ मंगलायै० कुक्षिं० ॥ शिवायै० हृदयं० ॥ माहेश्वर्यै० कंठं० ॥ विश्ववंध्यायै० स्कंधौ० ॥काल्यै० बाहू० ॥ आध्यायै० हस्तौ० ॥ वरदायै० मुखं० ॥ सुवाण्यै० नासिकां० ॥ कमलाक्ष्यै० नेत्रे० ॥ अंबिकायै० शिर:० ॥ देव्यै० सर्वागं० ॥अथाष्टोत्तरशतनामानि ॥ माहेश्वर्यैनम: महादेव्यै० जयंत्यै० सर्वमंगलायै० लज्जायै० भगवत्यै० वंध्यायै० भवान्यै० पापनाशिन्यै० चंडिकायै० कालरात्र्यै० भद्रकाल्यै० अपराजितायै० महाविध्यायै० महामेधायै० महामायायै० महाबलायै० कात्यायन्यै० जयायै० दुर्गायै० मंदारवनवासिन्यै० आर्यायै० गिरिसुतायै० धात्र्यै० महिषासुरघातिन्यै० सिध्दिदायै० बुध्दिदायै० नित्यायै० वरदायै० वरवर्णिन्यै० अंबिकायै० सुखदायै० सौम्याये० जगन्मात्रे० शिवप्रियायै० भक्तसंतापसंहत्र्यैं० सर्वकामप्रपूरिण्यै० जगत्कर्त्र्यैं० जगध्दात्र्यै० जगत्पालनतत्परायै० अव्यक्तायै० व्यक्तरुपायै० भीमायै० त्रिपुरसुंदर्यै० अपर्णायै० ललितायै० वेध्यायै० पूर्णचंद्रनिभाननायै० चामुंडायै० चतुरायै० चंद्रायै० गुणत्रयविभाविन्यै० हेरंबजनन्यै० काल्यै० त्रिगुणायै० यशोधारिण्यै० उमायै० कलशहस्तायै० दैत्यदर्पनिषूदिन्यै० बुध्दयै० कांत्यै० क्षमायै० शांत्यै० पुष्ठयै० तुष्टयै० धृत्यै० मत्यैप वरायुधधरायै० धीरायै० गौर्यें० शाकंभर्यै० शिवायै० अष्टसिध्दिप्रदायै० वामायै० शिववामांगवासिन्यै० धर्मदायै० धनदायै० श्रीदायै० कामदायै० मोक्षदाये० अपरायै० चित्स्वरुपायै० चिदानंदायै० जयश्रियै० जयदायिन्ये० सर्वमंगलमंगल्यायै० जगत्रयहितैषिण्यै० शर्वाण्यै० पार्वत्यै० धन्यायै० स्कंदमात्रे० अखिलेश्वर्यै० प्रपन्नार्तिहरायै० देव्यै० सुभगायै० कामरुपिण्यै० निराकारायै० साकारायै० महाकाल्यै० सुरेश्वर्यै० शर्वायै० श्रध्दायै० ध्रुवायै० कृत्यायै० मृडान्यै० भक्तवत्सलायै० सर्वशक्तिसमायुक्तायै० शरण्यायै० सर्वकामदायै० ॥ इत्यष्टोत्तरनामानि ॥अथावरणपूजा ॥ देव्यादक्षिणे ऐंमहाकाल्यैविच्चेनम: ॥ मध्ये ह्रींमहालक्ष्म्यैविच्चेनम:वामे क्लींमहासरस्वत्यैविच्चेनम: ॥ अभीष्टसिध्दिंमेदेहिशरणागतवत्सले ॥ भक्त्यासमर्पयेतुभ्यंप्रथमावरणार्चनं ॥१॥एवमग्रेपिद्वितीयाध्यावरणादौयथायथमूह्यं ॥ वामेर्हूंमहिषायनम: दक्षिणे क्षौंसिंहायनम: पुरत: गंगणपतयेनम: ह्रूं कालायनम: ॥ पश्चात् ह्रूंमृत्यवेनम: ॥२॥षट्दलेषु ह्रैं रुद्रायनम: ह्रौं गौर्यैनम: श्रींविष्णवेनम: श्रीं लक्ष्म्यैनं: ऐं ब्रह्मणेनम: ऐं सरस्वत्यैनम: ॥३॥तत्रैव ह्रां हृदयायेनम: ह्रीं शिरसेस्वाहा ह्रूं शिखायैवषट् ह्रैं कवचायहुं ह्रौं नेत्रत्रयायवौषट् ह्र: अस्त्रायफट् ॥४॥तत्रैव गुं गुरुभ्यो० पं परमगुरुभ्यो० पं परमेष्ठिगुरुभ्यो० हरये० हराय० गणेशाय० ॥५॥अष्टदलेषु नंनंदजायै० रंरक्तदंतिकायै० शांशाकंभर्यै० दुंदुर्गायै० भींभीमायै० भ्रांभ्रामर्यै० लौंइंद्राण्यै० क्षौंनारसिंह्यै० र:प्रौंचामुंडायै० ॥६॥पूर्वादिदिक्षु अंअसितांगभैरवाय० रुंरुरुभैरवाय० चंचंडभैरवाय० क्रोंक्रोधभैरवाय० उंउन्मत्तभैरवाय० कंकपालभैरवाय० भींभीषणभैरवाय० संसंहारभैरवाय० ॥७॥पुन:पूर्वादिषु लंइंद्राय० रंअग्नये० मंयमान० क्षंनिऋतये० वंवरुणाय० यंवायवे० संसोमाय०हंईशानाय० ॥८॥तब्दहि: पूर्वादिषु वज्राय० शक्त्यै० दंडाय० खड्गाय० पाशाय० अंकुशाय० गदायै० त्रिशूलाय० ॥९॥ इत्यावरणपूजा ॥ततोमूलेनधूपदीपौदत्त्वानैवेध्यमस्त्रेणाभिमंत्र्यमूलेनप्रोक्ष्यकवचेनावगुंठयपुष्पंदत्त्वाधेनुमुद्रयाऽमृतीकृत्यमूलेननिवेध्यग्रासमुद्रांप्रदर्श्यमध्येपानीयमुत्तराचमनंचदत्त्वाकरोद्वर्तनफलतांबूलदक्षिणानीराजयनपुष्पांजल्यंते यथासंभवंछत्रचामरगीतनृत्यवाध्यादिसमर्प्यकूष्मांडनारिकेलदलीफलादिबलिंदत्त्वामाषभक्तकूष्मांडबलिंदत्त्वापूजांसमापयेत् ॥ तत:कुमारीपूजा ॥देशकालौसंकीर्त्यशतचंडीजपांगत्वेनकुमारीपूजांकरिष्ये इतिसंकल्प्यमूलेनषंडगंकृत्वामूलमंत्रमुच्चार्य ॥ मंत्राक्षरमयींदेवींमातृणांरुपधारिणीं ॥ नवदुर्गात्मिकांक्षात्कन्यामावाहयाम्यहं ॥ इतिकुमारीमावाह्ययथासंभवंपूजयेत् ॥ कुमार्यश्चप्रत्यहंशतंनवएकावायथाशक्तिवापूज्या: ॥ प्रत्यहमेकवृध्द्यावापूजयेत् ॥ ततोब्राह्मणसुवासिनीपूजा ॥ एवंदेवीकुमार्यादिपूजाप्रत्यहंकार्या ॥ तत:सर्वेविप्रा:कृतांगन्यासा:शतंवार्णमंत्रंजप्त्वाकवचार्गलकीलकानिकृज्जप्त्वासप्तशतींजप्त्वांतेरहस्यानिनवार्णशतंचजपेयु: ॥ एकस्मिनेन्दिनेअनेकावृत्तौतुकवचादीनांप्रत्यावृत्तिनावृत्ति: ॥ एवमृत्विज:प्रथमदिनेएकंद्वितीयेतृतीयेत्रीणिचतुर्थेचत्वारिरुपाणीत्येवंजपंकुर्यु: ॥ऋत्विजांयजमानस्यचप्रत्यहंक्षीरमात्राशनंअशक्तौहविष्यान्नंवा ॥ प्रत्यहंसहस्त्रंशतंदशवाब्राह्मणान्भोजयेत् पंचमेन्हिहोम: ॥नवरात्रेतुनवम्यामेवहोम: ॥ केचित्तुअष्टम्यामारभ्यनवम्यांसमापयंति ॥ अथहोम: ॥देशकालौस्मृत्वामयाब्राह्मणद्वाराकृतस्यशतचंडीजपस्यसंपूर्णतासिध्दयर्थंजपदशांशेनतिलादिमिश्रपायसद्रव्येणहोमंकरिष्यइतिसंकल्प्य ॥ अत्रकेचित्पुण्याहवाचनमपिकुर्वंति ॥ तथापूर्वोक्तकलशस्थापनंदेवतास्थानपनंपूजनंचात्रैवकुर्वंति ॥ तत:सनवग्रहशतचंडीजपदशांशहोमंकर्तुंस्थाडिलादिकरिष्ये इतिसंकल्प्यस्थंडिलमुपलिप्योल्लिख्यतत्र शतमंगलनामानमग्निंप्रतिष्ठाप्यप्रबोध्यध्यायेत् ॥ तत:प्रागकृतंचेदिदानीमीशान्यांदिशिनवग्रहस्थापनंकृत्वातत्पूर्वत:कलशंस्थापयेत् ॥ ततोऽग्निसमीपमागत्यान्वाधानंकुर्यात् ॥ समिद्वयमादाय क्रियमाणेशतचंडीजपांगहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नात्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा आदित्यादिनवग्रहान् प्रत्येकंप्रतिद्रव्यमष्टाविंशति (अष्टौवा) संख्याकाभि:समित्तिलाज्याहुतिभि: अधिदेवता:प्रत्यधिदेवताश्चप्रत्येकंप्रतिद्रव्यंचतुश्चतु:संख्याकाभिस्तैरेवद्रव्यै: गणपत्यादिदेवताइंद्राध्यष्टौलोकपालांश्चैकैकयासमित्तिलाज्याहुत्यायक्ष्ये ॥ महाकालीमहालक्ष्मीमहासरस्वती:नवार्णमंत्रेणजपदशांशसंख्ययामिलितै:पायसतिलपलाशपुष्पसर्षपपूगीफललाजदूर्वांकुरयवबिल्वरक्तचंदनगुग्गुलुद्रव्यै:महाकालीमहालक्ष्मीमहासरस्वती:सप्तशतीमंत्रै:जपदशांशसंख्ययापायसतिलपलाशपुष्पसर्षपपूगीफललाजदूर्वांकुरयवबिल्वफलरक्तचंदनगुग्गुलुद्रव्यैर्थथालाभद्रव्यैर्वा तिलमिश्रपायसेनवा पुनर्नवार्णमंत्रेणशतवारंतैरेवद्रव्यै:आधारशक्त्यादिपीठदेवता: महाकाल्याध्यावरणदेवताश्चएकैकाहुत्यापायसाज्येनब्रह्मादिमंडलदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ शेषेणस्विष्टकृतामित्याध्याज्यभागांतंकृत्वायजमान:इदंहवनीयद्रव्यंयथादैवतमस्तुनमममेतित्यजेत् ॥ नवग्रहादिभ्य:समित्तिलाज्यानिहुत्वाउक्तद्रव्याणिमूलमंत्रेणशतवारंहुत्वासप्तशतीमंत्रैर्जपदशांशेनहुत्वापुनर्मूलमंत्रेणशतवारंजुहुयात् ॥ मूलमंत्रोनवार्णमंत्र: ॥ नवार्णमंत्रस्यकेवलाज्येनैववाहोम: ॥ अत्राध्यायसमाप्तौउवाचस्थलेचपत्रपुष्पफलैर्होमस्तांबूलहोमश्चारात् ॥ एवंप्रधानहोमंकृत्वाआधारशक्त्यादिपीठदेवताभ्योनामभिराज्यंपायसंचजुहुयात् ॥ तथाऐंमहाकाल्यैविच्चेइत्याध्यावरणदेवताभ्योपितथैवाज्यपायसौहुत्वामंडलदेवताभ्योनाममंत्रेणाज्यंजुहुयात् ॥ तत्रमंत्रा: ॥ ॐ इंद्रवो० इंद्र०सुरपतिश्चैववज्रहस्तोमहाबल: ॥ शतयागाधिपोदेवस्तस्मैनित्यंनमोनम: ॥ इंद्रायसांगायसपरिवारायसायुधायसशक्तिकायइमंमाषभक्तबलिंसमर्पयामि भोइंद्रइमंबलिंगृहाणदिशंरक्षममयजमानस्यवाआयु:कर्ताशांतिकर्तापुष्टिकर्तातुष्टिकर्ताकल्याणकर्तावरदोभव ॥ अनेनबलिदानेनइंद्र:प्रीयतां ॥१॥ॐ अग्निदूतं० आग्नेय:पुरुशोरक्त: सर्वदेवमयोव्यय: ॥ धूमकेतुरनाधृष्यस्तस्मैनित्यंनमोनम: ॥ अग्नयेसांगायेत्यादि० ॥२॥ॐ यमायसोमं० यमश्चोत्पलपत्राक्ष:किरीटीदंडधृक्सदा ॥ लोकसाक्षीविशुध्दात्मातस्मैनित्यंनमोनम: ॥ यमायसांगायेत्यादि० ॥३॥ॐ मोषुण:परापरा० निऋतिस्पुपुमान्कृष्ण:सर्वरक्षोधिपोमहान् ॥ खड्गहस्तोमहासत्त्वस्तस्मैनित्यं० निऋतयेसांगायेत्यादि० ॥४॥ॐ तत्वायामि० वरुण:सर्वलोकेषुपुरुषोनिम्नगाधिप: ॥ पाशहस्तोमहाबाहुस्तस्मैनित्यं०वरुणायसांगायेत्यादि० ॥५॥ॐ तववाय०सर्वप्राणात्मकोवायु:सर्वजंतुष्ववस्थित: ॥ ध्वजहस्तोमहाप्राणस्तस्मैनित्यं० वायवेसांगायेत्यादि० ॥६॥ॐ आप्यायस्व० गौरोयस्तुपुमन्सौम्य:सर्वौषधिसमन्वित: ॥ नक्षत्राधिपति:सोमस्तस्मैनित्यं० सोमायसांगायेत्यादि० ॥७॥ॐ तमीशाण० ईशान:पुरुष:शुक्ल:सर्वदेवाधिपोमहान् ॥ शूलहस्तोविरुपाक्षस्तस्मैनिस्यं०ईशानायसांगायेत्यादि० ॥८॥ॐ आयंगौ:पृश्नि० योऽसावनंतरुपेणब्रह्मांडंसचराचरं ॥ पुष्पवध्दारयेन्मूर्ध्नितस्मैनित्यं०अनंतायसांगायेत्यादि० ॥९॥ॐ ब्रह्मजज्ञानं० पद्मयोनिश्चतुर्मूर्तिर्वेदावास: पितामह: ॥ कमंडलुधरोदेवस्तस्मै० ॥ ब्रह्मणेसांगायेत्यादि० ॥१०॥नवग्रहेभ्य:सांगेभ्यइत्यादिनाग्रहेभ्योबलिंदत्त्वाक्षेत्रपालायदध्यात् ॥ ॐ क्षेत्रस्यपतिना० सर्वभूताधिपायक्षेत्राधिपतयेशाकिनीडाकिनीभूतप्रेतपिशाचादिपरिवारसहितायइमंबलिंमसमर्पयामि ॥ भोक्षेत्रपालइमंबलिंगृहाणादिशोरक्षममयजमानस्यवाआयु:कर्तेत्यादि० ॥ बलिंगृह्णंत्विमंदेवाआदित्यावसवस्तथा ॥ मरुतश्चाश्विनौरुद्रा:सुपर्णा:पन्नगा:खगा: ॥ असुरायातुधानाश्चपिशाचोरगराक्षसा: ॥ डाकिन्योयक्षवेतालायोगिन्य:पूतना:शिवा: ॥जृंभका:सिध्दगंधर्वानागाविध्याधरानगा: ॥ दिक्पालालोकपालाश्चयेचविघ्नविनायका: ॥जगतांशांतिकर्तारोब्रह्माध्याश्चमहर्षय: ॥ माविघ्नंमाचमेपापंमासंतुपरिपंथिन: ॥ सौम्याभवंतुतृप्ताश्चभूतप्रेता:सुखावहा: ॥ इतिमंत्रान्पठेत् ॥अयंबलि:शूद्रेणदुर्ब्राह्मणेनवानेय: ॥ ततोहस्तौपादौप्रक्षाल्याचम्यपूर्णाहुतिंजुहुयात् ॥स्त्रुचिस्त्रुवेणद्वादशवारमाज्यंगृहीत्वानारिकेलादिचगृहीत्वा ॥ ॐ समुद्रादूर्मि० ३ ॐ मूर्धानं० १ ॐ पुनस्त्वा० ॐ पूर्नादर्वि० ॐ सप्ततेअग्ने० ॐ धामंतेविश्वं० मूलमंत्र: नमोदेव्यैइत्यादिमंत्राश्च ॥ ततोवसोर्धांहुत्वाप्रणीताविमोकादिकर्मशेषंसमाप्य होमदशांशेनदुग्धेनजलेनवामूलमंत्रमुच्चार्यचंडिकांतर्पयामिचंडिकातृप्यतामितिवातर्पणंकृत्वातेनैवमंत्रेणतद्दशांशेनमार्जयेत् ॥ ततोयजमानआचार्यादीन्वस्त्राध्यै:संपूज्यतेभ्योगोमिथुनानिहिरण्यंचदध्यात् ॥ ततआचार्यादिभ्योऽन्येभ्योवाकपिलागोनीलमणिश्वेताश्वछत्रचामरभूमिशय्यासप्तधान्यानियथासंभवंवादध्यात् ॥ ततआचार्यादय:कलशोदकेनसपत्नीकंसकुटुंबंयजमानं समुद्रज्येष्ठाइत्यादिभि:सुरास्त्वामित्यादिभिग्रहमंत्रैश्चाभिषिंचेयु: ॥ ततोयजमानोग्रहाणामुत्तरपूजांकृत्वाचार्येणविसर्जनेकृतेग्रहपीठदानंकृत्वादेवींपंचोपचारै:संपूज्यमहाबलिंदध्यात् ॥ तत्रक्षत्रियादिनाश्वमेषछागमहिषाणामन्यतमोदेय: ॥ विप्रेणतुकूष्मांदबिल्वेक्ष्वन्यतमोदेय: ॥ सचेत्थं ॥ देवींद्रोणपुष्पबिल्वाम्रदलजातीचंपकै:संपूज्यकर्ताउदड्मुख:पूर्वमुखंदेवीमुखंबलिंगंधादिनाभ्यर्च्य ॥ पशुस्त्वंबलिरुपेणममभाग्यादुपस्थित: ॥ प्रणमामितत:सर्वरुपिणंबलिरुपिणं ॥ चंडिकाप्रीतिदानेनदतुरापद्विनाशनं ॥ चामुंडाबलिरुपायबलेतुभ्यंनमोस्तुते ॥ यज्ञार्थेपशव:सृष्टा:स्वयमेवस्वयंभुवा ॥ अतस्त्वांघातयाम्यध्ययस्माध्यज्ञेवधोऽवध: ॥ इतिबलिमभिमंत्र्य ॐ ऐंह्रींश्रीं इतितत्रपुष्पंक्षिप्त्वा ॥ ॐ रसनात्वंचंडिकाया:सुरलोकप्रसाधक: ॥ ॐ ह्रांह्रींखड्गआंहुंफट् इतिखड्गमन्यद्वादशशस्त्रंसंपूज्य ॐ कालिकालियज्ञेश्वरिलोहदंडायैनम: इतिबलिंछेदयित्वा ॐ ह्रींऐंह्रींकौशिकिरुधिरेणाप्यायतांइतिदेव्यैनिवेध्यशेषंगृहीत्वा पूतनायैचरक्यैविदार्यैपापराक्षस्यैचनिवेध्यततोमाषपिष्टमयंशत्रुंकृत्वाखड्गेनछेदयित्वास्कंदाविशिखायचदत्त्वाबलिशेषंरक्षोभ्योहरेत् ॥मंत्रस्तु ॐ ह्रींस्फुरस्फुरकुंभ २ सुनु २ गुलु २ धनु २ मारय २ विद्रावय २ विदारय २कंपय १ कंपातय २ कृंतय २ पूरय २ ॐ ह्रीं ॐ ह्रूं फट् २ ॐ हुं मर्दय २ हुं इति ॥तत:शेषंबहिर्दध्यात् ॥ तत्रमंत्रा: बलिंगृह्णंत्विमंदेवाइत्यादय:पूर्वोक्ताएव ॥ तत:स्त्रात्वातिलकंधृत्वादेवींप्रार्थयेत् ॥ तत्रमंत्रा: ॥ खड्ग्निनीशूलिनीघोरा० शूलेनपाहिनोदेवि० ४ नमोदेव्यैमहादेव्यै० ५ रुपंदेहियशोदेहिभगंभगवतिदेहिमे ॥ पुत्रान्देहिधनंदेहिसर्वात्न्कांश्चदेहिमे ॥ महिषघ्निमहामायेचामुंडेमुंडमालिनि ॥ आयुरारोग्यमैश्वर्यंदेहिदेविनमोस्तुते ॥ इतिदेवींसंप्रार्थ्य गुह्यातिगुह्यगोप्त्रीत्वंगृहाणास्मत्कृतजपं ॥ सिध्दिर्भवतुमेदेविप्रप्रासादात्तवसुंदरि ॥ इतिदेव्यैजपंनिवेध्य ॥ कृतस्यकर्मण:सांगतासिध्यर्थंकुमारीब्राह्मणसुवासिनी:पूजापूर्वकंसंभोज्यसंकल्प्यवा न्यूनातिरिक्तदोषपरिहारार्थंब्राह्मणेभ्योभूयसींदक्षिणांदत्त्वाग्निंसंपूज्यविभूतिंधृत्वागच्छगच्छेत्यग्निंविसृज्यमूलमंत्रेणपुष्पेणदेवीमुव्दास्यनासयाहृदिप्रतिष्ठितांविभाव्यषडंगंकृत्वा ॐ उत्तिष्ठब्रह्मण० ॐ अभ्यार० इतिमंत्रैर्विसृज्याचार्यायदत्त्वामंत्रंपठेत् ॥ त्रैलोक्यमातर्देवित्वंसर्वभूतदयान्विते ॥ दानेनानेनसंतुष्टासुप्रीतावरदाभव ॥ उत्तिष्ठदेविचंडेशिशुभांपूजांप्रगृह्यच ॥ कुरुष्वममकल्याणमष्टाभि:शक्तिभि:सह ॥ ततोग्निंसंपूज्यविभूतिंधृत्वागच्छगगच्छेतितंविसृज्यशतंयथाशक्तिवाविप्रान्संभोज्यतत: यस्यस्मृत्या० प्रमादात्कुर्वतांकर्म० इत्यादिजपित्वाकर्मेश्वरार्पणंकृत्वासुहृध्युतोभुंजीत ॥ इदमेवपूजाहोमबल्यादिविधानंनवरात्रेपिज्ञेयं ॥ तत्रविशेषस्तुदशम्यांप्रातर्देवीविसर्जनं ॥ अन्यच्चमहानिबंधेभ्योऽवगंतव्यं ॥ इतिसंक्षेपेणनवचंडीसहस्त्रचंडीहवनप्रयोग: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP