संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथप्रासादप्रतिमयोर्जीणोध्दार:

व्रतोदयान - अथप्रासादप्रतिमयोर्जीणोध्दार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यजमान:देशकालौस्मृत्वाश्रीपरमेश्वरप्रीत्यर्थंप्रासादस्यपिंडिकायावागर्भारस्यवाभूमे
र्वाजीर्णोध्दारणंकरिष्ये ॥
तथाचात्रस्थितानांदेवतानंसंकोचत्वादुध्दृत्यस्थलांतरनयनार्थंचालनविधिंकरिष्ये ॥
इतिप्रासादाध्यन्यतमसंकल्प: ॥
निर्विघ्नार्थंगणपतिपूजनंपुण्याहवाचनंआचार्यादिवरणंचकरिष्ये ॥ इतिसंकल्प्यगणेशपूज
नादिकृत्वाआचार्यादीन्वृणुयात् ॥
अस्मिन्कर्मणि आचार्यंत्वामहंवृणइत्याचार्यंवृत्वा ॥ ब्रह्माधृत्विज:पंचब्राह्मणान् वॄणुयात् ॥ आचार्य:पूर्वकल्पितगृहंपंचगव्येनाभ्युक्ष्यतोरणादिनाअलंकृत्ययथास्थानंपादशिलांविन्य
स्यउक्तरीत्यारत्नान्याधायासनंपरिकल्प्य गर्भगृहंप्रविश्यबहुभिरुदकै:प्रक्षाल्यप्रतिमामभ्य
र्च्यहोमंकुर्त्यात् ॥ तत्प्रकार: ॥
आचार्य:स्थंडिलादिविरच्यदेशकालौस्मृत्वाप्रासादस्यगर्भगृहस्यवाजीर्णोध्दारेविहितहोमं
करिष्ये ॥
अथवापिंडिकाप्रतिमयोश्चालनविधौविहितहोमंकरिष्ये ॥ अग्निस्थापनादिकृत्वासमिद्दय
मादायास्मिन्नन्वाहितेग्नावित्यादि० ॥ अत्रप्रधानं ॥
देवेआवाहितप्रनवादिषोडशन्यासांतर्गततत्वानिप्रत्येकंदशदशसंख्ययातिलद्रव्येणयक्ष्ये ॥
तथाचपिंडिकातत्त्वानि ॐ यंथंभंइत्यादीनिप्रत्येकंदशदशसंख्ययातिलद्रव्येणयक्ष्ये ॥
शेषेणस्विष्टकृतमित्यादिसध्योयक्ष्येइत्यन्वाधायप्रधानहोमंकुर्यात् ॥ प्रासादेतुप्रधानहोमे
विशेष: ॥
प्रासादेपृथिव्यादितत्त्वानिप्रत्येकंदशदशसंख्ययातिलद्रव्येणयक्ष्येशेषेणस्विष्टकृतमित्यादि
पूर्ववत् ॥
प्रधानहोमस्तुपूर्वंदेवाधिवासनोत्तरंषोडशन्यासहोमउक्त:सएवात्रग्राह्य: ॥ सचैवं ॐ अका
रायनम:स्वाहा ॥
ॐ उकारायनम:स्वाहा ॥ इत्यादिप्रणवन्यासहोम: ॥ एवंप्रकारेणषोडशन्यासांतर्गततत्वे
भ्य:षोडशन्यासहोमविधिनाप्रतितत्त्वंदशाहुतीस्तिलैर्जुहुयात् ॥
प्रासादेतुजीर्णप्रासादेआवाहितपृथिवितपृथिव्यादितत्त्वेभ्योजुहुयात् ॥ तानितुप्रासादतत्त्वानि
प्रासादोध्यापनप्रयोगेमयोक्तनित्रिविक्रमेणहेमाद्रावुक्तानिग्राह्याणि ॥ तत्प्रकार: ॥
ॐ पृथिवीतत्त्वायनम:स्वाहा ॥ एवंप्रकारेणहोम:कार्य: ॥ तत्त्वानिविस्तरादिहनोच्यंते ॥
प्रासादतत्त्वानांहोम:कृताकृत: ॥
तत:प्रासादेपूर्वस्थितानिपृथिव्यादितत्त्वानिखड्गेछुरिकायांवाविन्यस्यतंखड्गंदेवपार्श्वेंनिधाय
प्रासादनिष्पत्तिपर्यंतंखड्गंदेववत्पूजयेत् ॥
खड्गेन्यासप्रकारस्त्वेत्वं ॥ ध्यानेनप्रासादस्थितंपृथिवीतत्त्वंखड्गेन्यसामीति ॥ एवंप्रतित
त्त्वमूह:कार्य: ॥
निष्पन्नेप्रासादेप्रासादप्रतिष्ठाविधिंसर्वंहोमादिविधायतत्त्वन्यासमयेदेवनिकटस्थंपूर्वस्थापितंखड्गमानीयखड्गस्थितानितत्त्वानिमनसिध्यानेनप्रासादेयथास्नानंविन्यसेत् ॥
खड्गस्थितंपृथिवीतत्त्वंप्रासादेयथास्थानंन्यसामीत्यहू:कार्य: ॥
तंखड्गंआचार्यायदध्यात् ॥ इति ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP