संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथापामार्जनम् व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथापामार्जनम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथापामार्जनम् Translation - भाषांतर श्री: ॥ दाल्भ्यउवाच ॥ भगवन्प्राणिन:सर्वेविषरोगाध्युपद्रवै: ॥ दुष्टग्रहोपघातैश्चसर्वकालमुपद्रुता: ॥१॥आभिचारिककृत्याभि: स्पर्शरोगैश्चदारुणै: ॥ सदासंपीडयमानास्तेतिष्ठंतिमुनिसत्तम ॥२॥येनकर्मविपाकेनग्रहरोगाध्युपद्रवा: ॥ नभवंतिनृणांतन्मेयथावद्वक्तुमर्हसि ॥३॥पुलस्त्यउवाच ॥ जनार्दनंभूतपतिंजगद्गुरुंस्मरन्मनुष्य:सततंमहामुने ॥ दुष्टान्यशेषाण्यपहंतिसध्योनि:शेषकार्याणिचसाधुसाधयेत् ॥४॥व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनितोषित: ॥ तेनरामुनिशार्दूलग्रहरोगादिभागिन: ॥५॥यैर्नतत्प्रवणंचित्तंसर्वदैवनरै:कृतं ॥ विषग्रहज्वराणांतेमनुष्यादाल्भ्यभागिन: ॥६॥आरोग्यंपरमामृध्दिंमनसायध्यदिच्छति ॥ तत्तदाप्नोत्यसंदिग्धंपरत्राच्युततोषकृत् ॥७॥नाधीन्प्राप्नोतिनव्याधीन्नविषयग्रहबंधनं ॥ कृत्यास्पर्शभवंवापितोषितेमधुसूदने ॥८॥सर्वदुष्टमस्तस्यसौम्यास्तस्यसदाग्रहा: ॥ देवानामप्यधृष्यौसौतुष्टोयस्यजनार्दन: ॥९॥य:सम:सर्वभूतेषुयथात्मनितथापरे ॥ उपवासादिनायेनतोषितोमधुसूदन: ॥१०॥तोषितेतत्रजायंतेनरा:पूर्णमनोरथा: ॥ अरोगा:सुखिनोभोगान्भोक्तामुनिसत्तम ॥११॥नतेषांशत्रवोनैवस्पर्शरोगाभिचारिकं ॥ ग्रहरोगादिकंवापिपापकार्यंनविध्यते ॥१२॥अव्याहतानिकृष्णस्यचक्रादीन्यायुधानिच॥ रक्षंतिसकलापभ्ध्योयेनविष्णुरुपासित: ॥१३॥दाल्भ्यउवाच ॥ अनाराधितगोविंदायेनरादु:खभागिन: ॥ तेषांदु:खाभिभूतानांयत्कर्तव्यंदयालुभि: ॥१४॥पश्यभ्दि:सर्वभूतस्थंवासुदेवंमहामुने ॥ समदृष्टयाहृषीकेशंतन्मेबृह्यविशेषत: ॥१५॥पुलस्त्यउवाच ॥ तद्वक्ष्यामिमुनिश्रेष्ठसमाहितमना:शृणु ॥ रोगदोषहरंनृणामुरुपापप्रणाशनं ॥१६॥सौवर्णंराजतंताम्रंमृन्मयंवानवंदृढं ॥ अव्रणंकलशंशुध्दंस्थापयतेत्तुंडुलोपरि ॥१७॥तत्रोदकंसमानीयशुध्दंनिर्मलमेवच ॥ एकंशतंकुशान्साग्रान्स्थापयेत्कलशोपरि ॥१८॥विरिंचिचिनासहोत्पन्नपरमेष्ठीनिसर्गज ॥ नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव ॥१९॥कुशमूलेस्थितोब्रह्माकुशमध्येजनार्दन: ॥ कुशाग्रेशंकरंविध्यात्रयोदेवा:कुशेस्थिता: ॥२०॥गृहीत्वातुसमूलाग्रान्कुशाञ्छुध्दनुस्पृशेत् ॥ मार्जयेत्सर्वगात्राणिकुशाग्रैर्दाल्भ्यशांतिकृत् ॥२१॥शरीयेयस्यतिष्ठंतिकुशोत्थाजलबिंदव: ॥ नश्यंतितस्यपापानिगरुडेनेवपन्नगा: ॥२२॥विष्णुभक्तोविशेषेणशुचिस्तद्गतमानस: ॥ रोगग्रहविषार्तानांकुर्याच्छांतिमिमांशुभां ॥२३॥वराहंनारसिंहंचवामनंविष्णुमेवच ॥ ध्यात्वासमाहितोभूत्वादिक्षुनामाविन्यसेत् ॥२४॥नारसिंहंसमभ्यर्च्युशुचौदेशेकुशासने ॥ दिग्रक्षांचतत:कुर्याद्विष्णुभक्त:समाहित: ॥२५॥मंत्रैरेतैर्यथालिंगंकुर्याद्दिग्बंधमादित: ॥ पूर्वेनारायण:पातुवारिजाक्षस्तुदक्षिणे ॥२६॥प्रध्युम्न:पश्चिमेपातुवामदेवस्तथोत्तरे ॥ ईशान्यांवामनश्चैवतथाग्नेय्यांजनार्दन: ॥२७॥नैऋत्यांपद्मनाभश्चवायव्यांचैवमाधव: ॥ ऊर्ध्वंगोवर्धनोदेवोह्यधरायांत्रिविक्रम: ॥२८॥एताभ्योदशदिग्भ्यस्तुसर्वत:पातुकेशव: ॥ जलेरक्षतुवाराह:स्थलेरक्षतुवामन: ॥२९॥अटव्यांनारसिंहश्चसर्वत:पातुकेशव: ॥ एवंकृत्वातुदिग्बंधंविष्णुंसर्वत्रसंस्मरेत् ॥३०॥अव्यग्रचित्त:कुर्वीतन्यासकर्मयथाविधि ॥ अंगुष्ठाग्रेतुगोविंदंर्जन्यांतुमहीधरं ॥३१॥मध्यमायांहृषीकेशमनामिक्यांत्रिविक्रमं ॥ कनिष्ठिक्यांन्यसेद्विष्णुंकरमध्येतुमाधवं ॥३२॥हृन्मध्येचिंतयेद्देवंपरमात्मानमीश्वरं ॥ नृसिंहंमणिबंधेचकरपृष्ठेजनार्दनं ॥३३॥कृतेचवैष्णवेन्यासेसर्वपापै:प्रमुच्यते ॥ एवंन्यासंकरेकृत्वापश्चादंगेषुविन्यसेत् ॥३४॥शिखायांकेशवंन्यस्यमूर्ध्निनारायणंन्यसेत् ॥ ललाटेमाधवंन्यस्यगोविंदंतुभ्रुवोर्न्यसेत् ॥३५॥चक्षुर्मध्येन्यसेद्विष्णुंश्रवणेमधुसूदनं ॥ त्रिविक्रमंकपोलेतुवामनंकर्णमूलयो: ॥३६॥नासारंध्रद्वयेचैवश्रीधरंकल्पयेद्बुध: ॥ उत्तरोष्ठेहृषीकेशंपद्मनाभंतथाधरे ॥३७॥दामोदरंदंतपंक्तौवाराहंचिबुकेतथा ॥ जिह्वायांवासुदेवंचतालौतुगरुडध्वजं ॥३८॥वैकुंठंकंठमध्येतुह्यनंतंनासिकोपरि ॥ दक्षिणेतुभुजेविप्रविन्यसेत्पुरुषोत्तमं ॥३९॥वामेभुजेमहाभागंराघवंहृदिविन्यसेत् ॥ हरिंनाभौतुविन्यस्यस्तनयो:पीतवाससं ॥४०॥पीतांबरंसर्वतनौहरिंनाभ्यांतुविन्यसेत् ॥ करेतुदक्षिणेविप्रतत:संकर्षणंन्यसेत् ॥४१॥वामेरिपुहरंविध्यात्कटिमध्येऽपराजितं ॥ पृष्ठेक्षितिधरंविध्यादच्युतंस्कंधयोर्द्वयो: ॥४२॥वक्षस्थलेमाधवंतुकुक्ष्योश्चयोगशायिनं ॥ योगीशंदक्षिणेपार्श्वेवामपार्श्वेश्रिय:पतिं ॥४३॥आंत्रेषुवासुदेवंचगुदमध्येऽव्ययंन्यसेत् ॥ स्वयंभुवंमेढ्मध्येह्यूर्वोश्चैवगदाधरं ॥४४॥जानुमध्येचक्रधरंजंघयोरच्युतंन्यसेत् ॥ पादयो:पुष्कराक्षंचसर्वतोविश्वरुपिणं ॥४५॥गुल्फयोर्नारसिंहंचपादपृष्ठेऽमितौजसं ॥ अंगुल्यांश्रीधरंन्यस्यपद्माक्षंसर्वसंधिषु ॥४६॥नखेषुमाधवंन्यस्यन्यसेत्पादतलेऽच्युतं ॥ रोमकूपेगुडाकेशंकृष्णंरक्तास्थिमज्जसु ॥४७॥मनोबुध्दिरहंकारचित्तेन्यस्यजनार्दनं ॥ आपादमस्तकंचैवप्रध्युम्नंकल्पयेद्रुध: ॥४८॥पूजाकालेतुदेवस्यस्नानकालेतथैवच ॥ होमारंभेचकर्तव्यंत्रिसंध्यासुचनित्यश: ॥४९॥एवंन्यासविधिंकृत्वास्वयंनारायणोभवेत् ॥ तनुर्विष्णुमयीतस्ययावत्किंचिन्नभाषते ॥५०॥एवंन्यासविधिंकृत्वायत्कार्यंशृणुतद्विज ॥ पादमूलेतुदेवस्यशंखंविन्यस्यनिर्मलं ॥५१॥वनमालांहृदिन्यस्यसर्वदेवाभिपूजितां ॥ गदांवक्षस्थलेन्यस्यचक्रंविन्यस्यपृष्ठत: ॥५२॥श्रीवत्सांकंन्यसेन्मूर्ध्निपंचांगंकवचन्यसेत् ॥५३॥ॐ नमोभगवतेविष्णवेकेशवायसर्वक्लेशापहर्त्रेहृदयायनम: ॥ ॐ नमोभगवतेविष्णवेकेशवायसर्वक्लेशापहर्त्रेशिरसेस्वाहा ॥ एवमेवशिखायैवषट् ॥ कवचायहुं ॥ नेत्रत्रयायवौषट् ॥अत्रायफट् ॥ इतिदिग्बंध: ॥ विष्णुरुर्ध्वमध:पातुवैकुंठोवैदिशोदश ॥ पातुमांसर्वतोरामोधन्वीचक्रीचकेशव: ॥५४॥अपामार्जनकोन्यास:सर्वव्याधिविनाशन: ॥ आत्मनश्चपरस्यापिविधिरेषउदाहूत: ॥५५॥वैष्णवेनतुकर्तव्य:सर्वसिध्दिप्रदायक: ॥ जपप्रारंभकालेतुह्यपामार्जनकंपरं ॥५६॥ततोजपेदिदंदाल्भ्यसर्वरोगविनाशनं ॥ आयुरारोग्यमैश्वर्यंज्ञानविद्वत्फलंलभेत् ॥५७॥यध्यच्छुभकरंलोकेतत्सर्वंप्राप्नुयान्नर: ॥ अभयंसर्वभूतेभ्योविष्णुलोकंसगच्छति ॥५८॥अस्यश्रीअपामार्जनस्तोत्रमंत्रस्य ॥ पुलस्त्योभगवान् ऋषि: ॥ अनुष्टुप् त्रिष्टुप् बृहत्य श्च्छंदांसि ॥ श्रीवराहोनृसिंहोवामनोविष्णुर्देवता ॥ हरअमुकस्यदुरितमितिबीजं ॥अच्युतानंतगोविंदेतिशक्ति: ॥ तप्तहाटककेशांतेतिकीलकं ॥ ज्वलत्पावकलोचनेतिकवं ॥वज्रायुधनखस्पर्शेतिव्यापकं ॥ हांहांहुंहुंफट्इत्यस्त्रं ॥ ममामुकस्यवाज्वरसन्निपातादिपीडाशमनार्थमपामार्जनस्तोत्रजपेविनियोग: ॥ अथध्यानं ॥ नीलोत्पलदलश्यामंपीतांबरधरंहरिं ॥ शंखचक्रगदापाणिंध्यात्वापामार्जनंजपेत् ॥५९॥बृहत्तनुंबृहद्गात्रंबृहद्दंष्ट्रंसुशोभनं ॥ समस्तवेदवेदांगयुक्तांगैर्भूषणैर्युतं ॥६०॥उध्दृत्यभूमिंपातालाध्दस्ताभ्यामुपगृह्यच ॥ आलिंग्यभूमिंशिरसामूर्ध्निजिघ्रंतमच्युतं ॥६१॥रत्नवैडूर्यमुक्ताभिर्भूषणैरुपशोभितं ॥ पीतांबरधरंदेवंशुक्लमाल्यानुलेपनं ॥६२॥त्रयस्त्रिंशत्कोटिदेवै:स्तूयमानंमुदान्वितं ॥ ऋषिभि:सनकाध्यैश्चस्तूयमानंदिवानिशं ॥६३॥नृत्यभ्दिरप्सरोभिश्चगीयमानंचकिन्नरै: ॥ इत्यंध्यात्वातथात्मानंजपेन्नित्यमतंद्रित: ॥६४॥सुवर्णमंडपांत:स्थंपद्मंध्यायेत्सकेसरं ॥ सकर्णिकैर्दलैश्चवह्यष्टाभि:परिशोभितं ॥६५॥कलकंरहितंदेवंपूर्णचंद्रार्बुदप्रभं ॥ तडित्समानशोभावत्कंठनालेनशोभितं ॥६६॥श्रीवत्सांकितवक्षस्थंतीक्ष्णदंष्ट्रंसुलोचनं ॥ जपाकुसुमसंकाशंरक्तहस्ततलान्वितं ॥६७॥पद्मासनसमारुढंयोगपद्मासमन्वितं ॥ पीतवस्त्रपरीधानंशुक्लवस्त्रोत्तरीयकं ॥६८॥कटिसूत्रेणहैमेननूपुरेणविराजितं ॥ वनमालादिशोभाढयंमुक्ताहारोपशोभितं ॥६९॥सपंकजंतुर्हस्तंतत्पत्रायतलोचनं ॥ प्रात:सूर्यसमाभ्यांवैकुंडलाभ्यांविराजितं ॥७०॥अनेकसूर्यसंकाशंमुकुटाटोपमस्तकं ॥ शंखचक्रगृहीताभ्यामुद्बाहुभ्यामथान्ययो: ॥७१॥केयूरकांतिसंस्पर्धिमुद्रिकारत्नशोभितं ॥ जानूपरिन्यस्तकरद्वंद्वंरत्ननखांकित ॥७२॥जंघाभरणसंस्पर्धिविस्फूर्जत्कंकणत्विषं ॥ चतुर्थीचंद्रसंकाशंसुदंष्ट्रमुखपंकजं ॥७३॥मुक्ताफलाभसुमहद्दंतावलिविराजितं ॥ चंपकाकुसुमाभंचसुनासामुखपंकजं ॥७४॥अतिरक्तोष्ठवदनंव्यात्तास्यमतिभीषणं ॥ वामांकस्थश्रियायुक्तंशांतिदांतुंगरोहिणीं ॥७५॥अर्हणींचक्रपादाचसुनासांशुभलक्षणां ॥ सुभ्रूंसुकेशींसुश्रोणींसुभुजांद्विभुजाननां ॥७६॥सुप्रतिष्ठांशुभ्रदंतींचतुर्हस्तांविचिंतयेत् ॥ दुकूलाढ्यांचचार्वंगींहरिणींसर्वकामदां ॥७७॥तप्तकांचनसंकाशांसर्वाभरणभूषितां ॥ सुवर्णकलशप्रख्यपीनोन्न्तपयोधरां ॥७८॥गृहीतमातुलिंगाभ्यामुब्दाहुभ्यामथान्ययो: ॥ गृहीतपद्मयुगुलजांबूनदकरान्विता ॥७९॥एवंदेवींनृसिंहस्यवामांकोपरिसंस्मरेत् ॥ देवंचकर्णिकामध्यकाम्येनित्येचकर्मणि ॥८०॥आत्मानंचनृसिंहस्यशरीरंसंस्मरेदपि ॥ हेमाद्रिशिखराकारंशुध्दस्फटिकसन्निभं ॥८१॥पूर्णचंद्रनिभवंदेवंद्विभुजंवामनंस्मरेत् ॥ सूर्यकोटिप्रतीकाशंचंद्रकोटिसुशीतलं ॥८२॥ज्वलत्कालानलप्रख्यतंतडित्कोटिसमप्रभं ॥ सुंदरंपुंडरीकाक्षंकिरीटेनविराजितं ॥८३॥षोडशस्त्रीसहस्त्रैश्चगंधर्वाप्सरसांगणै: ॥ चतुर्मुखाध्यैर्देवेशै:स्तोत्राराधनतोषितै: ॥८४॥त्र्यंबकोवैमहादेवोनृत्यतेसन्निधौहरे: ॥८५॥अजिनदंडाकमंडलुमेखलारुचिरपावनवामनमूर्तये ॥ मितजगत्रितयाजितारयेनिगमवाक्वपटवेबटवेनम: ॥८६॥शांतंपद्मासनस्थंसकलशशिनिभंश्रीपतिंकोमलांगंहस्तेपीयूषकुंभंदधियतु कवलंहस्तपद्मेदधानं ॥८७॥अभ्रश्याम: शुभ्रयज्ञोपवीतीसत्कौपीन:पीतकृष्णाजिनश्री: ॥ छत्रीदंडीपुंडरीकायताक्ष:पायाद्देवोवमानोब्रह्मचारी ॥८८॥अतिसुविमलगात्रंरुक्मपात्रस्थमन्नंसुललितदधिखंडंपाणिनादक्षिणेन ॥ कलशममृतपूर्णंवामहस्तेदधानंतरतिसकलदु:खंवामनंभावयेध्य: ॥८९॥क्षीरसागरकल्लोलसितरक्तनुंशुभं ॥ मणिमुक्तामयेरम्येसंक्रांतंसस्थितंशुभं ॥९०॥शुभ्रमेघविनुर्मुक्तंसुधासिक्तंसुसुंदरं ॥ एकनामनमात्मानंकृत्वापामार्जनंजपेत् ॥९१॥ॐ नम:परमार्थायपुरुषायमहात्मने ॥ नमस्कृत्वाप्रवक्ष्यामियत्तत्सिध्यतुमेवच: ॥९२॥अरुपबहुरुपायव्यापिनेपरमात्मने ॥ नमस्कृत्वाप्रवक्ष्यामि ॥९३॥निष्कल्मषायशुध्दायध्यातृपापहरायच ॥ नम० ॥९४॥नारायणायदेवायविश्वेशायेश्वरायच ॥ नम० ॥ ९५ ॥सच्चिदानंदरुपाययोगिनेपरमात्मने ॥ नम० ॥९६॥वराहायनृसिंहायवामनायमहात्मने ॥ नम० ॥९७॥गोविंदपद्मनाभायवासुदेवायविष्णवे ॥ नम० ॥९८॥दामोदरायदेवायअनंतायमहात्मने ॥ नम० ॥९९॥जनार्दनायकृष्णायउपेंद्रश्रीधरायच ॥ नम० ॥१००॥त्रिविक्रमायरामायवैकुंठायनरायच ॥ नम० ॥१०१॥हिरण्यगर्भपतयेहिरण्यकशिपुच्छिदे ॥ नम० ॥२॥भक्तप्रियायविभवेविष्वक्सेनायशार्ड्गिणे ॥ नकस्कृत्वा० ॥३॥चक्रहस्तायशूरायतार्क्ष्यपत्रायधीमते ॥ नम० ॥४॥अधोक्षजायदक्षायमत्स्यायमधुसूदिने ॥ नम० ॥५॥दैत्यारयउपेंद्रायभूतानांजीवनायच० ॥नम० ॥६॥विष्टरश्रवसेतस्मैक्षीरांभोनिधिशायिने ॥ नमस्कृत्वाप्रवक्ष्यामियत्तात्सिध्यतुमेवच: ॥७॥नारसिंहमहोग्रेशतस्मैतुभ्यंनमोनम: ॥ वराहेशनृसिंहेशवामनेशत्रिविक्रम ॥८॥हयग्रीवेशसर्वेशहृषीकेशहराशुभं ॥ अपराजितचक्राध्यैश्चतुर्भि:परमायुधै: ॥९॥अखंडितानुभावैश्चसर्वदु:खहरोभव ॥ हरामुकस्यदुरितंदुष्कृतंदुरुपासितं ॥११०॥मृत्युबाधार्तिभयदंदुरिष्टस्यचयत्फलं ॥ परापध्यानसंस्थानप्रयुक्तंचाभिचारिकं ॥ गरस्पर्शमहारोगप्रयुक्तंजरयत्वरं ॥११॥कृष्णायवासुदेवायहरयेपरमात्मने ॥ प्रणतक्लेशनाशायगोविंदायनमोनम: ॥१२॥हरयेवासुदेवायनम:कृष्णायशार्ड्गिणे ॥ नम:पुष्करनेत्रायकेशवायादिचक्रिणे ॥१३॥नम:कमलकिंजल्कपीतनिर्मलवाससे ॥ महाहवरिपुस्कंधधृष्टरुपायचक्रिणे ॥१४॥दंष्ट्रोध्दृतक्षितिधृतेत्रिमूर्तिपतयेनम: ॥१५॥महायज्ञवराहायशेषभोगोरुशायिने ॥ तप्तहाटककेशांतज्वलत्पावकलोचन ॥१६॥वज्रायुधनखस्पर्शदिव्यसिंहनमोस्तुते ॥ आधिव्याधिमहाभीतिमहादु:खनिवारण ॥१७॥अपारनरसिंहेशदिव्यसिंहनमोस्तुते ॥ श्रीनृसिंहोदिव्यसिंह:सर्वारिष्टार्तिदु:खहा ॥१८॥एकवीरोद्भुतबलोमंत्रयंत्रैकभंजन: ॥ सर्वत्ररक्षमांनाथभयेभ्यश्चग्निलोचन ॥१९॥प्रसादात्तवदेवेशनमांहिंसंतुहिंसका: ॥ तीक्ष्णैर्नखाग्रैर्यमुरोविदार्यत्रात्वासुरान्दैत्यपतिंजघान ॥ सुदर्शनंपद्मगदांचशंखंबिभ्रन्नृसिंहोस्तुममाभयाय ॥१२०॥काश्यपायातिह्र्स्वायऋग्यजु:सामरुपिणे ॥ तुभ्यंवामनरुपायक्रमतेगांनमोनम: ॥२१॥वराहाशेषदुष्टानिसर्वपापफलानिवै ॥ मर्दमर्दमहादंष्ट्रमर्दमर्दमधीधर ॥२२॥नारसिंहकरालास्यदंतप्रांतनखोज्ज्वल ॥ भंजभंजनिनादेनदुष्टान्यस्यार्तिनाशन ॥२३॥ऋग्यजु:सामगर्भाभिर्वाग्भिर्वामनरुपधृक् ॥ प्रशमंसर्वदु:खानिनयत्वाशुजनार्दन: ॥२४॥अस्यश्रीज्वरमंत्रस्य ॥ कालाग्निऋषि: ॥ अनुष्टुपछंद: ॥ महादेवोदेवता ॥ सकलज्वरोपशांत्यर्थेजपेविनियोग: ॥ भस्मायुधायविद्महेएकदंष्ट्रायधीमहि ॥ तन्नोज्वर:प्रचोदयात् ॥ त्रिपाभ्दस्मप्रहरणस्त्रिशिरारक्तलोचन: ॥ समेप्रीत:सुखंदध्यात्सर्वामयपतिर्ज्वर: ॥२५॥आध्यंतवंत:कवय:पुराणा:सूक्ष्माबृहंतोह्यनुशातिसार: ॥ सर्वान् ज्वरान्घ्नंतुममानिरुध्दप्रध्युम्नसंकर्षणवासुदेवा: ॥२६॥कुबेरतेमुखंरौद्रंनंदिन्नानंदमावह ॥ ज्वरमृत्युभयंघोरंविशनाशयमेज्वरं ॥२७॥अंगवंगकलिंगेषुसौराष्ट्रमगधेषुच ॥ वारणस्यांचयद्दत्तंकिंनस्मरसिरेज्वर ॥२८॥श्रीकंठक्रोधसंभूतसुरासुरनमस्कृत ॥ नित्यंक्रतुरिपु:शीघ्रंसुखंवितरमेज्वर ॥२९॥एषांचतुर्णांमंत्राणामयुतोजपईरित: ॥ यौसौसरस्वतीतीरेह्यपुत्रोब्राहमणोमृत: ॥१३०॥यवादिकृतपद्मेषुसमाह्वयामिपूज्यच ॥ त्रिरात्रज्वरनाशायददाम्येतत्तिलोदकं ॥३१॥येषुमंत्रेषुया:प्रोक्त्तादेवतास्तास्तुतर्पयेत् ॥ ताम्रपात्रेतिलान्कृत्वागंधपुष्पाक्षतादिभि: ॥३२॥शुध्दोदकेनशुध्दात्मासहस्त्रपरिसंख्यया ॥ आवाह्यपूजयित्वातुस्थंडिलेचोपकल्पिते ॥३३॥होमंचाथप्रकुर्वीतक्षीराज्येनाम्रपल्लवै: ॥ आध्यंतमंत्रै:स्वाहांतैर्दशमंत्रैश्चमंत्रवित् ॥३४॥एवंकृतेज्वरा:सर्वेप्रशमंयांत्यशेषत: ॥ नबाधंतेपुनस्तानिदुष्टादीनांपरिग्रहात् ॥३५॥आयुरारोग्यमैश्वर्यंज्ञानंवित्तंफलंलभेत् ॥ यध्यच्छुभतरंलोकेतत्ससर्वंप्राप्नुयान्नर: ॥३६॥ऐकाहिकंव्ध्याहिकंचतथात्रिदिवसज्वरं ॥ चातुर्थिकंतथात्युग्रंतथैवसततज्वरं ॥३७॥दोषोत्थंसन्निपातोत्थंतथैवागंतुकज्वरं ॥ शमंनयाशुगोविंदछिंधिछिंध्याशुवेदनां ॥३८॥नेत्रदु:खंशिरोदु:खंदु:खंचोदरसंभवं ॥ अतिकासमतिश्वासमतितापंसवेपंथु ॥३९॥गुदघ्राणांघ्रिरोगांश्चकुष्ठरोगंतथाक्षयं ॥ कामलादींस्तथारोगान् ॥ प्रमेहांश्चातिदारुणान् ॥४०॥भगंदरातिसारांश्चमुखरोगांश्चवल्गुलीन् ॥ चित्रादीन्नखरोगांश्चत्वगस्थ्यंतर्बहि:स्थितान् ॥४१॥अश्मरींमूत्रकृच्छ्रांश्चरोगानन्यांश्चदारुणान् ॥ येवातप्रभवारोगायेचपित्तसमुद्भवा: ॥४२॥कफोभ्दवाश्चयेरोगायेचान्येसान्निपातिका: ॥ आगंतुकाश्चयेरोगालूताविस्फोटकादय: ॥४३॥तेसर्वेप्रशमंयांतुवासुदेवापमार्जिता: ॥ विलयंयांतुतेसर्वेविष्णोरुच्चारणेनतु ॥४४॥क्षयंगच्छंत्वशेषास्तेचक्रेणाभिहताहरे: ॥ अच्युतानंतगोविंदनामोच्चारनभेषजात् ॥४५॥नश्यंतिसकलारोगा:सत्यंसत्यंवदाम्यहं ॥४६॥अच्युतेतिमन:पूतमनंतेतिवचस्तथा ॥ गोविंदेतितनु:पूतात्वज्ञाताज्ञानपातकै: ॥४७॥अच्युतानंतगोविंदपरमानंदमाधव ॥ ॐ नम:संपुटीकृत्यजपन्नेवमधोक्षजं ॥४८॥सत्यंसत्यंपुन:सत्यमुत्क्षिप्यभुजमुच्यते ॥ वेदशास्त्रात्परंनास्तिनदेव:केशवात्पर: ॥४९॥स्थावरंजंगमंवापिकृत्रिमंचापियद्विषं ॥ दंतोभ्दूतनंखोभ्दूतमाकाशप्रभवंविषं ॥१५०॥लूतादिप्रभवंयच्चविषमत्यंतदु:खदं ॥ शमंनयाशुतत्सर्वंकीर्तितोसिजनार्दन ॥५१॥ग्रहान्प्रेतग्रहांश्चैवतथावैडाकिनीग्रहान् ॥ मुखमंडलिकान्घोरान् रेवतींवृध्दरेवतीं ॥५२॥वृध्दाख्यांश्चग्रहांश्चोग्रांस्तथामातृग्रहानपि ॥ बालस्यविष्णोश्चरितंहंतुबालग्रहानिमान् ॥५३॥नारसिंहस्यतेदृष्ठ्यादग्धायेचापियौवने ॥ सटाकरालवदनोनारसिंहोमहाबल: ॥५४॥ग्रहानशेषान्त्सर्वेषांखादखादाग्निलोचन ॥ वृध्दानांयेग्रहा:केचिध्येचबालग्रहा:क्वचित् ॥५५॥नारसिंहमहासिंहज्वालामालोज्ज्वलानन ॥ अमीषांदेवदेवेशधनुर्ग्रहणमोक्षणात् ॥५६॥येरोगायेमहोत्पातायद्विषंयेमहाग्रहा: ॥ अत्यंतपातसंभूतायेकौटिल्यसमुभ्दवा: ॥५७॥यानिचक्रूरभूतानिग्रहपीडाश्चदारुणा: ॥ शस्त्रक्षतेषुयेदोषाज्वालागर्दभकादय: ॥५८॥यानिचान्यानिभूतानिप्राणिपीडाकराणिवै ॥ तानिसर्वाणिसर्वात्मन्परमात्मन् जनार्दन ॥५९॥किंचिद्रूपंसमास्थायवासुदेवाशुनाशय ॥ क्षिप्त्वासुदर्शनंचक्रंज्वालामालातिभीषणं ॥१६०॥सर्वदु:खोपशमनंकुरुदेववराच्युत ॥ सुदर्शनमहाज्वालछिंधिछिंध्याशुवेदनां ॥६१॥सुदर्शनमहाचक्रगोविंदस्यवरायुध ॥ सुदर्शनमहावेगकोटिसूर्यसमप्रभ ॥६२॥त्रैलोक्यरक्षाकर्तात्वंदुष्टदानवमर्दन ॥ तीक्ष्णधारमहावेगछिंधिछिंधिमहाज्वरं ॥६३॥छिंधिछिंधिमहाव्याधिंछिंधिछिंधिमहाज्वरं ॥ छिंधिवातंचलूतांचछिंधिघोरंमहद्विषं ॥६४॥रुजंदाहंचशूलंचनिमिषज्वालगर्दभं ॥ सुदर्शनस्यमंत्रेणग्रहायांतुदिशोदश ॥६५॥ॐ नमोभगवतेभोभोसुदर्शनदुष्टंदारयदारयदुरितंहनहनपापंमथमथ आरोग्यंकुरुकुरुहांहांहुंहुंफट्ठ:ठ:हननोद्विष: ॥ त्रैलोक्यरक्षाकर्तात्वमाज्ञापयजनार्दन ॥ ॐ नमोभगवतेभोभोसुदर्शनचक्रायुधायमहाशस्त्रास्त्रजायभूतेभ्योभयंनाशयनाशयछिंधिछिंधिपरमंत्रान्परयंत्रान्परतंत्रान् जारणमारणादिछेदयछेदयहुंफट्स्वाहा ॥ ॐ नमोभगवतेगरुडध्वजायएह्येसर्वज्वरभयंचक्रेणचिंधिछिंधिभिंधिभिंधिमुद्गरशंखचक्रगदापद्मखड्गै:सर्वज्वरभयंहरहरनाशयनाशयमामामरणमचिरेणक्षरक्षाकर्तात्वं आज्ञापयजनार्दनहुंफट्स्वाहा ॥ ॐ त्रौंह्रौंसुदर्शनमहायंत्रराजधगधगनितांतभय्म्करान्छिधिछिंधिमिंधिमिंधिविदारयपरमंत्रान् परतंत्रान् अभिचारान् ग्रासयपरमंत्राणिदुष्टचेटककरणमारीमहामारीग्रहवेतालपिशाचभूतप्रेतादीन् भक्षयभक्षयसर्वभूतानित्रासयत्रासयस्वाहा ॥ ॐ अचक्रायविचक्रायसुचक्रायअसुरांतकचक्रायसर्वलोकरक्षणायचक्रायसुदर्शनायास्त्रराजायहुंफट्स्वाहा ॥ इतिसुदर्शनविध्या ॥सर्वदुष्टानिरक्षांसिक्षयंयांतुविभीषया ॥ प्राच्यांरक्षप्रतीच्यांचदक्षिणोत्तरयोस्तथा ॥६६॥ईश्यान्येचतथाग्नेय्यांनैऋत्यांचमहादिशं ॥ वायव्यांसर्वभूतेभ्य:सदारक्षांकरोत्वसौ ॥६७॥रक्षांकरोतुसर्वत्रश्रीनृसिंह:स्वगर्जितै: ॥ भुविदिव्यंतरिक्षेचपार्श्वत:पृष्ठतोऽग्रत: ॥६८॥व्याघ्रसिंहवराहेषुअग्निचोरभयेषुच ॥ रक्षांकरोतुभगवान्बहुरुपीजनार्दन: ॥६९॥यथाविष्णुर्जगत्सर्वंसदेवासुरमानुषं ॥ तेनसत्येनसकलंदुष्टमस्यप्रशाम्यतु ॥१७०॥यथाविष्णौस्मृतेसध्य:क्षयंयातीहपातकं ॥ तेनसत्येन० ॥७१॥यथायज्ञेश्वरोविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७२॥परमात्मायथाविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७३॥यथायोगेश्वरोविष्णुर्वेदांतेष्वपिगीयते ॥ तेनसत्येन० ॥७४॥शांतिरस्तुशुभंचास्तुप्रणश्यत्वसुखंचयत् ॥ वासुदेवशरीरोत्थै:कुशै:संमार्जितोमया ॥७५॥अपामार्जनगोविंदोनरनारायण: सदा ॥ ममास्तुसर्वदु:खानांप्रशमोवचनाध्दरे: ॥७६॥शांता:समस्तरोगास्तेग्रहा:सर्वेविषाणिच ॥ भूतानिप्रशमंयांतुसंस्मृतेमधुसुदने ॥७७॥एतत्समस्तरोगेषुभूतग्रहभयेषुच ॥ अपामार्जनकंशस्त्रंविष्णोर्नामाभिमंत्रित: ॥७८॥यथाचक्रायुधंविष्णोर्थथाशूलंहरस्यच ॥ यथावज्रंसुरेंद्रस्यतथाविप्रकरेकुशा: ॥७९॥एतेकुशाविष्णुशरीरसंभवाजनार्दनाग्रेस्वयमेवचागता: ॥ हतंमयादुष्टमशेषमस्यस्वस्थोभवत्वेषवचोयथाहरे: ॥१८०॥शांतिरस्तुशिवंचास्तुदुष्टमस्यप्रशाम्यतु ॥ यदस्यदुरितंकिंचित्तत्क्षिप्तंलवणार्णवे ॥८१॥स्वास्थ्यमस्यसदैवास्तुहृषीकेशस्यकीर्तनात् ॥ यतएवागतंपापंतत्रैवप्रतिगच्छतु ॥८२॥एतद्रोगादिपीडासुजंतूनांहितकाम्यया ॥ त्रिसंध्यंजपतेयस्तुसर्वरोगै:प्रमुच्यते ॥८३॥विष्णुभक्तेनकर्तव्यमपामार्जनकंपरं ॥ अनेनसर्वदु:खानिप्रशमंयांत्यसंशयं ॥८४॥सर्वभूतहितार्थायकुर्यात्तस्मात्सदैवहि ॥ कुर्यात्तस्मात्सदैवह्योंनमइतिशक्तिबीजं ॥८५॥यइदंधारयेद्विद्वान् श्रध्दाभक्तिसमन्वित: ॥ ग्रहास्तंनोपसर्पंतिनरोगानचराक्षसा: ॥८६॥धन्योयशस्वीशत्रुघ्न:स्तवोयंमुनिसत्तम ॥ पठतांशृण्वतांचापिददातिपरमांगतिं ॥८७॥स्तोत्रराजमिदंनामअपामार्जनकंहरे: ॥ विष्णुभक्तेनकर्तव्यंब्रह्महत्याविनाशनं ॥८८॥विष्णो:प्रीतिकरंस्तोत्रंय:पठेन्नियमेनतु ॥ तस्यतुष्यतिगोविंदोमनसाचिंतितंलभेत् ॥८९॥जन्मकोटिकृतंपापंपठनादेवनश्यति ॥ गोसहस्त्रफलंतस्यपरंपदमवाप्नुयात् ॥१९०॥दाल्भ्योनाममहाभाग:पुलस्त्योब्रह्मनंदन: ॥ तयो:संवादसंभूतमपामार्जनकंपरं ॥१९१॥इतिश्रीविष्णुधर्मोत्तरपुराणेदाल्भ्यपुलस्त्यसंवादेअपामार्जनस्तोत्रंसंपूर्णं ॥ श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP