संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरामनवमीव्रतम्

व्रतोदयान - अथरामनवमीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्याआत्मन:अखिलपापक्षयपूर्वकचतुर्विधपुरुषार्थसिध्दिद्वारामयाआच
रितस्यरामनवमीव्रतस्यसांगतासिध्दयेतदुध्यापनंकरिष्ये ॥
तत:पूर्ववत् वृताचार्य: सर्वतोभद्रस्थकलशेसाक्षतपूर्णपात्रेषट्‍कोणंपद्मंविलिख्य तत्रमध्येहै
मंरामंषडक्षरेणत्रयोदशाक्षरेणवामूलमंत्रेण ॥ मूलमंत्रस्तु ॥ श्रीरामरामरामेतिषडक्षरमंत्र: ॥१॥
अपरोवैदिकस्तु ॥ ॐ भद्रोभद्रयासचमानाआगात्स्वसारंजारोऽअभ्येतिपश्चात् ॥
सुप्रकेतैर्ध्युभिरग्निर्वितिष्ठन् रुशभ्दिवर्णैरभिराममस्थात् ॥ इतिमंत्रेणरामंतद्वामत:हैमीं
सीतां ॥
ॐ जनकात्मजायैनम:इतिनाममंत्रेणचप्रतिष्ठाप्य ॥ परित:षट्‍कोणेषुक्रमेणदशरथं
कौसल्यां लक्ष्मणं भरतं शत्रुघ्नं मारुतिं च नाममंत्रै: प्रतिष्ठाप्य पुरुषसूक्तेनपूजयेत् ॥
पुष्पोत्तरंअंगपूजा ॥
श्रीरामचद्रायनम: पादौपूजयामि राजीवलोचनाय० गुल्फौ० रावणांतकाय० जानुनी० विश्वामित्रप्रियाय० नाभिं० परमात्मने० हृदयं० श्रीकंठाय० कंठं० सर्वास्त्रधारिणे० बाहू० विश्वमूर्तये० मुखं० पद्मनाभाय० जिव्हां० दामोदराय० दंतान्० सीतापतये० ललाटं० ज्ञानगम्याय० शिर:० सर्वात्मने० सर्वांगं० ॥ नमस्कारमंत्र: ॥
नमोदेवाधिदेवायरघुनाथायशार्ड्गिणे ॥ चिन्मयानंदरुपायसीताया:पतयेनमइति ॥ अर्घ्यमंत्र: ॥ दशाननवधार्थायधर्मसंस्थापनायच ॥ राक्षसानांविनाशायदैत्यानांनिधनायच ॥ परित्राणायसाधूनांजातोराम:स्वयंहरि: ॥ गृहाणार्घ्यंमयादत्तंमात्रादिसहितोऽनघ ॥ इति ॥ तत:पुराणपठनादिनारात्रिंनिनयेत् ॥ प्रात:अग्निंप्रतिष्ठाप्यअन्वादध्यात् ॥ अत्रप्रधानं
रामंआज्य १ पायस २ द्रव्याभ्यां प्रतिद्रव्यं अष्टोत्तरशत १०८ संख्याहुतिभि:मूलमंत्रेण जानक्यादिससप्तदेवता: उक्तद्रव्याभ्यांअष्टाविंशति २८ संख्याकाहुतिभि: ॥
ब्रह्मादिदेवताश्चएकैकयाज्याहुत्यायक्ष्ये ॥ एवंहोमंसंपाध्य आचार्यंसंपूज्यप्रतिमांदध्यात् ॥ तत्रमंत्र: ॥ इमांस्वर्णमयींरामप्रतिमांसमलंकृताम् ॥ श्रीरामप्रीतयेदास्येप्रीतोभवतुराघव:
इति ॥
तत:व्रतपूर्तयेगांचदत्त्वासदन्नेनब्राह्मणान्संतर्प्यदक्षिणादिभि:प्रतोष्यआशिषोगृण्हीयात् ॥
इतिरामनवमीव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP