संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमलमासव्रतम्

व्रतोदयान - अथमलमासव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ देशकालौनिर्दिश्यममसकलदु:खदारिद्र्यनाशपुत्रपौत्रेश्वर्यधर्मार्थकाममो
क्षप्राप्तिद्वाराश्रीजनार्दनप्रीत्यर्थंकृतस्याचरणीयस्यचमलमासव्रतस्यसांगतार्थंव्रतोध्यापनं
करिष्ये ॥
गण० स्वस्ति० वृताचार्य:सर्वतोभद्रोपरिपरितो द्वादशमध्यीकंएवंत्रयोशकलशान्महीध्यौरि
त्याध्यावाहितेमध्यकलशेसुवणमयंलक्ष्मीयुतजनार्दनंअतोदेवाइत्यावाह्यपूजयेत् ॥
प्रातरग्निंप्रतिष्ठाप्यअत्रप्रधानंलक्ष्मीजनार्दनं अतोदेवाइतिऋक् षट्केनसमित्तिलाज्यचरुपा
यसै: प्रतिद्रव्यमष्टोत्तरसहस्त्राहुतिभि:ब्रह्मादीनेकैकयाज्याहुत्यायक्ष्ये ॥ ततोवायनंकांस्य
पात्रेनिधायदध्यात् ॥ विप्रंसंपूज्य ॥ अधिमासेतुसंप्राप्तेश्रीजनार्दनतुष्टये ॥ नरकोत्तारणा
र्थायमयादानंप्रदीयते ॥ त्रयस्त्रिंशदपूपांश्चशर्कराघृतसंयुतान् ॥ सदक्षिणाहंतुभ्यंकांस्यपात्रे
निधायच ॥ दास्येजनार्दनप्रीत्यैगृहाणत्वंद्विजोत्तम ॥  मलमासस्तुमासानांमलिन:पापसं
भव ॥ तत्पापस्यविशुध्द्यर्थंवायनंप्रददाम्यहं ॥ इदंत्रयस्त्रिंशत्संख्याकापूपवायनदानंसकां
स्यपात्रंतुभ्यंसंप्रददे ॥
तथोयथाविभवमाचार्यायान्येभ्यश्चतिलपात्रंघृतपात्रंउपानहौशय्यांचदत्त्वापीठंगांचदत्त्वाब्राह्मणभोजनंसंकल्प्यकर्मेश्वरार्पणंकुर्यात् ॥  इतिमलमासव्रतोध्यापनम् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP