संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रजपादौन्यासविधि:

व्रतोदयान - अथरुद्रजपादौन्यासविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रबौधायनमतेपंचांगन्यासा: ॥ तत्रशिखाध्यस्त्रांतमेकत्रिंशदंगन्यास:प्रथम: ॥
मूर्धादिपादांतंदशांगन्यासोद्वितीय: ॥
पादादिमूर्धांतंपंचांगन्यासस्तृतीय: ॥ गुह्यादिमस्तकांतंपंचांगंन्यासश्चतुर्थ: ॥
हृदयाध्यस्त्रांतंपंचांगंन्यास:पंचम: ॥ शातातपमतेतुप्रजनादिसर्वांगपर्यंतंषोडशांगन्यास:
षष्ठ:सर्वत्रजपादौ ॥
अभिषेकएवायंषष्ठोनान्यत्रेतिबौधायन: ॥ तेषांप्रकार: ॥ यातेरुद्रेतिशिखायां अस्मिन्मह
त्यर्णवइतिशिरसि सहस्त्राणीतिललाटे हस:शुचिषदितिभ्रुवोर्मध्ये त्र्यंबकमितिनेत्रयो: नम:
स्त्रुत्यायचेतिकर्णयो: मानस्तोकइतिनासिकायां अवतत्येतिमुखे नीलग्रीवौद्वौकंठे नमस्ते
अस्त्वायुधायेतिबाह्वो: यातहेतिरित्युपबाह्वो: येतीर्थानीतिहस्तयो: सध्योजातमितिपंचानु
वाकान्पंचस्वंगुलीषु नमोव:किरिकेभ्यइतिहृदये नमोगणेभ्यइतिपृष्ठेनमोहिरण्यबाहवइति
पार्श्वयो: विज्यंधनुरितिजठरे हिरण्यगर्भइतिनाभौ मीढुष्टमेतिकटयां येभूतानामधिपतय
इतिगुह्ये सशिराजातवेदाइत्यपाने मानोमहांतमित्यूर्वो: एषतइतिजान्वो: ससृष्टजिदिति
जंघयो: विश्वंभूतमितिगुल्फयो: येपथामितिपादयो: अध्यवोचदितिकवचं नमोबिल्मिन इत्युपकवचं नमोअस्तुनीलग्रीवायेतितृतीयनेत्रं प्रमुंचेत्यस्त्रं यएतावंतइतिदिग्बंधंकुर्यात् ॥
इतिप्रथम: ॥
ॐ कारंमूर्ध्निविन्यस्यनकारंनासिकाग्रत: ॥ मोकारंतुललाटेवैभवकारंमुखमध्यत: ॥
गकारंकंठदेशेतुवकारंहृदिविन्यसेत् ॥ तेकारंदक्षिणेहस्तेरुकारंवामतोन्यसेत् ॥
द्राकारंनाभिदेशेतुयकारंपादयोर्न्यसेत् ॥ ॐ मूर्ध्नेनमइत्येतान्यक्षराणिनमोंतानिन्यसेत् ॥
इतिद्वितीय: ॥
सध्यंतुपादयोर्न्यस्यवामंन्यस्योरुमध्यत: ॥ अघोरंहृदिविन्यस्यमुखेततत्पुरुषंन्यसेत् ॥
ईशानंमूर्ध्निविन्यस्येतिसदाशिवात्मतांभावयित्वाकरसंपुटंकृत्वा त्रातारमिंद्रंत्वंनोअग्नेसुगं
न:पंथाअसुन्वंतंतत्त्वायाम्यानोनियुभ्दिर्वयसोमतमीशानमस्मेरुद्रास्योनापृथिवीतींद्रादीन्नम
स्कृत्यात्मरक्षाकार्येति ॥
अस्मेरुद्रास्योनापृथिवीत्येताभ्यांत्रातारमिंद्रमित्याध्यष्टौमंत्रान्प्रत्येकंसंपुटीकृत्यपठेदितिवासंपुटइतिकेचित् ॥ इतितृतीय: ॥
मनोज्योतिरबोध्यग्निमूर्धानंमर्माणितेजातवेदाइतिगुह्यजठरहृदयमुखशिर:सुविन्यस्यात्मर
क्षाकर्तव्या ॥ इतिचतुर्थ: ॥
शिवसंकल्पंहृदयंपुरुषसूक्तंशिर:उत्तरनारायणंशिखाअप्रतिरथंकवचंशतरुद्रियमंस्त्रं ॥ इति
पंचम: ॥
प्रजननेब्रह्मातिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिंद्रस्ति० जठरेअ
ग्निस्ति० हृदयेशिवस्ति० कंठेवसवस्तिष्ठंतु वक्रेसरस्वतीति० नासिकयोर्वायुस्ति० नयन
यो:सूर्याचंद्रमसौतिष्ठतां कर्णयोरश्विनौदेवौतिष्ठतां ललाटेरुद्रास्तिष्ठंतु मूर्ध्न्यादित्या
स्ति० शिरसिमहादेवस्ति० शिखायांचामुंडाति० पृष्ठेपिनाकीति० पुरत:शूलीति० पार्श्वयो:
शिवाशंकरौतिष्ठतां सर्वतोवायुस्ति० ततोबहि:सर्वतोग्निर्ज्वालामालापरिवृतस्ति० सर्वेष्वं
गेषुसर्वादेवतायथायथास्थानंति० मारक्षंतु ॥ इतिषष्ठ: ॥
एवंसर्वत्रशातातपमते ॥ अभिषेकीवबौधायनमतइत्युक्तं ॥ एषुन्यासेषुशाखांतरेविशेष
उक्त: ॥ यथा ॥ प्रथमन्यासेहृदयानंतरंनमोगणेभ्यइतिपृष्ठेइति पार्श्वानंतरंविज्यंधनु
रितिजठरइति जान्वनंतरंससृष्टजिदितिजंघयोर्विश्वंभूतमितिगुल्फयोरिति ॥
प्रजननादिन्यासेचमूर्ध्न्यादित्यास्तिष्ठंत्वित्यनंतरंशिरसिमहापुरुषस्तिष्ठतुशिखायांचामुंडा
तिष्ठत्विति न्यासानंतरंहिरण्यगर्भोय:प्राणतोब्रह्मजज्ञानंमहीध्यौरुपश्वासयाग्नेनययाते
अग्नइमंयमेत्यष्टौमंत्रान् जपेत् ॥
अथात्मानमित्यादिभिर्ध्यायेत् ॥ ततऋषिदैवतच्छंदांसिस्मरेत् ॥ तदभावेजपादेर्वैयर्थ्यस्म
रणात् ॥ तत्रसग्रहपक्षेग्रहमंत्राणामृष्यादीनिपूर्वोक्तमात्स्यग्रहस्थापनप्रकारेणज्ञेयानिविस्तर
भियानात्रपुन:संगृहीतानि ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP