संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथगोपद्मव्रतम्

व्रतोदयान - अथगोपद्मव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कार्तिकशुक्लैकादश्यांद्वादश्यांवाकार्यम् ॥ तिथ्यादिसंकीर्त्यआत्मनोयमदंडनिरास
पूर्वकपुत्रसौभाग्याध्यभिवृध्दिद्वाराश्रीगोपालप्रीत्यर्थंपंचवर्षाचरितगोपद्मव्रतोध्यापनंकरिष्ये ॥ वृताचार्य:सर्वतोभद्रस्थकलशेहैमंचतुर्भुजंगोपालंइदंविष्णुरितिमंत्रेणसंपूज्यप्रार्थयेत् ॥
नमस्तेदेवदेवेशनमस्तेगरुडध्वज ॥ नमस्तेविष्णवेतुभ्यंव्रतस्यफलदायक ॥ प्रातरग्निंप्रति
ष्ठाप्य अन्वादध्यात् ॥ प्रधानं गोपालं समित् १ तिल २ पायस ३ आज्य ४ यव ५ द्रव्यै: प्रतिद्रव्यमष्टोत्तरशत १०८ संख्या काहुतिभि: ब्रह्मादिदेवताश्चैकैकयाज्याहुत्याय
क्ष्ये ॥ तत:क्रमेणद्रव्याणांहोमेमंत्रा:
ॐ त्रीणिपदा० ॐ अतोदेवा० ॐ इदंविष्णु० ॐ विष्णोर्नकं० ॐ तत्सवितुर्व० ॥
ततोवायनंप्रतिवर्षक्रमेणसहैववात्रयस्त्रिंशत्संख्याकद्रव्ययुतंदध्यात् ॥ प्रथमेपायसंद्वितीये
मंडकान् तृतीयेमाषवटकान् चतुर्थेअपूनान् पंचमेलड्डुकान् ॥
वायनमंत्र: ॥ वायनंतेद्विजश्रेष्ठददामिव्रतपूर्तये ॥ दक्षिणादिसमायुक्तंगोपाल:प्रीयतामि
ति ॥ तत:पंचमिथुनानिवस्त्रादिनासंपूज्यआचार्यायगांदध्यात् ॥ एवमेवलक्षगोपद्मव्रतं
हवनेविशेष: तद्द्शांशेनशतांशेनवापूर्वोक्तपंचद्रव्यैर्मिलित्वाकार्यम् ॥
वायनंचपूर्वोक्तमंत्रेणैवदध्यात् ॥ अन्यत्समानं ॥ इतिगोपद्मव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP