संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथहविर्द्रव्याणांनियम:

व्रतोदयान - अथहविर्द्रव्याणांनियम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रसग्रहपक्षेग्रहाणांसमिध: ॥ अर्क:पलाश:खदिरअपामार्गोथपिप्पल: ॥
औदुंबर:शमीदुर्वाकुशाश्चसमिध:क्रमादिति ॥
तत्संख्याचाष्टोत्तरशतमष्टाविंशतिरष्टौवैकैकस्य समिधश्चमधुसर्पिर्दधिरुपपत्रिमध्वक्ता:
कार्या: दधिस्थानेदुग्धंवा चरुस्तुकृताकृत: करणपक्षेपिप्रत्येकमेकाष्टाष्टाविंशत्यष्टोत्तर
शताहुतिपक्षा: तत्रएकाहुतिपक्षेस्त्रुचावदानधर्मेणाचार्योग्नौजुहुयात् अष्टाध्याहुतिपक्षेचतु
र्मुनिष्टिनिर्वापानंतरमनिर्वापेनवाचरुंबहुंनिर्मायाचार्यादय:सर्वेहस्तेनैवजुहुयु: । ततऋत्विज:
कृतस्यग्रहजपस्यदशांशेनतिलैर्ववमिश्रितैव्रींहिभिर्वाजुहुयु: । स्वतंत्रब्राह्मपक्षेसएववाजुहुया
त् अधिदेवताध्यंगकत्वपक्षेत्रयोविंशतिदेवतानांसमिच्चरुतिलादिनासमानसंख्येनजुहुयात् ।
तत्रसमिध:पालाश्य: निर्वापेचैतेभ्योनिर्वाप: अधिदेवतादीनांचसमिच्चरुहोमसंख्याग्रहसंख्या
तोन्यूनाकार्येतिशिष्टा: । चर्वेकाहुतिपक्षस्त्वत्रापिसाधारण: ॥
एषांसमिध:कनिष्ठपक्षेप्रत्येकंचतस्त्रश्चतस्त्रइतिशिष्टा: । समिच्चरुसंख्यासमानैवचैषांति
लादिद्रव्याहुतिसंख्याबोध्दव्या । इंद्राध्यष्टाधिकांगत्वेपिअधिदेवतादिदेवताभ्योपिहोम:
कार्य: । ग्रहादीनांचमंत्रास्तच्छंदोदेवतादिचग्रहपीठापूजामुक्तं । अत्रहुतिप्रमाणं ॥
तत्रसर्वा:समिध:प्रादेशमात्रा:ऋज्व्योनातिशुष्कार्द्रा: । तत्रदूर्वाणांतिसृणामेकैकाहुति: ।
कुशस्यतुत्र्यादिबहुपत्रस्यैव । अर्काध्यभावेपालाश्य:प्रतिनिधय: । चरोस्त्वेकाहुतिपक्षेऽ
ड्गुष्ठपर्वमात्रमवदानं अन्यपक्षेषुग्रासमात्रत्वं । तिलादीनांतुप्रसृतिमात्राद्वादशपर्वपूरिका
चेतिप्रमाणेउत्तमे अष्टसहस्त्रमष्टशतंवेतिमध्यमे चतुरशीतिश्चतु:षष्टिर्वेतिकनिष्ठे ॥
अत्राहुतिसंख्या । तत्रनवग्रहसमिधांनवशतीद्विसप्तविश्च यद्वाद्विशतंद्विपंचाशच्च
अथवाद्विसप्ततिरेव । तेषामेवचरुपक्षेएकाहुतिपक्षेनव अन्यपक्षत्रयेसमित्समानैवसंख्या
तिलादीनां जपदशांशस्तुसहस्त्राणिनवनवशतानिनवतिर्वेति । अधिदेवतादिपक्षेतत्समिधा
षट्‍शतीचतुश्चत्वारिंशच्च एकशतंचतुरशीतिश्चवाद्वानवतिर्वा । चरुपक्षेतस्यषट्‍शतीचतु
श्चत्वारिंशच्चचतु:षष्टिर्वाव्दात्रिंशव्दा । चरुपक्षेतस्यद्विशतीर्विंशतिश्चतु:षष्टिर्वाअष्टौवा । तिलादेस्तुसमिच्चरुसंख्यैवेति तत्तत्पक्षेसर्व:संख्याएकीकृत्यमहासंख्याबोध्दव्या ।
अत्रचकनिष्ठपक्षाश्रयणेपिसांगतैव मध्यमोत्तमपक्षाश्रयणेतुतत्तत्फलेतारतम्यंद्रष्टव्यं ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP