संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथोपांगललिताव्रतम्

व्रतोदयान - अथोपांगललिताव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रात:दंतधावनपूर्वकंनध्यादौस्नात्वा शुक्लंवास:परिधाय मंडपिकादिकंकृत्वा तिथ्या
दिसंकीर्त्य ॥
मयापुत्रपौत्रविध्यारोग्यसुखविजयपुष्टयादिकामेन स्त्रीतु अवैधव्यकामनयाउपांगललिताप्री
त्यर्थंआचरिताऽष्टवर्षात्मकोपांगलललिताव्रतोध्यापनंकरिष्य इतिसंकल्य ॥
वृताचार्य:एकलिंगोद्भवेकलशोपरिसौवर्णींललिताप्रतिमांपौराणमंत्रै:श्रीसूक्तेनचपूजयेत् ॥
ध्यानम् ॥ नीलकौशेयवसनांहेमाभांकमलासनाम् ॥ भक्तानांवरदांनित्यंललितांचिंतयाम्य
हं ॥ पुष्पांजल्यंतेसाग्राअष्टचत्वारिंशत्परिमितादूर्वाहस्तेनादाय ॥
बहुप्ररोहासततममृताहरितालता ॥ यथेयंललितेमातस्तथामेस्युर्मनोरथा: ॥ इतिमंत्रेणाष्टा
चत्वारिंशद्वारंसमर्पयेत् ॥ तत:प्रदक्षिणानमस्कार: ॥
प्रात:संपूज्यदेव्यैअष्टौवटकान्समर्प्यअग्निंप्रतिष्ठाप्यअन्वादध्यात् ॥ प्रधानंउपांगललितां
गौरीर्मिमायेतिमंत्रेणाष्टोत्तरशत १०८ दूर्वाहुतिभि:नमोदेव्यैमहादेव्यैइतिमंत्रेणअष्टोत्तरशत
तिल १ सर्पि: २ पंचखाद्ययुतपायसा ३ हुतभिर्यक्ष्ये ब्रह्मादिमंडलदेवताश्चैकैकयाज्याहु
त्यायक्ष्ये ॥ एवंहोमंसंपाध्यअष्टौब्राह्मनान् वस्त्रादिभि:संपूज्यतेभ्य:पक्वान्नपूरितान्दक्षि
णासहितानष्टौकलशान्दध्यात् ॥
ततआचार्यंवस्त्रालंकारादिभि:संपूज्यसदक्षिणंविंशतिवटकसहितंवायनंदध्यात् ॥ तत्रमंत्र: ॥
पक्वान्नफलसंयुक्तंसघृतंदक्षिणान्वितम् ॥ उपांगललिताप्रीत्यैब्राह्मणायददाम्यहम् ॥
तत:देवीं ॥ सवाहनाशक्तियुतावरदापूजितामया ॥ मातर्मामनुगृह्याथगम्यतांनिजमंदिरम् ॥ इतिविसृज्यसोपस्करंपीठंगांचआचार्यायदत्त्वाब्राह्मणान्सदन्नेनभोजयित्वाआशिषोगृही
त्वाआशिषोगृहीत्वास्वयंविंशतिवटकान् भुंजीत ॥ इतिउपांगललिताव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP