संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथऋषिपंचमीव्रतम्

व्रतोदयान - अथऋषिपंचमीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ भाद्रपदशुक्लपंचम्यांऋषिपंचमीव्रतम् ॥ मध्यान्हव्यापिन्यांदिनद्वयेतद्व्याप्ता
वव्याप्तौवापूर्वविध्दायांकार्यम् ॥ नध्यादौप्रात:दंतधावनपूर्वकंस्नात्वा ॥
ममज्ञानतोऽज्ञानतोवारजस्वलावस्थायांकृतरज:संपर्कजनितदुर्योनित्वदोषपरिहारद्वाराशुभफलप्राप्त्यर्थंआचरितऋषिपंचमीव्रतोध्यापनंकरिष्ये ॥
वृताचार्य:सर्वतोभद्रेसप्तकलशेषुएकस्मिन्वहैमी:अरुंधतीसहिता:सप्तर्षिप्रतिमा:पूजयेत् ॥
ॐ ऋषेमंत्रकृतांस्तोमै:कश्यपोद्वर्धयन् गिर: ॥
सोमंनमस्यराजानंयोजज्ञेवीरुधांपतिरिंद्रायेंदोपरिस्त्रव ॥ ॐ कश्यपायनम: कश्यपंआवाह
यामि ॥ ॐ अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेवयोषा ॥ श्येनस्यचिज्जवसानूत
नेनागच्छतमश्विनाशंतमेन ॥
ॐ अत्रयेनम: अत्रिआवाहयामि ॥ ॐ एवान:स्पृध:समजासमस्त्विंद्ररारंधिमिथतीरदेवी: ॥ विध्यामवस्तोरवसागृणंतोभरद्वाजाउततइंद्रनूनं ॥ ॐ भरद्वाजायनम: ॥ भरद्वाजंआवाहयामि ॥ ॐ प्रसूतोभक्षमकरंचरावपिस्तोमंचेमंप्रथम: सूरिरुन्मृजे ॥ सुतेसातेनयध्यागमंवांप्रतिविश्वामित्रजमदग्नीदमे ॥ ॐ विश्वामित्रायनम: विश्वामित्रं
आवाहयामि ॥ ॐ अभित्वागोतमागिराजातवेदोविचर्षणे ॥ ध्युम्नैरभिप्रणोनुम: ॥ ॐ गौतमायनम: गौतमंआवाहयामि ॥ ॐ गृणानाजमदग्निनायोनावृतस्यसीदतं ॥
पातंसोममृतावधा ॥ जमदग्नयेनम: जमदग्निंआवाहयामि ॥ ॐ उतासिंमैत्रावरुणोवसि
ष्ठोर्वश्याब्रह्मन्मनसोधिजात: । द्रप्संस्कन्नंब्रह्मणादैव्येनविश्वेदेवा:पुष्करेत्वाददंत ॥
ॐ वसिष्ठायनम: वसिष्ठंआवाहयामि ॥ ॐ  अत्रेर्यथानुसूयास्याद्वसिष्ठस्याप्यरुंधती ।
कौशिकस्ययथासतीतथात्वमपिभर्तरि ॥ ॐ अरुंधत्यैनम: ॥ अरुंधतींआवाहयामि ॥
ॐ तदस्तुमित्रा० गृहावै० सुप्रतिष्ठितमस्तु ॥ प्रत्युपचारं ॐ देवाएतस्यामवदंतपूर्वेसप्त
ऋषयस्तपसेयेनिषेदु: । भीमाजायाब्राह्मणस्योपनीतादुर्धांदधातिपरमेव्योमन् ॥
ॐ सहस्तोमा:सहच्छंदस० इतिवा नाममंत्रैर्वापूजयेत् एतेसप्तर्षय:सर्वेभक्त्यासंपूजिताम
या ॥ ममपापंव्यपोहन्तुज्ञानतोऽज्ञानत:कृतम् ॥ इतिसंप्रार्थ्यं ॥
तत:वायनंदत्त्वाक्षमापयेत् ॥ न्यूनातिरिक्तकर्माणिमयायानिकृतानिच ॥ क्षमत्वंतानिसर्वा
णियूयंसर्वेतपोधना: ॥ तत:कथाश्रवणादिनारात्रिंनिनयेत् ॥ प्रात:अग्निंप्रतिष्ठाप्यअन्वाद
ध्यात् ॥
प्रधानंअरुंधतीसहितकश्यपादिसप्तर्षीन्पूजामंत्रेण तिल १ व्रीहि २ यव ३ सर्पिर्द्रव्यै: ४ तिलपायसाभ्यांवाप्रतिद्रव्यमष्टोत्तरशत १०८ मष्टाविंशतिर्वा २८ तत्संख्याकाहुतिभि: ब्रह्मादिदेवताश्चएकैकयाज्याहुत्यायक्ष्ये शेषेणस्विष्टकृतमित्यादि ॥ तत:पुन:प्रतिमापूजां
कृत्वासपत्नीकान्सप्रब्राह्मणान् वस्त्रादिनासंपूज्यतेभ्य:क्रमेणदक्षिणाप्रतिमायुतकलशान्
दध्यात् ॥ मंत्र: ॥ प्रतिगृह्णद्विजश्रेष्ठप्रतिमादिसमन्वितम् ॥
कलशंऋषिसंप्रीत्यैव्रतसंपूर्तिहेतवे ॥ यदैककुंभेसर्वप्रतिमापूजनंदासर्वप्रतिमायुतंकलशमाचा
र्यायदध्यात् ॥
अन्येभ्य:दक्षिणावस्त्रयुतान्पक्वान्नपूरितान्कलशान्दध्यात् ॥ तत:सप्तभ्य:सप्तगाआचा
र्यायएकांगांदत्त्वाप्रार्थयेत् ॥
सप्तर्षय:शुभा:श्रेष्ठा:सर्वेषांचशुभप्रदा: ॥ सर्वपापंचमेघ्नंतुज्ञानतोऽज्ञानत:कृतम् ॥
एतेसप्तर्षय:सर्वेभक्त्यासंपूजितामया ॥ यथोक्तफलदा:संतुव्रतस्यफलदायका:इति ॥
आशिषोगृहीत्वाब्राह्मणान्संतर्प्यस्वयंभुंजीत ॥ इतिऋषिपंचमीव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP