संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथमंडपकुंडस्थंडिलादिप्रमाणं

व्रतोदयान - अथमंडपकुंडस्थंडिलादिप्रमाणं

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तदंगहोमार्थंहोमरुद्रेचप्रधानहोमार्थंमंडपंकुंडंचकुर्यात् ॥ इदंचद्वयंहोमांगमेवअनाव
श्यकंच ॥ करणेफलाधिक्यं ॥
तत्रमंडपोऽष्टहस्तोदशहस्तश्चकनिष्ठ: द्वादशहस्तश्चतुर्दशहस्तश्चमध्यम: षोडशहस्तो
ष्टादशहस्तश्चोत्तम: ॥
सर्वेचतुरस्त्राश्चतुर्द्वारा:कार्या: ॥ तत्राष्टहस्तादिमंडपांस्तावन्मानसूत्रेणप्राच्यादिसाधनपुर:
सरंसमचतुरस्त्रान्साधयित्वा तत्सूत्रंत्रेधाविभागेनपातयित्वाबाह्येद्वादशसूत्रसंपातेषुद्वादश
स्तंभान्निखनेत् ॥
चतुसृषुदिक्षुद्विहस्तचतुरंगुलाधिकद्विहस्तांष्टांगुलाधिकद्विहस्तविस्तृतानिद्वाराणिकर्तुं
द्वारशाखाख्यंस्तंभद्वयंनिखेयं ॥
एतेचविंशतिस्तंभा:पंचहस्ता:कार्या: ॥ तेषामुपरिचूडासुसरंध्रकाष्ठनितिर्यग्देयानि ॥
द्वारसंमुखतयाचहस्तमात्राब्दहि:पूर्वादिप्रादक्षिण्यक्रमेणाश्वत्थोदुंबरप्लक्षवटशाखाकृतानिपंचषट्‍सप्तहस्तोच्छ्रायाणिअधममध्यमोत्तममंडपेषुहस्तद्वयसपादहस्तद्वयसार्धहस्तद्वय
विस्तृतानितोरणानिकार्याणि ॥
तोरणानांचोपरितिर्यक् फलकेषुशैवकर्मत्वात्रिशूलाकारा:पंचसप्तनवांगुला:कनिष्ठमध्यमोत्त
ममंडपेषुमध्येकीलानिखेया: ॥
मध्यसूत्रसंपातचतुष्टयेचाष्टहस्ताश्चत्वार:स्तंभाश्चूडासुतिर्यक् सरंध्रकाष्टसहितानिखेया: ॥ मध्यत्रिभागेचसौंदर्यार्थंउच्छ्रितंसृजेत् ॥
सर्वेचस्तंभा:पंचमांशेनसूत्रसंपातस्थानाब्दहिर्निखेया: ॥ मंडपश्चोपरिपरितश्चद्वारवर्जंयज्ञि
यतृणादिनिर्मितकटादिभिश्छादनीयइति ॥
मंडपेचमध्यमभागेकुंडंकुर्यात् मध्यभागएवकुंडमितिसाधितमन्यत्र ॥ तत्रवक्ष्यमाणग्रहरुद्र
होमाहुतिसंख्याविशेषेणकुंडपरिमाणविशेषाउच्यंते ॥
तत्रएकोनपंचाशदाहुतिपर्यंतंस्थंडिलमेव ॥ तच्चअष्टादशांगुलादिपरिमाणंतत्रैकोनपंचाशदंगु
लादाहस्तांतंचतुस्त्रमंगुलोत्सेधंचतुरंगुलोत्सेधंवा ॥
पंचाशदादिनवनवत्याहुतिपर्यंतमुष्टिमात्रं ॥ कुंडंतुशताध्येकोनसहस्त्रपर्यंतंअरत्निमात्रं ॥
सहस्त्राध्येकोनायुतपर्यंतंहस्तमात्रं अयुताध्येकोनलक्षपर्यंतंद्विहस्तंलक्षाध्येकोनदशलक्षपर्यं
तंचतुर्हस्तं दशलक्षाध्येनोनकोटिपर्यंतंषडुस्तं कोटिमारभ्याधिकहोमेऽष्टहस्तं ॥
तत्रैवाधिकतरहोमेदशहस्तमितिकेचित् ॥ कुंडानिचब्राह्मणक्षत्रियविशांचतुरस्त्रव्रृत्तंचंद्रार्धाभा
निकार्याणि ॥
सर्वकार्यसिध्दिपुत्रसुखावाप्तिवैरिनाशशांतिमारणच्छेदनवृष्टिरोगनाशाभिचारिकशांतिभूतो
त्सादनादिदशविधकामनायांचतुरस्त्रयोन्यर्धचंद्रत्र्यस्त्रवृत्तषडस्त्रपद्माष्टास्त्रसप्तास्त्रपंचास्त्राणिसर्वेषांकार्याणि ॥
काम्यस्यनित्यनैमित्तिकबाधकत्वात् ॥ एतेषांचकरणप्रकारोन्यतोऽवगंतव्य: गौरवभयान्ने
होच्यते ॥
कुंडानांचखननंसूक्ष्मद्रव्यहोमेपंचदशचतुर्विंशांशै:कार्यं ॥ स्थूलद्रव्येतुविस्तारसमंकार्यं ॥
ततश्चतुर्विंशांशंकंठंत्यक्त्वानवभिश्चतुर्विंशांशैर्मेखलात्रयंकुर्यात् ॥
तत्रबहिर्मेखलाद्वयंगुलोत्सेधविस्तारा द्वितीयातदुपरित्र्यंगुलोत्सेधविस्तारा तृतीयातदुपरि
चतुरंगुलोत्सेधविस्तारातत:पश्चिमेमेखलोपरिकुंडविस्तारार्धदीर्घांकुंडविस्तारतृतीयांशविस्तृतामश्वत्थदलाकारांकुंडचतुर्विंशांशकृतमेखलापश्चिमत:प्रविष्टनालाग्रामुभयतोमृत्पिंडद्वय
युतांकुंडमध्यप्रविष्टाग्रांचतुर्विंशांशोत्सेधांपश्चादुन्नतांयोनिंभूमितोरचयेत् ॥
तत्रद्वितीयमेखलायांपरिधिपरिस्तरणार्थमंतरंक्षेत् ॥ तत:कुंदमध्येकुंडचतुर्विंशांशद्वयोच्च
मंशचतुष्टयविस्तृतंत्तत्तत्कुंडाकारंपद्माकारंवानाभिंकुर्यात् ॥
तत्रचयोनिकुंडेयोनिंपद्मकुंडेचनाभिंनकुर्यात् ॥ इहकुंडमेखलायोन्यादौपक्षांतराणिगौरवभया
न्नोक्तानि ॥
कुंडाशक्तौतुएकहस्तादिप्रमाणंचतुरस्त्रंतत्तध्दोमेस्थंडिलंकार्यं ॥ स्थंडिलेचमेखलादिवर्तुला
ध्याकारताचनभवति अंगुलोत्सेधचतुरस्त्रत्वादिनानैराकांक्ष्याद्विरोधाच्चेतिसंक्षेप: ॥
ततोमंडपांतरीशानदिग्भागेरुद्रवेदिकांसग्रहपक्षेग्रहवेदिकांचकुर्यात् ॥
तत्रचदक्षिणतोग्रहवेदिकाउत्तरतोरुद्रवेदिका ग्रहाणांपूर्वांगत्वेनप्राक्पूजनीयत्वेनपाश्चात्यरुद्रपू
जायाउदक्संस्थत्वापेक्षणात् ॥
वेदिश्चद्वयंगुलत्र्यंगुलोच्छ्रायद्वयंगुलविस्तारवप्रद्वययुता ॥ वप्रोपरिसप्तांगुलोत्सेधहस्त
विस्तृताचसुश्लक्ष्णाकार्या ॥
सर्वशांतिकपौष्टिकानांग्रहमखविकृतित्वात् ॥
इतिमंडपकुंडस्थंडिलादिप्रमाणं ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP