संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अश्वत्थोध्यापनंशौनकीयम् व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अश्वत्थोध्यापनंशौनकीयम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अश्वत्थोध्यापनंशौनकीयम् Translation - भाषांतर श्री: ॥ तदुक्तंशौनकीये ॥ स्थापनादष्टमेवर्षेद्वादशेकादशेऽपिवा ॥ उत्तरायणेगुरुशुक्रोदयेमाघफाल्गुनचैत्रवैशाखेषु शुक्लपक्षे शुभेऋक्षे सुवारतिथिलग्नके स्कंधपर्णांकुरान्विते विध्युतादावाग्निनावाऽनभितेऽश्वत्थोध्यापनंकुर्यात् ॥ तत्रादौकनककुंडलेकनकसूत्रेकनकमौंजींहोमद्रव्याणिसर्वसंभारान् यथासंभवंभृत्यअश्वत्थस्यचतुरस्त्रांवेदिकांविधायअश्वत्थमूले वर्तुलंचतुरस्त्रंवाऽऽलवालंकृत्वा ॥ तत्रतुलसींप्लक्षशाखांशमींचरोपयित्वा अश्वत्थवेदिकायांचतुरस्त्रंसमंताच्चतुर्द्वारंचतुर्हस्तंअधिकंवामंडपंअश्वत्थात्पूर्वेपश्चिमेउत्तरेवोक्तलक्षणमंडपंअन्यंवाकृत्वास्वगृहेज्योतिर्विदादिष्टेमुहूर्तेप्रधानंसंकल्पंकुर्यात् ॥तिथ्यादिसंकीर्त्य ममात्मन:पुण्यातिशयायुष्ययश:पुत्रपौत्रपशुवित्तधनधान्यविध्याकुलाभिवृध्दिकुलकोटिसहितस्वर्लोकप्राप्त्याध्यैहिकामुष्मिकफलप्राप्त्यर्थं दशपूर्वान्दशपरानात्मनासहैकविंशतिपुरुषानुध्दर्तुं विष्णुपदप्राप्त्यर्थं तथाचाश्वत्थस्यब्रह्मत्वशांत्यभीष्टफलदातृत्वाध्यनेकगुणसंपत्तयर्थंयथाज्ञानेनयथामिलितोपचारद्रव्यैर्देशकालानुसारत: एकाहाध्यधिवासप्रकारेणाश्वत्थोध्यापनाख्यंकर्मकरिष्ये ॥पुत्रकामश्चेत् ममेहजन्मनिजन्मांतरेवानानानिमित्तोपार्जितसंततिप्रतिबंधकादृष्टनिरसनपूर्वकंसत्पुत्रावाप्तयेइति ॥ तदंगविहितंगणेशपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्येइतिसंकल्प्य स्वगृह्यविधिनातानिकृत्वाआचार्यादीन्वृणुयात् ॥अस्मिन्कर्मणिआचार्यंत्वामहंवृणे ॥ सचवृतोस्मीतिवदेत् ॥ एवंब्रह्माणंसदस्यंउपद्रष्टारंवृत्त्वासर्वान्मधुपर्कादिनासंपूज्यप्रार्थयेत् ॥ (ऋत्विग्वरणंमंडपप्रतिष्ठावास्तुपूजनप्रकारश्चाग्रेदेवप्रतिष्ठायांद्रष्टव्य:) तत:स्वगृहीवग्रहमखादिविधाय ॥ तत:सर्त्विक् पत्नीकोयजमान:पूर्णकलशहस्त: भद्रंकर्णेभिरितिमंत्रेणमंगलतूर्यघोषेणसहाश्वत्थप्रादक्षिण्येनमंडपपश्चिमद्वारमागत्यतत्रधरांसंपूज्यमंडपंप्रविश्यकलशमश्वत्थसमीपेनिधायनिऋतिवरूणयोर्मध्येउपविशेत् ॥ततआचार्य:अश्वत्त्थोध्यापनकर्मणीवृतोऽहंआचार्यकर्मकरिष्येइतिसंकल्प्य ॥ शरीरशुध्द्यर्थंभूतशुद्ध्यादिपौरुषजपंन्यासांश्चकृत्वायदत्रसंस्थितमितिसर्षपलाजान्विकीर्य साधितपंचगव्येनकुशै:सर्वत्रप्रोक्षणंशुचीवोहव्याइतितृचेन आपोहिष्ठेतितृचेन उत्तरनारायणेनचकार्यं ॥ स्वस्त्ययनंतार्क्ष्यमित्यृग्द्वयंपठेत् देवाआयांतुयातुधानाअपयांतुविष्णोदेवयजनंरक्षस्व भूमौप्रादेशंकुर्यात् ॥ यथोक्तमंडपाकरणेसाधारणमंडपेप्राग्द्वारेअमंत्रकंचूतपल्लवतोरणं दक्षिणेप्लक्षपल्लवतोरणं पश्चिमेवटपल्लवतोरणं उत्तरेअशोकपल्लवतोरणंबध्वा तथैवप्रागादिद्वारेषुश्वेतकृष्णहरितरक्तपताका: अश्वत्थशिरसिमहांतंचित्रध्वजंचबध्वा तथैवप्रागादिद्वारचतुष्टयेवेदादिक्रमेणद्वौद्वावेकमेकंवाव्राह्मणंजपार्थंवृणुयात् ॥ ततआचार्योऽश्वत्थस्यतैलहरिद्रारोपणादिलौकिकंविधायअश्वत्थवेदिकायांईशानप्रदेशेसर्वतोभद्रंविरच्यब्रह्मादिदेवतास्थापनंकरिष्यइतिसंकल्प्य उक्तप्रकारेणसंस्थाप्यसंपूज्य तदुपरिअक्षतपुंजेमध्यप्रदेशेकृताग्न्युत्तारणप्राणप्रतिष्ठापनसौवर्णप्रतिमायां (ॐ वनस्पतेशतवल्शइतिमंत्रेणाश्वत्थनारायणमावाहयेत् ॥) तत ॐ इदंविष्णुरितिवासुदेवं ॥ तद्वामत: ॐ अधस्यायोषणामहीप्रतीचीवशमश्व्यं ॥ अधिरुक्माविनीयते ॥ इतिरुक्मिणीं ॥ तद्दक्षिणत: ॐ सत्यासत्येभिर्महतीमहभ्दिर्देवीदेवेभिर्यजतायजत्रै: ॥ उरुदृहल्हानिदददुस्त्रियाणांप्रतिगावउषसंवावशंत ॥ इतिसत्यभामां ॥ ॐ प्रक्षोदसाधायसासस्त्रएषासरस्वतीधरुणमायसीपू: ॥ प्रबाबधानारथ्येवयातिविश्वाअपोमहिनासंधुरन्या: ॥ इतिसरस्वतीं ॥ ॐ आतूनइंद्रक्षुमंतंचित्रंग्राभंसंगृभाय ॥ महास्तीदक्षिणेन ॥ इतिगणपतिंचावाह्यपौरुषेणसूक्तेनश्रीवासुदेवादिभ्योनमइतिसंपूज्य ततोऽश्वत्थपरित:पीठसमंततोवाअष्टौकलशान्स्थापनप्रकारेणसंस्थाप्य तत्रपूर्वकलशेशुध्दोदकमापोहिष्ठेतिनवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीप आपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौउदकपूरणेविनि० ॥१॥द्वितीयकलशे गंधोदकं आनोभद्राइतिदशर्चस्यसूक्तस्यराहूगणोगोतमोविश्वेदेवाआध्यापंचमीसप्तमीचजगत्य:षष्ठीविराट्स्थानाशेषास्त्रिष्टुभ: गंधोदकपूरणेवि० ॥२॥तृतीयेक्षीरोदकंस्वस्तिनोमिमीतामितिपंचानांस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् अंत्येद्वे अनुष्टुभौक्षीरोदकपूरणेवि० ॥३॥चतुर्थेपंचगव्यंशंनइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यमैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् पंचगव्यपूरणेवि० ॥४॥पंचमेहरिद्रोदकंएतोन्विंद्रमितितिसृणामांगिरसस्तिरश्चीरिंद्रोऽनुष्टुप् हरिद्रोदकपूरणेवि० ॥५॥षष्ठकलशे सर्वौषध्युदकं समुद्रज्येष्ठाइतिचतसृणांवसिष्ठ आपस्त्रिष्टुप् सर्वौषध्युदकपूरणेवि० ॥६॥सप्तमेकुशोदकंयाआपोदिव्याइत्यस्यवसिष्ठ आपस्त्रिष्टुप् कुशोदकपूरणेवि० ॥७॥अष्टमेकुशौदकंप्रसुवआपइतिनवर्चस्यसूक्तस्यसिंधुक्षित्प्रैयमेधोनध्योजगतीकुशोदकपूरणेवि० ॥८॥उक्तप्रकारेणपूर्णपात्रांतंकृत्वातत्रवरुणमावाह्यसंपूज्यतत्रपूर्वादिक्रमेणइंद्रादींस्तत्तन्मंत्रैरावाह्यसंपूजयेत् ॥ ततोऽश्वत्थंपुरुषसूक्तेनाथर्वशिरसाचसंसिच्यपंचामृताभिषेकंचकृत्वाकाषायवस्त्रयुग्मेनचसंवेष्ठय ॥ तत:पूर्वादिदिक्षुचत्वारिस्थंडिलानिविधायतेषुहोमार्थचतुरआचार्यान्वृत्त्वातेस्वगृह्यविधिनाग्नीन्स्थापयेयु: ॥ (अत्रकेचनईशानपूर्वयोर्मध्येग्रहहोमादिकर्तुंपंचमंस्थंडिलमिच्छंति ॥ तदेवमुख्यंकुंडंतत्रविधिवदग्निंप्रतिष्ठाप्य तस्मादग्निनाग्नि:समिध्द्यतइत्यग्निमुध्दृत्यस्वेस्वेकुंडेस्थापयेयु: ॥ बहव: पूर्वकुंडीवग्रहप्रधानहोमादिकंकुर्वंति ) ॥ पूर्वमकृतेग्रहयज्ञेइदानींईशान्यांवेदिकायांग्रहानावाह्यसंपूज्य अन्वादध्यात् ॥ तत्रमुख्यकुंडेपूर्वमकृतेग्रहयज्ञेऽत्रप्रधानं आदित्यादिनवग्रहान् अर्कादिसमिच्चर्वाज्यद्रव्यै: प्रत्येकंप्रतिद्रव्यं २८ । ८ संख्याकाभिराहुतिभि: अधिदेवताप्रत्यधिदेवताश्चतैरेवद्रव्यै: प्रत्येकंप्रतिद्रव्यं८ । ४ संख्याकाभिराहुतिभि: क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यं ४ । २ सं० अश्वत्थनारायणंअश्वत्थेवइतिमंत्रेणपलाशसमित्तिलाज्यै: प्रतिद्रव्यं १०८ वा २८ ॥ तथाआनोभद्राइतिमंत्रेणविश्वान्देवान् चरुद्रव्येण १०८ वा २८ ॥ तथावासुदेवादिपीठदेवता: पलाशसमित्तिलाज्यै:प्रतिद्रव्यं १०८ वा २८ (अश्वत्थसमिच्चर्वाज्यैरित्यन्यत्र) ब्रह्मादिदेवता:इंद्रादिलोकपालांश्च २८ वा ८ यक्ष्ये ॥पंचकुंडपक्षे पूर्वकुंडे अश्वत्थंनारायणं पलाशसमित्तिलाज्यै; प्रतिद्रव्यं १०८ संख्याहुतिभि: गणपतिं तिलाज्यद्रव्याभ्यांप्रतिद्रव्यं १०८।२८ । संख्याहुतिभि: वारतुं शमीसमिच्चर्वाज्यै:प्रतिद्रव्यं २८।८ संख्याभिराहुतिभि: ॥ उत्तरकुंडे अश्वत्थनारायणं पलाशसमित्तिलाज्यै: प्रतिद्रव्यं १०८ संख्याहुतिभि: श्रीवासुदेवं रुक्मिणीं सत्यां सरस्वतीं च प्रत्येकं प्रतिद्रव्यं १०८।२८ पायसाज्यद्रव्याभ्यां यक्ष्ये ॥शेषेण स्विष्टकृतमित्यादि० ॥ अथमंत्रा: ॥ ॐ अश्वत्थवोनि० इत्यश्वत्थनारायणस्य ॥ ब्रह्मादिमंडलदेवतानांतत्तन्मंत्रैर्नाममंत्रैर्वाहोम: ॥ ॐ आतूनइंद्रक्षुंतं० इतिगणपते: ॥ इन्द्रादीनांस्थापनमंत्रैर्होम: ॥ वास्तोषप्तेध्रुवास्थूणामित्यस्यइरिंबिठिर्वास्तोष्पतिर्बृहतीइतिवास्तो: एवं होमंसंपाध्यस्विष्टकृदादिबल्यंतंकृत्वाधिवसेत् ॥ अत्रबलिदानात्पूर्वंयूपाधिवासोऽन्यत्रोक्त: ॥ पुराणादिनारात्रिंनयेत् ॥ केचनकाषावस्त्रदानांतंकृत्वापरेध्युरेवहोमादिकमिच्छंति ॥ प्रातर्घटिकांप्रतिष्ठाप्यपीठदेवता:संपूज्यअष्टकलशदेवताविसृज्यब्राह्मणैस्तान् ग्राहयित्वातै: सहआचार्य:पवमान:सुवर्जनइत्यनुवाकेनाष्टकलशोदकैरश्वत्थंत्रि:परिषिच्यकिंचिदवशिष्टोदकान्कलशान्पूर्वस्थानेषुस्थापयेत् ॥ N/A References : N/A Last Updated : August 22, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP