संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशिवरात्रिव्रतम्

व्रतोदयान - अथशिवरात्रिव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:सर्वपापक्षयपूर्वकमक्षयभोगमोक्षप्राप्त्यर्थंआचरितशिवरात्रि
व्रतोध्यापनंकरिष्ये ॥
वृताचार्य: अन्यैर्द्वादशब्राह्मणै:सहपूजामारभेत् ॥ द्वादशलिंगोद्भवे सर्वतोभद्रगर्भेपीठेउ
क्तविधिनाब्रह्मादिदेवता:संपूज्य तत्रमध्यकुंभेउमामहेश्वरंत्र्यंबकमितिमंत्रेणप्रतिष्ठाप्यपुर
तोराजतंवृषभंप्रतिष्ठापयेत् ॥
द्वादशब्राह्मणा:द्वादशलिंगस्थकलशेषुद्वादशशप्रतिमा: पूजयेयु: ॥ तत्रप्राच्यां महेशं अघोरं पशुपतिं ॥
दक्षिणस्यां पंचवक्रं उग्रं रुद्रं ॥ पश्चिमायां भवं शर्वं शंभुं ॥ उत्तरस्यां शिवं भीमं भीमपराक्रमं ॥
प्रतिकलशंपरितोलोकपालान् ॥ अत्रप्रधानं ॥ उमामहेश्वरं पायस १ बिल्वपत्र २ तिल ३ दूर्वा ४ घृत ५ द्रव्यै: प्रत्येकं अष्टोत्तरशत १०८ संख्याकाहुतिभि: ॥
द्वादशकलशस्थदेवता:प्रत्येकंप्रतिद्रव्यंअष्टाष्टसंख्याकाहुतिभि:तैरेवद्रव्यै: ॥
परिवारदेवता:ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ एवंहोमंसंपाध्यदेवता:पूजयेत् ॥
शंभोप्रसीददेवेशसर्वलोकेश्वरप्रभो ॥ तवरुपप्रदानेनममसंतुमनोरथा: ॥ चतुर्दशनामानि ॥ अजैकपादहिर्बुध्न्योभव:शर्वउमापति: ॥
(पक्षे उमायुक्तशिवोदेवतात्र्यंबकंगौरीर्मिमायेतिमंत्रौतिलव्रीहिपायसयवद्रव्याणि ॥ अजैक
पादादिनामभि:प्रत्येकंचतुर्दशाहुतिसंख्याकोबिल्वपत्रैर्होम:) ॥ अन्यत्समानं ॥
इतिशिवरात्रिव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP