संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथार्धोदयव्रतम्

व्रतोदयान - अथार्धोदयव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अमार्कश्रवणेपातेयुक्ताचेत्पौषमाघयो: ॥ अर्धोदय:सविज्ञेय:सविज्ञेय:कोटिसूर्यग्रहै:
सम: (किंचिन्न्यूनंमहोदय:) ॥
दिवैवयोग:शस्तोयंनतुरात्रौकदाचन ॥ इति ॥ तिथादिसंकीर्त्य आत्मन: अखिलपापक्षय
पूर्वकधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थं (ब्रह्माविष्णुशिवप्री
त्यर्थं) अर्धोदयव्रतंकरिष्ये ॥
दर्भास्तृतशुध्दभूमौशतत्रयद्रोणपरिमिततिलानांपर्वतंकृत्वायथाशक्तिवातत्रपलाधिकंसुवर्णस्य ब्रह्मविष्णुशिवानांप्रतिमात्रयंकृत्वा ब्रह्मजज्ञानं० इदंविष्णु० त्र्यंबकं० इतिमंत्रै:
प्रतिष्ठाप्यपूजयेत् ॥ परितोलोकेशांस्तत्तन्मंत्रैरावाहयेत् ॥ प्रार्थना ॥ नमोविश्वसृजेतुभ्यं
सत्यापरमात्मने ॥ देवायदेवपतयेयज्ञानांपतयेनम: ॥
नारायणजगन्नाथनमस्तेगरुडध्वज ॥ पीतांबरनमस्तुभ्यंजनार्दननमोस्तुते ॥ महेश्वरमहे
शाननमस्तेत्रिपुरांतक ॥
जीमूतकेशायनमोनमस्तेवृषभध्वज ॥ ब्रह्मविष्णुमहेशाना:कर्मणांफलहेतव: ॥ भक्त्याम
याकृतांपूजांगृह्णीध्वंजगदीश्वरा: ॥
इतिसंप्रार्थ्य वृताचार्योऽग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ ब्रह्मविष्णुमहेशान् घृताक्ततिलद्र
व्येणप्रतिदैवतं सहस्त्रमष्टोत्तरंवासंख्याकाहुतिभि:लोकपालानेकैकयाज्याहुत्यायक्ष्ये ॥
एवंहुत्वातिलपर्वतंब्राह्मणायदध्यात् ॥ तिलपर्वतमध्यस्थाब्रह्मविष्णुमहेश्वरा: ॥
दहंतुपातकंसर्वंयच्छंतुममसद्गतिम् ॥ ततोगोप्रदानं ॥ भविष्येतुब्रह्मण:पलाशसमिच्चरु
तिलाज्यानिविष्णो:अश्वत्थसमित्तिलपायसान् शंभो:चर्वाज्यव्रीहय: ॥
कांस्यपात्रदानंदेवलंद्रव्यद्वारावागोप्रदानं ॥ इत्यर्धोयव्रतम् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP