संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथमहिषीदानप्रयोग: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथमहिषीदानप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथमहिषीदानप्रयोग: Translation - भाषांतर श्री: ॥ देशकालौत्कीर्तनांतेऽमुकशर्मणोममापमृत्युनाशपूर्वकंपित्तज्वरादिपीडानिरासेनसध्यआरोग्यावाप्तिद्वारायमात्मकश्रीविष्णुप्रीतिकामोहंयमदैवत्यंमहिषीदानंकरिष्ये ॥गणेशंसंपूज्याचार्यंवृणुयात् ॥ आचार्य:स्थंडिलकरणाध्यग्निप्रतिष्ठांतेऽग्नेरीशान्यांगणानांत्वेतिगणपतिं यमायसोममितियमं परंमृत्योइतिमृत्युंचसंस्थाप्यषोडशोपचारै:संपूज्यतदीशान्यांमहीध्यौरित्यादिविधिनाकलशंसंस्थाप्यान्वादध्यात् ॥चक्षुषीआज्येनेत्यंतेऽअत्रप्रधानंगणपतिंयमंमृत्युंचतत्तन्मंत्रै:प्रत्येकमष्टोत्तरशतसंख्याकाभिराज्यप्लुततिलाहुतिभि:शेषेणस्विष्टकृतमित्यादिहोमशेषंसमाप्यकर्तातिलतैलेनयमंतर्पयेत् ॥महिषीदानांगत्वेनापमृत्युपरिहारार्थंयमतर्पणंकरिष्ये ॥यमंतर्पयामि धर्मराजं मृत्युं अंतकं वैवस्वतं कालं सर्वभूतक्षयं औदुबरं दग्धं नीलं परमेष्ठिनं वृकोदरं चित्रं चित्रगुप्तंतर्पयामीति ॥ततस्तैलोव्दर्तनपूर्वकंमहिषीमभ्दि:प्रक्षाल्यदक्षिणाभिमुखींसंस्थाप्यालंकुर्यात् ॥ श्रृंगयोगौंरमृदं कंठेसिंदूरं उदरेहरिद्रां शृंगयो:सुवर्णंखुरेषुरौप्यंकंठेघंटांकृष्णवस्त्रंचपृष्ठेरक्तवस्त्रंलांगूलेरौप्यंललाटेसुवर्णतिलकंकंठेपुष्पमालामित्यादि ॥ ततोमहिष्या:समंतादष्टदिक्ष्वष्टौदीपान्संस्थाप्य पूर्वेलवणंआग्नेय्यांगुंडयाम्यांकार्पासंनैऋत्यांनवनीतंपश्चिमेसप्तधान्यानिवायव्यांतंदुलान् उत्तरेकांचनंईशान्यांगमनार्थंचद्वारमितियथासंभवंस्थापयेत् ॥ ततोगोत्रोच्चारपूर्वंप्रतिग्रहीतारंवृत्वातदंगेयमंध्यायेत् ॥ महिषारुढंनृकपालहस्तंदंडायुधंभस्मसितांगयष्टिं ॥उलूकचिन्हंनरमुंडमालंनिर्मांसदेहंरुधिरंपिबंतं ॥ असृग्वसाचर्चितकृष्णकायंकपींद्रपंचाननचर्मवस्त्रं ॥ बिभीतकस्थंत्वतिभीमरुपंकालंतवांगेविनियोजयिष्ये ॥ महाकालत्वमृषिरसिप्राणोत्क्रांतिशक्तिमानसिअतस्त्वांप्रतापिनंबहुमानयेएवंभूतस्त्वमिहागच्छेतिष्ठपूजांगृहाणसुप्रसन्नोवरदोममाद्विनाशकोभवेतिब्राह्मणाशरीरेयमंभावयित्वा ॥भोभोकालजगभ्दूतयममहिषवाहन ॥ दिगीशप्राणराजेंद्रदंडहस्तधनुर्धर ॥ ब्रह्माच्युतमहेशानांसेनाधीश्वरवल्लभ ॥ यज्ञभुग्दक्षिणेयस्त्वंसर्वभोगसुखावह ॥ गृह्णीष्वमहिषीदानंजीवितायममप्रभो ॥ पंचभूतात्मकेदेहेसप्तधातुसमन्विते ॥ विप्रस्यागत्यतिष्ठेहसंमुखोभवमेसदा ॥ ध्यानं ॥यमायसोममित्यासनं ॥ तेनैवपाध्यं ॥ सुगंन:पंथामित्यर्घ्यं ॥ यमायमधुमत्तममित्याचमनीयं ॥ यस्मात्वं सर्वधर्माणामंगलानांचमंगलं ॥ महाकालजगभ्दूतधर्मराजननमोस्तुते ॥ स्नानं ॥ कामरुपकरालस्यकृतांतकरुणानिधे ॥ प्रेतराजशिरोरत्नसुखंदेहिनमोस्तुते ॥ इतिवस्त्रं ॥ देवदानवगंधर्वदक्षिण:सरितांपते ॥ सूर्यादिखेचराणांचजीवितेशनमोस्तुते ॥ इत्युपवीतं ॥कालरुपकरालास्यमहादंष्ट्रसुरप्रिय ॥ शबलाशमयिंत्रेद्रजीवितेशनमोस्तुते ॥ गंधं ॥कृतांतधर्मराजेंद्रमृत्योंतकविमर्दन ॥ प्रलयाग्निसमाभासदक्षिणेशनमोस्तुते॥ रक्तचंदनं ॥धर्मराजकरालास्यपुण्यपापविमर्दन ॥ याम्येशमहिषारुढस्त्रजंचप्रतिगृह्यतां॥ पुष्पमालां ॥ विध्युत्कपिशकेशाग्रकोकिलांजनसंनिभ ॥ दक्षिणेशसुरश्रेष्ठधूपोयंप्रतिगृह्यतां ॥ धूपं ॥तप्तहाटककेशाग्रजटिलारक्तलोचन ॥ नंध्यावर्तकव्दर्णश्राध्ददेवनमोस्तुते ॥ दीपं ॥महाकालमहाबाहोजगत्प्राणविनाशन ॥ धर्मालयतपोराशेनैवेध्यंप्रतिगृह्यतां ॥ नैवेध्यंमाषान्नमामान्नंवा ॥ विप्रवर्यजगध्दस्तकालांतकशरीरग ॥ कालरुपमहादेवधर्मराजनमोस्तुते॥ इत्याच्छादनं ॥शश्वदेतित्वयाज्ञप्तोधातादेवत्वदाज्ञया ॥ ब्रह्माच्युतमहेशेंद्रैंस्थीयतेचतवाज्ञया ॥ सर्वलंकारान् ॥दिगंतरमहाराजसर्वभूतक्षयांतक ॥ शवारुढशवाधीशमांसशोणितभक्षक ॥ दंडहस्तपरंमृत्योधर्मराजनमोस्तुते ॥ नमस्कार: ॥ब्राह्मणप्रार्थना ॥ प्रेतास्थिचीवसंभारंदधच्चैवतुमस्तके ॥ पवित्रपुरुषांत्राणांशिरसांकृतभूषण ॥ विष्टपत्रयसंस्थानांजीवानांशकृत्प्रभो ॥ अलंक्ष्यसर्वभूतानांब्रह्माच्युतपिनाकिनां ॥कश्यपात्रिवसिष्ठादिव्रतिनांपरमर्षिणां ॥ वराहगर्गसत्वानामलक्ष्योगणितैरपि ॥ अरुपस्तव्ययोनादिर्विदानंमोक्षवस्तुन: ॥ मदीयंजीवितंकालत्वमेवत्रातुमर्हसि ॥ अतोदानंकरिष्येहंमहिष्या:करुणानिधे ॥ अनेनयम:प्रीयतां ॥ अथमहिषीपूजा ॥ नाममंत्रेणव्याहृतिभिश्च ॐ प्रेहिप्रेहिपथिभिरितिमंत्रेणमहिषींषोडशोपचारै: पूजयेत् ॥अर्घ्येविशेष: ॥ अपमृत्युहरेदेविकालरात्रिस्वरुपिणि ॥ मांतुत्रायस्वमहिषिगृहाणार्घ्यंन० इत्यर्घ्यं० ॥ महिष्यामुखेकार्पासबीजानिपिण्याकंचदत्त्वाप्रार्थयेत् ॥ शृंगत:कालरुपेत्वंमुखतोमृत्युरुपिणि ॥ गाधिपुत्रतेदेविअकालमरणापहे ॥ धर्मराजप्रियेदेविमहिषासुरमातृके ॥ यत्पुत्रोधर्मराजेनद्रष्टुंदानवराक्षसान् ॥ एक:शक्ततमोवीक्ष्यकृतंवाहनमात्मन: ॥ सात्वंप्रसीदकल्याणिमृत्योर्हृदयनंदिने ॥ विश्वामित्रकृत्देविलोकोपकृतयिक्षितौ ॥ यज्ञसंसिध्दयेचात्रतस्यैमहिषितेनम: ॥ जननीमहिषस्यत्वंकालरुपेममप्रिये ॥ संदेहंहरदानान्मेमोक्षयस्वार्तिमागतं ॥रक्तपुष्पस्त्रजारक्तवासोभि:कृतभूषणां ॥ लवनाध्युपहारस्थांसप्तधान्ययुतांतथा ॥ पिण्याकराशिसंभक्ष्यांयथाशक्त्याह्यलंकृतां ॥ महिषींधर्मराजायदास्यमिप्रीतिहेतवे ॥ततोयमंप्रार्थयेत् ॥राजात्वंसर्वधर्माणांजगत्संहारकारक: ॥ स्वदानपरिसंतुष्ट:प्रयत्नाद्रक्षऋत्विजं ॥ प्राणदापानदाहेतिर्वर्चोदाव्यानदापरा ॥ आभिस्तुहेतिभिर्धर्मजीवितंतोषणंपरं ॥ ऋत्विजंरक्षराजेंद्रधर्मोस्माकंप्रगृह्यतां ॥ ततोदाताप्राड्मुख: ब्राह्मणमुदड्मुखमवस्थाप्यकांस्यपात्रंकरेधृत्वामहिष्या:पृष्ठदेशेदानंकुर्यात् ॥ अमुकगोत्रोऽमुकशर्माहं ॥ इंद्रादिलोकपालानांयाराज्यमहिषीशुभा ॥ महिषीदानमाहात्म्यात्सास्तुमेसर्वकामदा ॥ यमराजस्यमाहात्म्येयस्यायु:सुप्रतिष्ठितं ॥ महिषासुरस्यजननीसास्तुमेसर्वकामदा ॥ इमौमंत्रावुच्चार्य ॥ (दानेमंत्रविशेषोयथा ॥ यव्दाहिष्ठंतदग्नयेबृहदितिमंत्र: ॥ तंमृत्युभयभीतंमांमरणात्त्वंसमुध्दर ॥ विप्रेंद्रवेदवेदांगपवित्रकरूणाकर ॥ गृहाणमहिषींगृष्टिंसवस्त्रांस्वर्णभूषितां ॥श्यामांसुनेत्रांसुश्रॄंगीमंगै:संपूर्णविग्रहां ॥ पयस्विनींसुशीलांचदरिद्रतिमिरापहां ॥ हेमश्रॄंगींरौप्यखुरांकांस्यघंटासमन्वितां ॥ रौप्यलांगूलसंयुक्तांताम्रदोहनसंयुतां ॥ समंताद्दीपसंयुक्तांसप्तध्यान्यसमन्वितां ॥ महिषींवत्ससंयुक्तांसुशीलांचपयस्विनीं ॥ नीलवस्त्रावृतांचाहंदास्येमृत्युहरायच ॥ यमवाहनंमहिषीमृत्युरुपेणसंस्थिता ॥ सर्वव्याधिहरानित्यमत:शांतिंप्रयच्छमे ॥ सरलंसजलंश्रृंगंधृत्वाविप्रकरेर्पयेत् ॥ कांस्यपात्रस्थितेपाणौदध्याद्दानंसदक्षिणं ॥मृत्युरुपांगृहाणेमांमहिषींद्विजसत्तम ॥ मृत्यो:संत्राहिमांघोराग्दच्छत्वंयत्रकुत्रचित् ॥) अमुकप्रवरगोत्रायामुकशाखिनेमुकशर्मणेब्राह्मणायइमांमहिषींसवप्तांस्वर्णश्रृंगींरौप्यखुरांताम्रपात्रदोहनयुतांघंटाभरणोपेतांअष्टौदिक्षुदीपयुतांलवणादिसप्तधान्योपेतांयमदैवत्यांतुभ्यमहंसंप्रददेनममेतिवदेत् ॥ॐ देवस्यत्वा० ब्राह्मण:कइदंकस्माअदितिपठेत् ॥ दानस्यप्रतिष्ठार्थंदक्षिणांदत्त्वातंप्रार्थयेत् ॥ स्वामिन्जगद्गुरोब्रह्मन्मदीयंयदुपार्जितं ॥ दुष्कृतंदुरितंमृत्युबंधनंचार्जितंमया ॥ शत्रुजंविषजंरोगंशोकजंविरहादियत् ॥ पीडापमृत्युविघ्नानिगृहीत्वागम्यतांद्विज ॥ मृत्युरुपगृहाणेमांमहिषींद्विजसत्तम ॥ मृत्योश्चत्राहिमांघोराद्गच्छत्वंचस्वमाश्रमं ॥ ततोबहिर्व्दिजंगमयित्वाशांतापृथिवीतिपथिजलंसिंचेत् ॥ पुन:पूर्ववत्तैलेनयमतर्पणंकुर्यात् ॥तत:कांस्यपात्रस्थंनिरीक्षिताज्यंदत्त्वा ॥ गोभूतिलहिरण्याज्यवासोधान्यगुडानिच ॥ रौप्यंलवणमित्याहुर्दशदानान्यनुक्रमादितिदशदानानिदत्त्वाआचार्यायदक्षिणामन्येभ्यश्चभूयसींदत्त्वा ॥ अनेनयथाशक्त्यनुष्ठितेनमहिषीदानाख्येकर्मणाश्रीपरमेश्वरप्रीयतां ॥ इतिमहिषीदानप्रयोग: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP