संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथाश्वत्थविवाह:

व्रतोदयान - अथाश्वत्थविवाह:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रादावश्वत्थाऽऽलवालेशतकुंभमितंशुध्दजलंक्षिप्त्वादुग्धघृतमधुकुंभैश्च सिक्त्वा
वस्त्रयुग्मेनअश्वत्थतुलस्यादिशाखावेष्टयित्वा अश्वत्थायोष्णीषं वस्त्रयुग्मं तुलस्यैकंचुकीं
वस्त्रंकंठभूषणंमंगलसूत्रंमौक्तिकंकर्णपादभूषणानिचदत्त्वा अश्वत्थस्यविवाहविधिंकरिष्य
इतिसंकल्प्य ॥
पूर्वसंस्कारहोमस्थंडिलोत्तरप्रदेशेस्थंडिलंनिर्माययोजकनामानमग्निंप्रतिश्थाप्यान्वादध्यात् ॥ अत्रप्रधानं ब्रह्माणंद्वासुपर्णेतिमंत्रेण तिलाज्यद्रव्याभ्यांप्रतिद्रव्यं १०८ संख्याहुतिभि:
अग्निंपृथिवींमहांतं वायुमंतरिक्षंमहांतंआदित्यंदिवंमहांतं चंद्रमसंनक्षत्राणिदिशोमहांतंच
तिलाज्यद्रव्याभ्यां प्रत्येकंप्रतिद्रव्यं २७ संख्याहुतिभिर्यक्ष्ये ॥
शेषेणस्विष्टकृत० एवंहोमंकृत्वातुलस्यश्वत्थयोरंतरालेंऽत:पटंधृत्वामंगलाष्टकानिपठित्वांऽ
त:पटंनि:सार्यतयोश्चतुर:शाखामयान्हस्तान् गृभ्णामीतिमंत्रेणयोजयेत् ॥
तत:स्विष्टकृदादिहोमशेषंसमाप्याश्वत्थंतुलसींचपुरुषसूक्तेनषोडशोपचारै:संपूज्यप्रार्थयेत् ॥
अश्वत्थत्वंजगन्नाथ:पुरादेवैर्विनिर्मित: ॥
पापात्संत्राहिनोदेवपुण्यंदेहिमहाफलं ॥ क्षीरोदधिसमुभ्दूतेतुलसिहरिवल्लभे ॥ अश्वत्थोध्या
पनंफलंदेहिमह्यंसदाशिवे ॥
ततआचार्य:ग्रहयज्ञोक्तविधिनाबलीन्दत्त्वाक्षेत्रपालबलिंचदत्वा सर्वेआचार्या:स्वस्वकुंडेपूर्णाहु
तिंहुत्वाकर्मशेषंसमापयेयु: ॥
ततोयजमान:पीठपूजांविधाय कृतस्याश्वत्थोध्यापनस्यसांगतासिध्दयेआचार्यादिभ्य:पूजापू
र्वकंदक्षिणांदत्त्वा आचार्यादय:पूर्वस्थापिताष्टकलशोदकेनदूर्वापल्लवै:सपत्नीकंयजमानभिषिं
चेयु: ॥ तत्रमंत्रा: ॥
आनोभद्राइतिदशर्चंसूक्तं अस्यवामस्येतिद्वपंचाशदृचंसूक्तं परोमात्रयेतिदशर्चंसूक्तं मुंचा
मित्वेतिपंचर्चंसूक्तं समुद्रज्येष्ठाइत्यादय:सुरास्त्वामभिषिंचंत्वित्याध्या: ॥
एवमभिषिक्तोयजमान:तिलकादिधृत्वाअग्निंपीठदेवताश्चसंपूज्य ॐ उत्तिष्ठब्रह्मणस्पत
इत्युत्थाप्य ॐ अभ्यारमिदद्रयो० यांतुदेवगणा:स० इतिविसृज्यसोपस्करंपीठमाचार्यायगां
चदत्त्वामंडपंसदस्यायआचार्यायवादत्त्वाभूयसींचदत्त्वाकर्मेश्वरार्पणंकृत्वाशताधिकान्ब्राह्मणा
न्संभोज्य आशिषोगृहीत्वा ॥
अनेनाश्वत्थोध्यापनेनश्रीकृष्ण:प्रीयतामितिसंपूर्णतांवाचयित्वाइष्टजनै:सहभुंजीत ॥
इतिशौनकीयेअश्वत्थोध्यापनम् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP