संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसंकल्प:ऋत्विग्वरणंच

व्रतोदयान - अथसंकल्प:ऋत्विग्वरणंच

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ततादौयजमान:कूष्मांडहोमब्रह्मकूर्चादिभिरात्मतनुंपावयित्वामुहूर्तात्पूर्वदिनेकृतमंग
लस्नान:शुक्लमाल्यानुलेपन:सभार्य:स्वासनेउपविश्याचम्यपवित्रपाणि:प्राणानायम्यदेशका
लौस्मृत्वाआत्मन:पापक्षयपूर्वकं दशपूर्वान्दशपरानात्मनासहैकविंशतिपुरुषान् पितृतोमातृ
तश्चोध्दर्तुकामोऽहंश्रीपरमेश्वरप्रीत्यर्थं यथाज्ञानेनयथामिलितोपचारद्रव्यैर्देशकालाध्यनुसार
त: एकाहाध्यधिवासप्रकारेणआचार्यब्रह्मसदस्यादिद्वाराशिवप्रतिष्ठांविष्णुप्रतिष्ठांवाकरि
ष्ये ॥ तथाचपत्नीपुत्रादिसहितस्यममप्रतिमापिंडिकाकुंडतोरणस्तंभादिषुप्रधानांगकर्मसुचही
नाधिकांगता दिकर्मान्यथाकरणादिविविधनिमित्तसूचितसर्वानिष्टनिबर्हणार्थं अस्यकर्मण:
साद्गुण्यार्थंचग्रहमखंतिलै:शांतिहोमंचकरिष्ये ॥
आदौनिर्विघ्नतासिध्द्यर्थंगणपतिपूजनंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंआचार्यवरणंक
रिष्यते ॥
तानिकृत्वाआचार्यादीन्वृणुयात् ॥ यथा ॥ अमुकप्रवरान्विताऽमुकगोत्रोत्पन्नोऽमुकशाखामु
कसूत्राध्यायीअमुकशर्माऽहं ॥
अमुकप्रवरोपेतामुकगोत्रोत्पन्नममुकशाखामुकसूत्राध्यायिनममुकशर्माणंअमुकदेवप्रतिष्ठाख्येकर्मणिमुख्यकुंडेविहितहोमंकर्तुमाचार्यंत्वामहंवृणे ॥
आचार्योवृतोऽस्मियथाज्ञानत:कर्मकरिष्यामीतिवदेत् ॥ एवंब्रह्माणंसदस्यंप्रतिकुंडं ब्रह्माण
माचार्यंच ॥ एकोवाब्रह्मा ॥
प्रतिकुंडंऋत्विजोजापकादींश्चवृत्त्वासर्वान्मधुपर्कादिनार्हयित्वाप्रार्थयेत् ॥ आचार्यप्रार्थना ॥
यथाशक्रस्यवागीशआचार्य:सर्वकर्मसु ॥
तथामयात्वमाचार्योवृतोऽस्मिन्सर्वकर्मणि ॥ मंत्रमूर्तिर्भवान्नाथ:संसाराघौघनाशन: ॥
श्रीदेवस्यप्रतिष्ठायांकुरुकर्मयथोदितं ॥ त्वत्प्रसादान्निजेष्टंचसमग्रंफलमाप्नुयां ॥
संसारभयभीतेनह्येषयज्ञमहोत्सव: ॥ प्रारब्धस्त्वत्प्रसादेननिर्विघ्नंमेभवत्विति ॥
ब्रह्माणं-यथाचतुर्मुखोब्रह्माशक्रादीनांमखेप्रभु: ॥ तथात्वंममयज्ञेस्मिन्ब्रह्मत्वेनवृतोह्यसि ॥ सदस्यं-त्वंनोगुरु:पितामातात्वंप्रभुस्त्वंपरायणं ॥ त्वत्प्रसादाच्चविप्रर्षेसर्वंमेस्यान्मनोग
तं ॥ आपद्विमोक्षणार्थायकुर्ययज्ञमतंद्रित: ॥
ऋत्विग्भि: सहित:शुध्दै:संयतै:सुसमाहितै: ॥ आचार्येणचसंयुक्त:कुरुकर्मयथोदितं ॥
गणपं-प्रारिप्सितस्ययज्ञस्यजपस्यहवनस्यच ॥ निर्विघ्नेनसमाप्त्यर्थंत्वामहंगणपंवृणे ॥ उपद्रष्टारं-भगवन्सर्वधर्मज्ञसर्वधर्मभृतांवर ॥ विततेममयज्ञेऽस्मिन्नुपद्रष्टाभवद्विज ॥
सर्वेषांसमुच्चयेनप्रार्थना ॥ अस्ययागस्यनिष्पत्तौभवंतोऽभ्यर्थितामया ॥ सुप्रसन्ना:प्रकुर्वंतु
कर्मेदंविधिपूर्वकं ॥
अस्मिन्कर्मणियेयेतुवृतागुरुमुखामया ॥ सावधाना:प्रकुर्वंतुस्वंस्वंकर्मयथोदितं ॥ इतिसर्वा
न्संपूज्यसंप्रार्थ्यसाष्टांगंप्रणमेत् ॥ तेचसर्वेप्रत्येकं वृतोऽस्मियथाज्ञानत:कर्मकरिष्यामीति
वदेयु: ॥ इति ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP