संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथजीर्णोध्दारेअघोरहोम:

व्रतोदयान - अथजीर्णोध्दारेअघोरहोम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताअमुकदेवस्यजीर्णोध्दारंकरिष्ये इतिसंकल्पगणपतिंसंपूज्यपुण्याहंवाचयित्वा
लिंगाध्युध्दारार्थंआचार्यादीनष्टौचतुरोवावृणुयात् ॥ (नांदीश्राध्दंकर्तव्यमितित्रिविक्रम:) ॥
ततआचार्य:अघोरेभ्यइत्यघोरमंत्रंअष्टोत्तरशतंजप्त्वाअग्निंप्रतिष्ठाप्यसर्वतोभद्रमंडलदेवता
नांहोमंकृत्वास्विष्टकृदादिहोमसमाप्तिंकृत्वादेवंप्रार्थयेत् ॥
जीर्णभग्नमिदंचैवसर्वदोषावहंनृणां ॥ अस्योध्दारेकृतेशांति:शास्त्रेस्मिन्कथितात्वया ॥
जीर्णोध्दारविधानंचपुरराष्ट्रसुखावहं ॥ अधितिष्ठाथमांदेवप्रोध्दरामितवाज्ञयेति ॥
तत:स्थंडिलांतरेअग्निंप्रतिष्ठाप्यक्षीराज्यमधुदूर्वाभि:औदुंबरीभि:समिभ्दिश्चप्रत्येकमष्टोत्तरशतसंख्ययादेवमंत्रेणहुत्वालिंगादिचालनार्थंदेवमंत्रेणवक्षीरादिभि:प्रत्येकंसहस्त्रंहुत्वा तन्मंत्रै
वपायसेनशतंहुत्वाप्रणवेनलिंगंपूज्यप्रार्थयेत् ॥
लिंगरुपंसमागत्ययेनेदंसमधिष्ठितं ॥ यायात्समाहितंस्थानंसंत्यज्यैवशिवाज्ञया ॥ अघोरे
णमंत्रेणयजमानहस्तेहेममयंकंकणंबध्द्द्वा ॐ व्यापपकेश्वरायनम: अस्त्रायफट्‍ ॥
इत्यस्त्रमंत्रितेनहैमखनित्रेणईशानदिशिसमंतात् भ्रमन् अपसव्येनखनित्वाहेमपाशयुक्तया
गोवालरज्ज्वाशिवादिकं ॐ व्यापकेश्वरशिखायैवषट्‍इतिशिखामंत्रेणबध्द्वाआचार्यऋत्वि
ग्भि:सहउध्दरेत् ॥
तत:लिंगांगशिलान्वितांप्रतिमांपिंडिकांचतस्थंनिर्माल्यमादायचंडायनिवेध्यरथमारोप्यतरुच्छायायांपर्वतदेशेवावृक्षमूलेवाऽगाधनदीषुवादेवं ॐ वामदेवायनमोन्येष्ठायइतिवामदेवेन
निवेशयेत् ॥
प्रतिमांप्रणवेननिक्षिपेत् ॥ दारुजाचेत् ग्रामादुत्तरतोमनोरमेस्थानेनीत्वामधुनाभ्यज्याघोरेण
मंत्रेणदहेत् ॥
हेमरत्नादिमयंदग्धंचलितंवापुनस्तथैवस्थापयेत् ॥ अनेनैवविधिनाध्वजादिकंविसर्जयेत् ॥
तत:शांत्यैअघोरेणमंत्रेणतिलै:सहस्त्रंहुत्वाफलपुष्पाक्षतहस्त:नूतनंदेवंप्रार्थयेत् ॥
भगवन्भूतभव्येशलोकनाथजगत्पते ॥ जीर्णलिंगसमुध्दार:कृतस्तवाज्ञयामया ॥
अग्निनादारुजंदग्धंक्षिप्तंशैलादिकंजले ॥ प्रायश्चित्तादेवेशअघोरास्त्रेणतर्पितं ॥
ज्ञानतोऽज्ञानतोवापियथोक्तंनकृतंचयत् ॥ तत्सर्वंपूर्णमेवास्तुत्वत्प्रसादान्महेश्वर ॥
गोविप्रशिल्पिभूतानामाचार्यस्यचयज्वन: ॥
शांतिर्भवतुदेवेशअच्छिद्रंजायतामिदं ॥ मूर्तौतुविशेष: ॥ त्वत्प्रसादेननिर्विघ्नंदेहंनिर्मापय
त्यसौ ॥ वासंकुरुसुरश्रेष्ठतावत्त्वंचाल्पकेगृहे ॥ वसक्लेशंसहित्वैवमूर्तिंवैतपूर्ववत् ॥
यावत्कारयतेभक्त:कुरुतस्यचवांछितमिति ॥ ततोहोमशेषंसमाप्याचार्यादीन्विशेषतोऽ
र्चयेत् ॥ यजमानमभिषिच्याशिषोदध्यात् ॥
ततोनवांमूर्तिंलिंगंवाकृत्वाप्रतिष्ठारंभपूर्वंपंचरात्रमध्येउक्तविधिनास्थापयेत् ॥ असुरैर्मुनि
भिर्देवैस्तत्त्वविभ्दि:प्रतिष्ठितं ॥
जीर्णंवात्वथवाभग्नंविधिनापिनचालयेत् ॥ इतित्रिविक्रम: ॥ इतिदेवपिंडिकाप्रासादध्वजा
दिजीर्णोध्दार: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP