संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथाशादित्यव्रतम्

व्रतोदयान - अथाशादित्यव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:सकलरोगनिरसनपूर्वकपुत्रपौत्रसकलाभीष्टसिध्दिद्वाराश्री
सवितृप्रीत्यर्थंआशादित्यव्रतंकरिष्ये ॥
तत्रमंत्र: ॥ यथाशाविमला:सर्वास्तवभास्करभानुभि: ॥ तथाशाविमलामह्यंकुरुनित्यंममा
र्घ्यत: ॥
नमोऽस्तुतेपापविनाशनाय विश्वात्मनेसप्ततुरंगमाय ॥ सामर्ग्यजुर्धामनिधेविधात्रेभवाब्धि
पोतायनम:सवित्रे ॥
अनेनमंत्रेणमासाधिपनाममंत्रेणचपूजाकार्या ॥ मासाधिपनामानि सूर्य: १ धाता २ वरूण: ३ माधव: ४ हरि: ५ रवि: ६ रुद्र: ७ भर्ग: ८ स्वर्णरेता: ९ अर्यमा १० भानु: ११ भास्कर: १२ ॥
वृताचार्य:सर्वतोभद्रेरक्तवस्त्रवेष्टितंताम्रकलशंनिधायतत्रपूर्णपात्रेद्वादशारंकमलंविरच्यतन्म
ध्येरौप्यरथेहैमंसवितारं आकृष्णेतिमंत्रेणसंस्थाप्य परितोद्वादशदलेषुपूर्वोक्तान् द्वादशमा
साधिपान् प्रतिष्ठाप्यउक्तप्रकारेणपूजयेत् ॥
ततोऽग्निंप्रतिष्ठाप्यहोमयेत् ॥ प्रधानंसवितारंपायसद्रव्येणाष्टोत्तरशत १०८ संख्याकाहुति
भि: मासाधिपद्वादशदेवता: ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ अत्रपायसपूरितता
म्रपात्रदानमुक्तं ॥ होम:कृताकृत: ॥ इत्याशादित्यव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP