संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथलक्षवर्तिव्रतम्

व्रतोदयान - अथलक्षवर्तिव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथ्यादिसंकीर्त्यात्मनोरज:संपर्कादिविविधपातकक्षयागम्यागमनकोटि
नाशविविधै हिकपुत्रपौत्रादिसुखप्राप्तिपूर्वकविष्णुलोकप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाच
रितंयल्लक्षवर्तिव्रतंतत्संपूर्णफलावाप्तयेतदुध्यापनाख्यंकर्मकरिष्येइतिसंकल्प्यवृताचार्य:
सर्वतोभद्रेकलशंप्रतिष्ठाप्य तन्मध्यदेशेइदंविष्णुरितिमंत्रेणहैमंश्रियासहितंविष्णुं तद्दक्षि
णेसावित्र्यासहितंब्रह्माणंब्रह्मजज्ञानमितिमंत्रेण विष्णोरुत्तरेउमासहितंशंभुंनम:शंभवेचमयो
भवेचेतिमंत्रेणइतिदेवतात्रयंसंस्थाप्य पुरतोराजतंगरुडंप्रतिष्ठाप्यपूजयेत् ॥
प्रधानं लक्ष्मीसहितंविष्णुंघृतान्वितपायस १ पलाशसमित् २ घृत ३ द्रव्यै: सहस्त्रसंख्याहु
तिभि: तथाब्रह्मशंभूअष्टाविंशतितिलाहुतिभि:मंडलदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
अत्रक्रम: अग्नेनयऋचापायसं इदंविष्णुरितिमंत्रेणपलाशसमिध: विष्णुगायत्र्याघृतंचहुनेत् ॥ दीपदानं ॥ रौप्यपात्रस्थितंदीपंहैमवर्तिसमन्वितं ॥ कांस्यपात्रेनसहितंददामिव्रपूर्तये ॥
इतिमंत्रेणदत्त्वाआचार्यंसंपूज्ययथाशक्तिदक्षिणांगांचदत्त्वाब्राह्मणभोजनंसंकल्पयेत् ॥
इत्येकसूत्रवरिमाणिक्यलक्षवर्तिव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP