संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
गणपत्यथर्वशीर्षहवनविधि:

व्रतोदयान - गणपत्यथर्वशीर्षहवनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालोत्कीर्तनांतेश्रीगणपतिप्रसादसिध्द्यायुरायोग्यैश्वर्याध्य
मुकफलावाप्तयइत्यादियथोद्दिष्टमुक्त्वामुकसंख्याकमथर्वशीर्षजपंतद्दशांशेनहवनंतद्दशां
शेनतर्पणंतद्द्शांशेनमार्जनमेवंपुरश्चरणंकरिष्य इतिसंकल्प्यगणपतिपूजनस्वस्तिवाचना
ध्याचार्यवरणांतंकुर्यात् ॥
आचार्य:कर्मसंकल्प्यप्रादेशकरणांतेग्न्युत्तारणपूर्वकप्राणप्रतिष्ठादिनासौवर्णींगणपतिप्रतिमासंस्कृत्यपूर्वभागेसर्वतोभद्रेमहीध्यौरित्यादिविधिनास्थापितकलशोपरिगणानांत्वेतिसंस्थाप्य
रक्तवस्त्रगंधपुष्पादिभि:संपूज्य तत्पश्चिमत:स्थंडिलेऽग्निंप्रतिष्ठाप्यध्यात्वा सग्रहपक्षेई
शान्यांग्रहान्वरुणंचसंपूज्यान्वादध्यात् ॥
सग्रहकरणपक्षेविवक्षितसंख्ययाग्रहोत्कीर्तनांते प्रधानंश्रीगणपतिंअथर्वशीर्षामुकावृत्तिभि:
प्रतिखंडंदूर्वांकुर-लाज-मोदक-साज्यसमिदाध्यन्यतमामुकद्रव्येणशेषेणेत्याज्यभागंतेद्रव्यं
त्यक्त्वावदानधर्मेणजुहुयात् ॥
खंडमंत्रविभाग: ॥ तत्रादौशांति: ॥ ॐ भद्रंकर्णेभि:० ॐ स्वस्तिनइंद्रो० ॥ तन्मामवतु० ॥ अथगणेशाथर्वशीर्षंव्याख्यास्याम: ॥ ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥
त्वमेवकेवलंकर्तासि ॥ त्वमेवकेवलंधर्तासिस्वाहा ॥१॥
ॐ अवत्वंमां ॥ त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्वंखल्विदंब्रह्मासि ॥ त्वंसाक्षादात्मासि नित्यं ॥ ऋतंवच्मि ॥ संत्यंवच्मिस्वाहा ॥२॥
ॐ अवत्वंमा ॥ अवतुवक्तारं ॥ अवश्रोतारं ॥ अवदातारं ॥ अवधातारं ॥ अवानूचानम
वशिष्यं ॥ अवपश्चात्तात् ॥ अवपुरस्तात् ॥ अवोत्तरात्तात् ॥ अवक्षिणात्तात् ॥ अवचोर्ध्वा
त्तात् ॥ अवाधरात्तात् ॥ सर्वतोमांपाहिसमंतात् स्वाहा ॥३॥
ॐ त्वंवाड्मयत्स्वंचिन्मय: ॥ त्वमानंदमयस्त्वंब्रह्ममय: ॥ त्वंसच्चिदानंदाद्वितीयोसि
स्वाहा ॥४॥
ॐ त्वंप्रत्यक्षंब्रह्मासि ॥ त्वंज्ञानमयोविज्ञानमयोसि ॥ सर्वंजगदिदंत्वत्तोजायते ॥ सर्वंजगदिदंत्वत्तस्तिष्ठति ॥ सर्वजगदिदंत्वयिलयमेष्यति ॥ सर्वंजगदिदंत्वयिप्रत्येति ॥
त्वंभूमिरापोनलोनिलोनभ: ॥ त्वंचत्वारिवाक् पदानिस्वाहा ॥५॥
ॐ त्वंगुणत्रयातीत: ॥ त्वंदेहत्रयातीत: ॥ त्वंकालत्रयातीत: ॥ त्वंमूलाधारस्थितोसिनित्यं ॥ त्वंशक्तित्रयात्मक: ॥ त्वांयोगिनोध्यायंतिनित्यं ॥
त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिंद्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वंब्रह्मभूर्भुव:स्वरो
म् स्वाहा ॥६॥
ॐ गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरं ॥ अनुस्वार:परतर: ॥ अर्धेंदुलसितं ॥ तारेणरुध्दं ॥ एतत्तवमनुस्वरुपं ॥ गकार:पूर्वरुपं ॥ अकारोमध्यमरुपं ॥ अनुस्वारश्चांत्यरुपं ॥ बिंदु
रुत्तररुपं ॥ नाद:संधानं ॥ संहितासंधि: ॥ सैषागणेशविध्या ॥ गणकऋषि: ॥ निचद्गायत्रीछंद: ॥ गणपतिर्देवता ॥ ॐ गंगणपतयेनम:स्वाहा ॥७॥
ॐ एकदंतायविद्महेवक्रतुंडायधीमहि ॥ तन्नोदंतीप्रचोदयात् स्वाहा ॥८॥
ॐ एकदंतंचतुर्हस्तंपाशमंकुशधारिणम् ॥ रदंचवरदंहस्तैर्बिभ्राणंमूषकध्वजम् ॥
रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससं ॥ रक्तगंधानुलिप्तांगंरक्तपुष्पै:सुपूजितम् ॥
भक्तानुकंपिनंदेवंजगत्कारणमच्युतं ॥ आविर्भूतंचसृष्टयादौप्रकृते:पुरुषात्परं ॥
एवंध्यायतियोनित्यंसंयोगीयोगिनांवर:स्वाहा ॥९॥
ॐ नमोव्रातपतयेनमोगणपतयेनम:प्रथमपतयेनम: ॥ नमस्तेअस्तुलंबोदरायैकदंतायविघ्न
नाशिनेशिवपुत्रायवरदमूर्तयेनम:स्वाहा ॥१०॥
एतदथर्वशीर्षंयोऽधीते ॥ सब्रह्मभूयायकल्पते ॥ ससर्वविघ्नैर्नबाध्यते ॥ ससर्वत:सुखमेध
ते ॥ सपंचमहापापात्प्रमुच्यते ॥ सायमधीयानोदिवसकृतंपापंनाशयति ॥
प्रातरधियानोरात्रिकृतंपापंनाशयति ॥ सायंप्रात:प्रयुंजानोअपापोभवति ॥
सर्वत्राधीयानोऽपविघ्नोभवति ॥ धर्मार्थकाममोक्षंचविंदति ॥ इदमथर्वशीर्षमशिष्यायनदेयं ॥ योयदिमोहाद्दास्यति ॥ सपापीयान् भवति ॥ सहस्त्रावर्तनात् ॥ यंयंकाममधीते ॥ तंतमनेनसाधयेत् ॥ अनेनगणपतिमभिषिंचति ॥ सवाग्ग्मीभवति ॥ चतुर्थ्यामनश्नन् जपति ॥ सविध्यावान्भवति ॥ इत्यथर्वणवाक्यं ॥ ब्रह्माध्यावरणंविध्यात् ॥ नबिभेतिकदाचनेति ॥ योदूर्वांकुरैर्यजति ॥ सवैश्रवणोपमोभवति ॥ योलाजैर्यजति ॥ सयशोवान्भवति ॥ समेधावान्भवति ॥ योमोदकसहस्त्रेणयजति ॥ सवांछितफलमवाप्नो
ति ॥ य:साज्यसमिभ्दिर्यजति ॥ ससर्वंलभतेससर्वंलभते ॥ अष्टौब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वीभवति ॥ सूर्यग्रहेमहानध्यांप्रतिमासंनिधौवाजप्त्वा ॥ सिध्दमंत्रोभवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥
ससर्वविभ्दवतिससर्वविभ्दवति ॥ यएवंवेद ॥ इत्युपनिषत् ॥ ॐ भद्रंकर्णेभि:० ॥ ॐ स्वस्तिनइंद्रो० ॥
एवंहुत्वास्विष्टकृदादिहोमशेषंसमाप्यस्थापितकलशोदकेनसकुटुंबंयजमानमभिषिच्यदेवतापूजनविसर्जनांतेपीठमाचार्यहस्तेप्रतिपाध्य ॥
ब्राह्मणभोजनंसंकल्प्यभूयसींदक्षिणांदत्त्वाशिषोगृहीत्वाकर्मेश्वरार्पणंकुर्यात् ॥
इत्यथर्वशीर्षविधानम् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP